अध्याय 63, Verse 1
ब्रह्मोवाच ।
ततो गच्छेद् द्विजश्रेष्ठास्तीर्थं यज्ञाङ्गसम्भवम् ।
इन्द्रद्युम्नसरो नाम यत्रास्ते पावनं शुभम् ॥ ६३.१॥
Containing 22 sacred Sanskrit shlokas with multi-author commentaries and translations.
ब्रह्मोवाच ।
ततो गच्छेद् द्विजश्रेष्ठास्तीर्थं यज्ञाङ्गसम्भवम् ।
इन्द्रद्युम्नसरो नाम यत्रास्ते पावनं शुभम् ॥ ६३.१॥
गत्वा तत्र शुचिर्धीमान् आचम्य मनसा हरिम् ।
ध्यात्वोपस्थाय च जलमिमं मन्त्रमुदीरयेत् ॥ ६३.२॥
अश्वमेधाङ्गसम्भूत तीर्थ सर्वाघनाशन ।
स्नानं त्वयि करोम्यद्य पापं हर नमोऽस्तु ते ॥ ६३.३॥
एवमुच्चार्य विधिवत् स्नात्वा देवान् ऋषीन् पितृन् ।
तिलोदकेन चान्यांश्च संतर्प्याचम्य वाग्यतः ॥ ६३.४॥
दत्त्वा पितृणां पिण्डांश्च सम्पूज्य पुरुषोत्तमम् ।
दशाश्वमेधिकं सम्यक् फलं प्राप्नोति मानवः ॥ ६३.५॥
सप्तावरान् सप्त परान् वंशान् उद्धृत्य देववत् ।
कामगेन विमानेन विष्णुलोकं स गच्छति ॥ ६३.६॥
भुक्त्वा तत्र सुखान् भोगान् यावच्चन्द्रार्कतारकम् ।
च्युतस्तस्माद् इहायातो मोक्षं च लभते ध्रुवम् ॥ ६३.७॥
एवं कृत्वा पञ्चतीर्थीमेकादश्यामुपोषितः ।
ज्येष्ठशुक्लपञ्चदश्यां यः पश्येत् पुरुषोत्तमम् ॥ ६३.८॥
स पूर्वोक्तं फलं प्राप्य क्रीडित्वा वाच्युतालये ।
प्रयाति परमं स्थानं यस्मान् नावर्तते पुनः ॥ ६३.९॥
मुनय ऊचुः ।
मासान् अन्यान् परित्यज्य माघादीन् प्रपितामह ।
प्रशंससि कथं ज्येष्ठं ब्रूहि तत्कारणं प्रभो ॥ ६३.१०॥
ब्रह्मोवाच ।
शृणुध्वं मुनिशार्दूलाः प्रवक्ष्यामि समासतः ।
ज्येष्ठं मासं यथा तेभ्यः प्रशंसामि पुनः पुनः ॥ ६३.११॥
पृथिव्यां यानि तीर्थानि सरितश्च सरांसि च ।
पुष्करिण्यस्तडागानि वाप्यः कूपास्तथा ह्रदाः ॥ ६३.१२॥
नानानद्यः समुद्राश्च सप्ताहं पुरुषोत्तमे ।
ज्येष्ठशुक्लदशम्यादि प्रत्यक्षं यान्ति सर्वदा ॥ ६३.१३॥
स्नानदानादिकं तस्माद् देवताप्रेक्षणं द्विजाः ।
यत् किंचित् क्रियते तत्र तस्मिन् कालेऽक्षयं भवेत् ॥ ६३.१४॥
शुक्लपक्षस्य दशमी ज्येष्ठे मासि द्विजोत्तमाः ।
हरते दश पापानि तस्माद् दशहरा स्मृता ॥ ६३.१५॥
यस्तस्यां हलिनं कृष्णं पश्येद् भद्रां सुसंयतः ।
सर्वपापविनिर्मुक्तो विष्णुलोकं व्रजेन् नरः ॥ ६३.१६॥
उत्तरे दक्षिणे विप्रास्त्वयने पुरुषोत्तमम् ।
दृष्ट्वा रामं सुभद्रां च विष्णुलोकं व्रजेन् नरः ॥ ६३.१७॥
नरो दोलागतं दृष्ट्वा गोविन्दं पुरुषोत्तमम् ।
फाल्गुन्यां प्रयतो भूत्वा गोविन्दस्य पुरं व्रजेत् ॥ ६३.१८॥
विषुवद्दिवसे प्राप्ते पञ्चतीर्थीं विधानतः ।
कृत्वा संकर्षणं कृष्णं दृष्ट्वा भद्रां च
नरः समस्तयज्ञानां फलं प्राप्नोति दुर्लभम् ।
विमुक्तः सर्वपापेभ्यो विष्णुलोकं च गच्छति ॥ ६३.२०॥
यः पश्यति तृतीयायां कृष्णं चन्दनरूषितम् ।
वैशाखस्यासिते पक्षे स यात्यच्युतमन्दिरम् ॥ ६३.२१॥
ज्यैष्ठ्यां ज्येष्ठर्क्षयुक्तायां यः पश्येत् पुरुषोत्तमम् ।
कुलैकविंशमुद्धृत्य विष्णुलोकं स गच्छति ॥ ६३.२२॥