अध्याय 61, Verse 1
ब्रह्मोवाच ।
देवान् पितृंस्तथा चान्यान् संतर्प्याचम्य वाग्यतः ।
हस्तमात्रं चतुष्कोणं चतुर्द्वारं सुशोभनम् ॥ ६१.१॥
Containing 57 sacred Sanskrit shlokas with multi-author commentaries and translations.
ब्रह्मोवाच ।
देवान् पितृंस्तथा चान्यान् संतर्प्याचम्य वाग्यतः ।
हस्तमात्रं चतुष्कोणं चतुर्द्वारं सुशोभनम् ॥ ६१.१॥
पुरं विलिख्य भो विप्रास्तीरे तस्य महोदधेः ।
मध्ये तत्र लिखेत् पद्ममष्टपत्त्रं सकर्णिकम् ॥ ६१.२॥
एवं मण्डलमालिख्य पूजयेत् तत्र भो द्विजाः ।
अष्टाक्षरविधानेन नारायणमजं विभुम् ॥ ६१.३॥
अतः परं प्रवक्ष्यामि कायशोधनमुत्तमम् ।
अकारं हृदये ध्यात्वा चक्ररेखासमन्वितम् ॥ ६१.४॥
ज्वलन्तं त्रिशिखं चैव दहन्तं पापनाशनम् ।
चन्द्रमण्डलमध्यस्थं राकारं मूर्ध्नि चिन्तयेत् ॥ ६१.५॥
शुक्लवर्णं प्रवर्षन्तममृतं प्लावयन् महीम् ।
एवं निर्धूतपापस्तु दिव्यदेहस्ततो भवेत् ॥ ६१.६॥
अष्टाक्षरं ततो मन्त्रं न्यसेद् एवात्मनो बुधः ।
वामपादं समारभ्य क्रमशश्चैव विन्यसेत् ॥ ६१.७॥
पञ्चाङ्गं वैष्णवं चैव चतुर्व्यूहं तथैव च ।
करशुद्धिं प्रकुर्वीत मूलमन्त्रेण साधकः ॥ ६१.८॥
एकैकं चैव वर्णं तु अङ्गुलीषु पृथक् पृथक् ।
ओंकारं पृथिवीं शुक्लां वामपादे तु विन्यसेत् ॥ ६१.९॥
नकारः शाम्भवः श्यामो दक्षिणे तु व्यवस्थितः ।
मोकारं कालमेवाहुर्वामकट्यां निधापयेत् ॥ ६१.१०॥
नाकारः सर्वबीजं तु दक्षिणस्यां व्यवस्थितः ।
राकारस्तेज इत्याहुर्नाभिदेशे व्यवस्थितः ॥ ६१.११॥
वायव्योऽयं यकारस्तु वामस्कन्धे समाश्रितः ।
णाकारः सर्वगो ज्ञेयो दक्षिणांसे व्यवस्थितः ।
यकारोऽयं शिरस्थश्च यत्र लोकाः प्रतिष्ठिताः ॥ ६१.१२॥
ओं विष्णवे नमः शिरः ओं ज्वलनाय नमः शिखा ।
ओं विष्णवे नमः कवचमों विष्णवे नमः स्फुरणं दिशोबन्धाय ।
ओं हुम्फडस्त्रमों शिरसि शुक्लो वासुदेव इति ।
ओं आं ललाटे रक्तः संकर्षणो गरुत्मान् वह्निस्तेज आदित्य इति ।
ओं आं ग्रीवायां पीतः प्रद्युम्नो वायुमेघ इति ।
ओं आं हृदये कृष्णोऽनिरुद्धः सर्वशक्तिसमन्वित इति ।
एवं चतुर्व्यूहमात्मानं कृत्वा ततः कर्म समाचरेत् ॥ ६१.१३॥
ममाग्रेऽवस्थितो विष्णुः पृष्ठतश्चापि केशवः ।
गोविन्दो दक्षिणे पार्श्वे वामे तु मधुसूदनः ॥ ६१.१४॥
उपरिष्टात् तु वैकुण्ठो वाराहः पृथिवीतले ।
अवान्तरदिशो यास्तु तासु सर्वासु माधवः ॥ ६१.१५॥
गच्छतस्तिष्ठतो वापि जाग्रतः स्वपतोऽपि वा ।
नरसिंहकृता गुप्तिर्वासुदेवमयो ह्यहम् ॥ ६१.१६॥
एवं विष्णुमयो भूत्वा ततः कर्म समारभेत् ।
यथा देहे तथा देवे सर्वतत्त्वानि योजयेत् ॥ ६१.१७॥
ततश्चैव प्रकुर्वीत प्रोक्षणं प्रणवेन तु ।
फट्कारान्तं समुद्दिष्टं सर्वविघ्नहरं शुभम् ॥ ६१.१८॥
तत्रार्कचन्द्रवह्नीनां मण्डलानि विचिन्तयेत् ।
पद्ममध्ये न्यसेद् विष्णुं पवनस्याम्बरस्य च ॥ ६१.१९॥
ततो विचिन्त्य हृदय ओंकारं ज्योतीरूपिणम् ।
कर्णिकायां समासीनं ज्योतीरूपं सनातनम् ॥ ६१.२०॥
अष्टाक्षरं ततो मन्त्रं विन्यसेच्च यथाक्रमम् ।
तेन व्यस्तसमस्तेन पूजनं परमं स्मृतम् ॥ ६१.२१॥
द्वादशाक्षरमन्त्रेण यजेद् देवं सनातनम् ।
ततोऽवधार्य हृदये कर्णिकायां बहिर्न्यसेत् ॥ ६१.२२॥
चतुर्भुजं महासत्त्वं सूर्यकोटिसमप्रभम् ।
चिन्तयित्वा महायोगं ज्योतीरूपं सनातनम् ।
ततश्चावाहयेन् मन्त्रं क्रमेणाचिन्त्य मानसे ॥ ६१.२३॥
आवाहनमन्त्रः ।
मीनरूपो वराहश्च नरसिंहोऽथ वामनः ।
आयातु देवो वरदो मम नारायणोऽग्रतः ।
ओं नमो नारायणाय नमः ॥ ६१.२४॥
स्थापनमन्त्रः ।
कर्णिकायां सुपीठेऽत्र पद्मकल्पितमासनम् ।
सर्वसत्त्वहितार्थाय तिष्ठ त्वं मधुसूदन ।
ओं नमो नारायणाय नमः ॥ ६१.२५॥
अर्घमन्त्रः ।
ओं त्रैलोक्यपतीनां पतये देवदेवाय ओं नमो नारायणाय नमः ॥ ६१.२६॥
पाद्यमन्त्रः ।
ओं पाद्यं पादयोर्देव पद्मनाभ सनातन ।
विष्णो कमलपत्त्राक्ष गृहाण मधुसूदन ।
ओं नमो नारायणाय नमः ॥ ६१.२७॥
मधुपर्कमन्त्रः ।
मधुपर्कं महादेव ब्रह्माद्यैः कल्पितं तव ।
मया निवेदितं भक्त्या गृहाण पुरुषोत्तम ।
ओं नमो नारायणाय नमः ॥ ६१.२८॥
आचमनीयमन्त्रः ।
मन्दाकिन्याः सितं वारि सर्वपापहरं शिवम् ।
गृहाणाचमनीयं त्वं मया भक्त्या निवेदितम् ।
ओं नमो नारायणाय नमः ॥ ६१.२९॥
स्नानमन्त्रः ।
त्वमापः पृथिवी चैव ज्योतिस्त्वं वायुरेव च ।
लोकेश वृत्तिमात्रेण वारिणा स्नापयाम्यहम् ।
ओं नमो नारायणाय नमः ॥ ६१.३०॥