अध्याय 65, Verse 1
मुनय ऊचुः ।
कस्मिन् काले भवेत् स्नानं कृष्णस्य कमलोद्भव ।
विधिना केन तद् ब्रूहि ततो विधिविदां वर ॥ ६५.१॥
Containing 98 sacred Sanskrit shlokas with multi-author commentaries and translations.
मुनय ऊचुः ।
कस्मिन् काले भवेत् स्नानं कृष्णस्य कमलोद्भव ।
विधिना केन तद् ब्रूहि ततो विधिविदां वर ॥ ६५.१॥
ब्रह्मोवाच ।
शृणुध्वं मुनयः स्नानं कृष्णस्य वदतो मम ।
रामस्य च सुभद्रायाः पुण्यं सर्वाघनाशनम् ॥ ६५.२॥
मासि ज्येष्ठे च सम्प्राप्ते नक्षत्रे चन्द्रदैवते ।
पौर्णमास्यां तदा स्नानं सर्वकालं हरेर्द्विजाः ॥ ६५.३॥
सर्वतीर्थमयः कूपस्तत्रास्ते निर्मलः शुचिः ।
तदा भोगवती तत्र प्रत्यक्षा भवति द्विजाः ॥ ६५.४॥
तस्माज्ज्यैष्ठ्यां समुद्धृत्य हैमाढ्यैः कलशैर्जलम् ।
कृष्णरामाभिषेकार्थं सुभद्रायाश्च भो द्विजाः ॥ ६५.५॥
कृत्वा सुशोभनं मञ्चं पताकाभिरलंकृतम् ।
सुदृढं सुखसंचारं वस्त्रैः पुष्पैरलंकृतम् ॥ ६५.६॥
विस्तीर्णं धूपितं धूपैः स्नानार्थं रामकृष्णयोः ।
सितवस्त्रपरिच्छन्नं मुक्ताहारावलम्बितम् ॥ ६५.७॥
तत्र नानाविधैर्वाद्यैः कृष्णं नीलाम्बरं द्विजाः ।
मध्ये सुभद्रां चास्थाप्य जयमङ्गलनिस्वनैः ॥ ६५.८॥
ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रैश्चान्यैश्च जातिभिः ।
अनेकशतसाहस्रैर्वृतं स्त्रीपुरुषैर्द्विजाः ॥ ६५.९॥
गृहस्थाः स्नातकाश्चैव यतयो ब्रह्मचारिणः ।
स्नापयन्ति तदा कृष्णं मञ्चस्थं सहलायुधम् ॥ ६५.१०॥
तथा समस्ततीर्थानि पूर्वोक्तानि द्विजोत्तमाः ।
स्वोदकैः पुष्पमिश्रैश्च स्नापयन्ति पृथक् पृथक् ॥ ६५.११॥
पश्चात् पटहशङ्खाद्यैर्भेरीमुरजनिस्वनैः ।
काहलैस्तालशब्दैश्च मृदङ्गैर्झर्झरैस्तथा ॥ ६५.१२॥
अन्यैश्च विविधैर्वाद्यैर्घण्टास्वनविभूषितैः ।
स्त्रीणां मङ्गलशब्दैश्च स्तुतिशब्दैर्मनोहरैः ॥ ६५.१३॥
जयशब्दैस्तथा स्तोत्रैर्वीणावेणुनिनादितैः ।
श्रूयते सुमहाञ् शब्दः सागरस्येव गर्जतः ॥ ६५.१४॥
मुनीनां वेदशब्देन मन्त्रशब्दैस्तथापरैः ।
नानास्तोत्ररवैः पुण्यैः सामशब्दोपबृंहितैः ॥ ६५.१५॥
यतिभिः स्नातकैश्चैव गृहस्थैर्ब्रह्मचारिभिः ।
स्नानकाले सुरश्रेष्ठ स्तुवन्ति परया मुदा ॥ ६५.१६॥
श्यामैर्वेश्याजनैश्चैव कुचभारावनामिभिः ।
पीतरक्ताम्बराभिश्च माल्यदामावनामिभिः ॥ ६५.१७॥
सरत्नकुण्डलैर्दिव्यैः सुवर्णस्तबकान्वितैः ।
चामरै रत्नदण्डैश्च वीज्येते रामकेशवौ ॥ ६५.१८॥
यक्षविद्याधरैः सिद्धैः किंनरैश्चाप्सरोगणैः ।
परिवार्याम्बरगतैर्देवगन्धर्वचारणैः ॥ ६५.१९॥
आदित्या वसवो रुद्राः साध्या विश्वे मरुद्गणाः ।
लोकपालास्तथा चान्ये स्तुवन्ति पुरुषोत्तमम् ॥ ६५.२०॥
नमस्ते देवदेवेश पुराण पुरुषोत्तम ।
सर्गस्थित्यन्तकृद् देव लोकनाथ जगत्पते ॥ ६५.२१॥
त्रैलोक्यधारिणं देवं ब्रह्मण्यं मोक्षकारणम् ।
तं नमस्यामहे भक्त्या सर्वकामफलप्रदम् ॥ ६५.२२॥
स्तुत्वैवं विबुधाः कृष्णं रामं चैव महाबलम् ।
सुभद्रां च मुनिश्रेष्ठास्तदाकाशे व्यवस्थिताः ॥ ६५.२३॥
गायन्ति देवगन्धर्वा नृत्यन्त्यप्सरसस्तथा ।
देवतूर्याण्यवाद्यन्त वाता वान्ति सुशीतलाः ॥ ६५.२४॥
पुष्पमिश्रं तदा मेघा वर्षन्त्याकाशगोचराः ।
जयशब्दं च कुर्वन्ति मुनयः सिद्धचारणाः ॥ ६५.२५॥
शक्राद्या विबुधाः सर्व ऋषयः पितरस्तथा ।
प्रजानां पतयो नागा ये चान्ये स्वर्गवासिनः ॥ ६५.२६॥
ततो मङ्गलसम्भारैर्विधिमन्त्रपुरस्कृतम् ।
आभिषेचनिकं द्रव्यं गृहीत्वा देवतागणाः ॥ ६५.२७॥
इन्द्रो विष्णुर्महावीर्यः सूर्याचन्द्रमसौ तथा ।
धाता चैव विधाता च तथा चैवानिलानलौ ॥ ६५.२८॥
पूषा भगोऽर्यमा त्वष्टा अंशुनैव विवस्वता ।
पत्नीभ्यां सहितो धीमान् मित्रेण वरुणेन च ॥ ६५.२९॥
रुद्रैर्वसुभिरादित्यैरश्विभ्यां च वृतः प्रभुः ।
विश्वैर्देवैर्मरुद्भिश्च साध्यैश्च पितृभिः सह ॥ ६५.३०॥