अध्याय 60, Verse 1
ब्रह्मोवाच ।
श्वेतमाधवमालोक्य समीपे मत्स्यमाधवम् ।
एकार्णवजले पूर्वं रोहितं रूपमास्थितम् ॥ ६०.१॥
Containing 65 sacred Sanskrit shlokas with multi-author commentaries and translations.
ब्रह्मोवाच ।
श्वेतमाधवमालोक्य समीपे मत्स्यमाधवम् ।
एकार्णवजले पूर्वं रोहितं रूपमास्थितम् ॥ ६०.१॥
वेदानां हरणार्थाय रसातलतले स्थितम् ।
चिन्तयित्वा क्षितिं सम्यक् तस्मिन् स्थाने प्रतिष्ठितम् ॥ ६०.२॥
आद्यावतरणं रूपं माधवं मत्स्यरूपिणम् ।
प्रणम्य प्रणतो भूत्वा सर्वदुःखाद् विमुच्यते ॥ ६०.३॥
प्रयाति परमं स्थानं यत्र देवो हरिः स्वयम् ।
काले पुनरिहायातो राजा स्यात् पृथिवीतले ॥ ६०.४॥
वत्समाधवमासाद्य दुराधर्षो भवेन् नरः ।
दाता भोक्ता भवेद् यज्वा वैष्णवः सत्यसंगरः ॥ ६०.५॥
योगं प्राप्य हरेः पश्चात् ततो मोक्षमवाप्नुयात् ।
मत्स्यमाधवमाहात्म्यं मया सम्परिकीर्तितम् ।
यं दृष्ट्वा मुनिशार्दूलाः सर्वान् कामान् अवाप्नुयात् ॥ ६०.६॥
मुनय ऊचुः ।
भगवञ् श्रोतुमिच्छामो मार्जनं वरुणालये ।
क्रियते स्नानदानादि तस्याशेषफलं वद ॥ ६०.७॥
ब्रह्मोवाच ।
शृणुध्वं मुनिशार्दूला मार्जनस्य यथाविधि ।
भक्त्या तु तन्मना भूत्वा सम्प्राप्य पुण्यमुत्तमम् ॥ ६०.८॥
मार्कण्डेयह्रदे स्नानं पूर्वकाले प्रशस्यते ।
चतुर्दश्यां विशेषेण सर्वपापप्रणाशनम् ॥ ६०.९॥
तद्वत् स्नानं समुद्रस्य सर्वकालं प्रशस्यते ।
पौर्णमास्यां विशेषेण हयमेधफलं लभेत् ॥ ६०.१०॥
मार्कण्डेयं वटं कृष्णं रौहिणेयं महोदधिम् ।
इन्द्रद्युम्नसरश्चैव पञ्चतीर्थीविधिः स्मृतः ॥ ६०.११॥
पूर्णिमा ज्येष्ठमासस्य ज्येष्ठा ऋक्षं यदा भवेत् ।
तदा गच्छेद् विशेषेण तीर्थराजं परं शुभम् ॥ ६०.१२॥
कायवाङ्मानसैः शुद्धस्तद्भावो नान्यमानसः ।
सर्वद्वंद्वविनिर्मुक्तो वीतरागो विमत्सरः ॥ ६०.१३॥
कल्पवृक्षवटं रम्यं तत्र स्नात्वा जनार्दनम् ।
प्रदक्षिणं प्रकुर्वीत त्रिवारं सुसमाहितः ॥ ६०.१४॥
यं दृष्ट्वा मुच्यते पापात् सप्तजन्मसमुद्भवात् ।
पुण्यं चाप्नोति विपुलं गतिमिष्टां च भो द्विजाः ॥ ६०.१५॥
तस्य नामानि वक्ष्यामि प्रमाणं च युगे युगे ।
यथासंख्यं च भो विप्राः कृतादिषु यथाक्रमम् ॥ ६०.१६॥
वटं वटेश्वरं कृष्णं पुराणपुरुषं द्विजाः ।
वटस्यैतानि नामानि कीर्तितानि कृतादिषु ॥ ६०.१७॥
योजनं पादहीनं च योजनार्धं तदर्धकम् ।
प्रमाणं कल्पवृक्षस्य कृतादौ परिकीर्तितम् ॥ ६०.१८॥
यथोक्तेन तु मन्त्रेण नमस्कृत्वा तु तं वटम् ।
दक्षिणाभिमुखो गच्छेद् धन्वन्तरशतत्रयम् ॥ ६०.१९॥
यत्रासौ दृश्यते विष्णुः स्वर्गद्वारं मनोरमम् ।
सागराम्भःसमाकृष्टं काष्ठं सर्वगुणान्वितम् ॥ ६०.२०॥
प्रणिपत्य ततस्तं भोः परिपूज्य ततः पुनः ।
मुच्यते सर्वरोगाद्यैस्तथा पापैर्ग्रहादिभिः ॥ ६०.२१॥
उग्रसेनं पुरा दृष्ट्वा स्वर्गद्वारेण सागरम् ।
गत्वाचम्य शुचिस्तत्र ध्यात्वा नारायणं परम् ॥ ६०.२२॥
न्यसेद् अष्टाक्षरं मन्त्रं पश्चाद् धस्तशरीरयोः ।
ओं नमो नारायणायेति यं वदन्ति मनीषिणः ॥ ६०.२३॥
किं कार्यं बहुभिर्मन्त्रैर्मनोविभ्रमकारकैः ।
ओं नमो नारायणायेति मन्त्रः सर्वार्थसाधकः ॥ ६०.२४॥
आपो नरस्य सूनुत्वान् नारा इतीह कीर्तिताः ।
विष्णोस्तास्त्वयनं पूर्वं तेन नारायणः स्मृतः ॥ ६०.२५॥
नारायणपरा वेदा नारायणपरा द्विजाः ।
नारायणपरा यज्ञा नारायणपराः क्रियाः ॥ ६०.२६॥
नारायणपरा पृथ्वी नारायणपरं जलम् ।
नारायणपरो वह्निर्नारायणपरं नभः ॥ ६०.२७॥
नारायणपरो वायुर्नारायणपरं मनः ।
अहंकारश्च बुद्धिश्च उभे नारायणात्मके ॥ ६०.२८॥
भूतं भव्यं भविष्यं च यत् किंचिज्जीवसंज्ञितम् ।
स्थूलं सूक्ष्मं परं चैव सर्वं नारायणात्मकम् ॥ ६०.२९॥
शब्दाद्या विषयाः सर्वे श्रोत्रादीनीन्द्रियाणि च ।
प्रकृतिः पुरुषश्चैव सर्वे नारायणात्मकाः ॥ ६०.३०॥