Brahma Purana

अध्याय 62

Containing 23 sacred Sanskrit shlokas with multi-author commentaries and translations.

Brahma Purana

अध्याय 62, Verse 1

ब्रह्मोवाच ।

एवं सम्पूज्य विधिवद् भक्त्या तं पुरुषोत्तमम् ।

प्रणम्य शिरसा पश्चात् सागरं च प्रसादयेत् ॥ ६२.१॥

Brahma Purana

अध्याय 62, Verse 2

प्राणस्त्वं सर्वभूतानां योनिश्च सरितां पते ।

तीर्थराज नमस्तेऽस्तु त्राहि मामच्युतप्रिय ॥ ६२.२॥

Brahma Purana

अध्याय 62, Verse 3

स्नात्वैवं सागरे सम्यक् तस्मिन् क्षेत्रवरे द्विजाः ।

तीरे चाभ्यर्च्य विधिवन् नारायणमनामयम् ॥ ६२.३॥

Brahma Purana

अध्याय 62, Verse 4

रामं कृष्णं सुभद्रां च प्रणिपत्य च सागरम् ।

शतानामश्वमेधानां फलं प्राप्नोति मानवः ॥ ६२.४॥

Brahma Purana

अध्याय 62, Verse 5

सर्वपापविनिर्मुक्तः सर्वदुःखविवर्जितः ।

वृन्दारक इव श्रीमान् रूपयौवनगर्वितः ॥ ६२.५॥

Brahma Purana

अध्याय 62, Verse 6

विमानेनार्कवर्णेन दिव्यगन्धर्वनादिना ।

कुलैकविंशमुद्धृत्य विष्णुलोकं स गच्छति ॥ ६२.६॥

Brahma Purana

अध्याय 62, Verse 7

भुक्त्वा तत्र वरान् भोगान् क्रीडित्वा चाप्सरैः सह ।

मन्वन्तरशतं साग्रं जरामृत्युविवर्जितः ॥ ६२.७॥

Brahma Purana

अध्याय 62, Verse 8

पुण्यक्षयाद् इहायातः कुले सर्वगुणान्विते ।

रूपवान् सुभगः श्रीमान् सत्यवादी जितेन्द्रियः ॥ ६२.८॥

Brahma Purana

अध्याय 62, Verse 9

वेदशास्त्रार्थविद् विप्रो भवेद् यज्वा तु वैष्णवः ।

योगं च वैष्णवं प्राप्य ततो मोक्षमवाप्नुयात् ॥ ६२.९॥

Brahma Purana

अध्याय 62, Verse 10

ग्रहोपरागे संक्रान्त्यामयने विषुवे तथा ।

युगादिषु षडशीत्यां व्यतीपाते दिनक्षये ॥ ६२.१०॥

Brahma Purana

अध्याय 62, Verse 11

आषाढ्यां चैव कार्त्तिक्यां माघ्यां वान्ये शुभे तिथौ ।

ये तत्र दानं विप्रेभ्यः प्रयच्छन्ति सुमेधसः ॥ ६२.११॥

Brahma Purana

अध्याय 62, Verse 12

फलं सहस्रगुणितमन्यतीर्थाल्लभन्ति ते ।

पितृणां ये प्रयच्छन्ति पिण्डं तत्र विधानतः ॥ ६२.१२॥

Brahma Purana

अध्याय 62, Verse 13

अक्षयां पितरस्तेषां तृप्तिं सम्प्राप्नुवन्ति वै ।

एवं स्नानफलं सम्यक् सागरस्य मयोदितम् ॥ ६२.१३॥

Brahma Purana

अध्याय 62, Verse 14

दानस्य च फलं विप्राः पिण्डदानस्य चैव हि ।

धर्मार्थमोक्षफलदमायुष्कीर्तियशस्करम् ॥ ६२.१४॥

Brahma Purana

अध्याय 62, Verse 15

भुक्तिमुक्तिफलं नृणां धन्यं दुःस्वप्ननाशनम् ।

सर्वपापहरं पुण्यं सर्वकामफलप्रदम् ॥ ६२.१५॥

Brahma Purana

अध्याय 62, Verse 16

नास्तिकाय न वक्तव्यं पुराणं च द्विजोत्तमाः ।

तावद् गर्जन्ति तीर्थानि माहात्म्यैः स्वैः पृथक् पृथक् ॥ ६२.१६॥

Brahma Purana

अध्याय 62, Verse 17

यावन् न तीर्थराजस्य माहात्म्यं वर्ण्यते द्विजाः ।

पुष्करादीनि तीर्थानि प्रयच्छन्ति स्वकं फलम् ॥ ६२.१७॥

Brahma Purana

अध्याय 62, Verse 18

तीर्थराजस्तु स पुनः सर्वतीर्थफलप्रदः ।

भूतले यानि तीर्थानि सरितश्च सरांसि च ॥ ६२.१८॥

Brahma Purana

अध्याय 62, Verse 19

विशन्ति सागरे तानि तेनासौ श्रेष्ठतां गतः ।

राजा समस्ततीर्थानां सागरः सरितां पतिः ॥ ६२.१९॥

Brahma Purana

अध्याय 62, Verse 20

तस्मात् समस्ततीर्थेभ्यः श्रेष्ठोऽसौ सर्वकामदः ।

तमो नाशं यथाभ्येति भास्करेऽभ्युदिते द्विजाः ॥ ६२.२०॥

Brahma Purana

अध्याय 62, Verse 21

स्नानेन तीर्थराजस्य तथा पापस्य संक्षयः ।

तीर्थराजसमं तीर्थं न भूतं न भविष्यति ॥ ६२.२१॥

Brahma Purana

अध्याय 62, Verse 22

अधिष्ठानं यदा यत्र प्रभोर्नारायणस्य वै ।

कः शक्नोति गुणान् वक्तुं तीर्थराजस्य भो द्विजाः ॥ ६२.२२॥

Brahma Purana

अध्याय 62, Verse 23

कोट्यो नवनवत्यस्तु यत्र तीर्थानि सन्ति वै ।

तस्मात् स्नानं च दानं च होमं जप्यं सुरार्चनम् ।

यत् किंचित् क्रियते तत्र चाक्षयं क्रियते द्विजाः ॥ ६२.२३॥