अध्याय 66, Verse 1
ब्रह्मोवाच ।
गुडिवामण्डपं यान्तं ये पश्यन्ति रथे स्थितम् ।
कृष्णं बलं सुभद्रां च ते यान्ति भवनं हरेः ॥ ६६.१॥
Containing 23 sacred Sanskrit shlokas with multi-author commentaries and translations.
ब्रह्मोवाच ।
गुडिवामण्डपं यान्तं ये पश्यन्ति रथे स्थितम् ।
कृष्णं बलं सुभद्रां च ते यान्ति भवनं हरेः ॥ ६६.१॥
ये पश्यन्ति तदा कृष्णं सप्ताहं मण्डपे स्थितम् ।
हलिनं च सुभद्रां च विष्णुलोकं व्रजन्ति ते ॥ ६६.२॥
मुनय ऊचुः ।
केन सा निर्मिता यात्रा दक्षिणस्यां जगत्पते ।
यात्राफलं च किं तत्र प्राप्यते ब्रूहि मानवैः ॥ ६६.३॥
किमर्थं सरसस्तीरे राज्ञस्तस्य जगत्पते ।
पवित्रे विजने देशे गत्वा तत्र च मण्डपे ॥ ६६.४॥
कृष्णः संकर्षणश्चैव सुभद्रा च रथेन ते ।
स्वस्थानं सम्परित्यज्य सप्तरात्रं वसन्ति वै ॥ ६६.५॥
ब्रह्मोवाच ।
इन्द्रद्युम्नेन भो विप्राः पुरा वै प्रार्थितो हरिः ।
सप्ताहं सरसस्तीरे मम यात्रा भवत्विति ॥ ६६.६॥
गुडिवा नाम देवेश भुक्तिमुक्तिफलप्रदा ।
तस्मै किल वरं चासौ ददौ स पुरुषोत्तमः ॥ ६६.७॥
श्रीभगवान् उवाच ।
सप्ताहं सरसस्तीरे तव राजन् भविष्यति ।
गुडिवा नाम यात्रा मे सर्वकामफलप्रदा ॥ ६६.८॥
ये मां तत्रार्चयिष्यन्ति श्रद्धया मण्डपे स्थितम् ।
संकर्षणं सुभद्रां च विधिवत् सुसमाहिताः ॥ ६६.९॥
ब्राह्मणाः क्षत्रिया वैश्याः स्त्रियः शूद्राश्च वै नृप ।
पुष्पैर्गन्धैस्तथा धूपैर्दीपैर्नैवेद्यकैर्वरैः ॥ ६६.१०॥
उपहारैर्बहुविधैः प्रणिपातैः प्रदक्षिणैः ।
जयशब्दैस्तथा स्तोत्रैर्गीतैर्वाद्यैर्मनोहरैः ॥ ६६.११॥
न तेषां दुर्लभं किंचित् फलं यस्य यद् ईप्सितम् ।
भविष्यति नृपश्रेष्ठ मत्प्रसादाद् असंशयम् ॥ ६६.१२॥
ब्रह्मोवाच ।
एवमुक्त्वा तु तं देवस्तत्रैवान्तरधीयत ।
स तु राजवरः श्रीमान् कृतकृत्योऽभवत् तदा ॥ ६६.१३॥
तस्मात् सर्वप्रयत्नेन गुडिवायां द्विजोत्तमाः ।
सर्वकामप्रदं देवं पश्येत् तं पुरुषोत्तमम् ॥ ६६.१४॥
अपुत्रो लभते पुत्रान् निर्धनो लभते धनम् ।
रोगाच्च मुच्यते रोगी कन्या प्राप्नोति सत्पतिम् ॥ ६६.१५॥
आयुः कीर्तिं यशो मेधां बलं विद्यां धृतिं पशून् ।
नरः संततिमाप्नोति रूपयौवनसम्पदम् ॥ ६६.१६॥
यान् यान् समीहते भोगान् दृष्ट्वा तं पुरुषोत्तमम् ।
नरो वाप्यथवा नारी तांस्तान् प्राप्नोत्यसंशयम् ॥ ६६.१७॥
यात्रां कृत्वा गुडिवाख्यां विधिवत् सुसमाहितः ।
आषाढस्य सिते पक्षे नरो योषिद् अथापि वा ॥ ६६.१८॥
दृष्ट्वा कृष्णं च रामं च सुभद्रां च द्विजोत्तमाः ।
दशपञ्चाश्वमेधानां फलं प्राप्नोति चाधिकम् ॥ ६६.१९॥
सप्तावरान् सप्त परान् वंशान् उद्धृत्य चात्मनः ।
कामगेन विमानेन सर्वरत्नैरलंकृतः ॥ ६६.२०॥
गन्धर्वैरप्सरोभिश्च सेव्यमानो यथोत्तरैः ।
रूपवान् सुभगः शूरो नरो विष्णुपुरं व्रजेत् ॥ ६६.२१॥
तत्र भुक्त्वा वरान् भोगान् यावद् आभूतसम्प्लवम् ।
सर्वकामसमृद्धात्मा जरामरणवर्जितः ॥ ६६.२२॥
पुण्यक्षयाद् इहागत्य चतुर्वेदी द्विजो भवेत् ।
वैष्णवं योगमास्थाय ततो मोक्षमवाप्नुयात् ॥ ६६.२३॥