अध्याय 6, Verse 1
लोमहर्षण उवाच ।
विवस्वान् कश्यपाज्जज्ञे दाक्षायण्यां द्विजोत्तमाः ।
तस्य भार्याभवत् संज्ञा त्वाष्ट्री देवी विवस्वतः ॥ ६.१॥
Containing 54 sacred Sanskrit shlokas with multi-author commentaries and translations.
लोमहर्षण उवाच ।
विवस्वान् कश्यपाज्जज्ञे दाक्षायण्यां द्विजोत्तमाः ।
तस्य भार्याभवत् संज्ञा त्वाष्ट्री देवी विवस्वतः ॥ ६.१॥
सुरेश्वरीति विख्याता त्रिषु लोकेषु भाविनी ।
सा वै भार्या भगवतो मार्तण्डस्य महात्मनः ॥ ६.२॥
भर्तृरूपेण नातुष्यद् रूपयौवनशालिनी ।
संज्ञा नाम सुतपसा सुदीप्तेन समन्विता ॥ ६.३॥
आदित्यस्य हि तद् रूपं मण्डलस्य सुतेजसा ।
गात्रेषु परिदग्धं वै नातिकान्तमिवाभवत् ॥ ६.४॥
न खल्वयं मृतोऽण्डस्य इति स्नेहाद् अभाषत ।
अजानन् काश्यपस्तस्मान् मार्तण्ड इति चोच्यते ॥ ६.५॥
तेजस्त्वभ्यधिकं तस्य नित्यमेव विवस्वतः ।
येनातितापयामास त्रींल्लोकान् कश्यपात्मजः ॥ ६.६॥
त्रीण्यपत्यानि भो विप्राः संज्ञायां तपतां वरः ।
आदित्यो जनयामास कन्यां द्वौ च प्रजापती ॥ ६.७॥
मनुर्वैवस्वतः पूर्वं श्राद्धदेवः प्रजापतिः ।
यमश्च यमुना चैव यमजौ सम्बभूवतुः ॥ ६.८॥
श्यामवर्णं तु तद् रूपं संज्ञा दृष्ट्वा विवस्वतः ।
असहन्ती तु स्वां छायां सवर्णां निर्ममे ततः ॥ ६.९॥
मायामयी तु सा संज्ञा तस्यां छायासमुत्थिताम् ।
प्राञ्जलिः प्रणता भूत्वा छाया संज्ञां द्विजोत्तमाः ॥ ६.१०॥
उवाच किं मया कार्यं कथयस्व शुचिस्मिते ।
स्थितास्मि तव निर्देशे शाधि मां वरवर्णिनि ॥ ६.११॥
संज्ञोवाच ।
अहं यास्यामि भद्रं ते स्वमेव भवनं पितुः ।
त्वयैव भवने मह्यं वस्तव्यं निर्विशङ्कया ॥ ६.१२॥
इमौ च बालकौ मह्यं कन्या चेयं सुमध्यमा ।
सम्भाव्यास्ते न चाख्येयमिदं भगवते क्वचित् ॥ ६.१३॥
सवर्णोवाच ।
आ कचग्रहणाद् देवि आ शापान् नैव कर्हिचित् ।
आख्यास्यामि नमस्तुभ्यं गच्छ देवि यथासुखम् ॥ ६.१४॥
लोमहर्षण उवाच ।
समादिश्य सवर्णां तु तथेत्युक्ता तया च सा ।
त्वष्टुः समीपमगमद् व्रीडितेव तपस्विनी ॥ ६.१५॥
पितुः समीपगा सा तु पित्रा निर्भर्त्सिता शुभा ।
भर्तुः समीपं गच्छेति नियुक्ता च पुनः पुनः ॥ ६.१६॥
आगच्छद् वडवा भूत्वा *आच्छाद्य रूपमनिन्दिता ।
कुरून् अथोत्तरान् गत्वा तृणान्यथ चचार ह ॥ ६.१७॥
द्वितीयायां तु संज्ञायां संज्ञेयमिति चिन्तयन् ।
आदित्यो जनयामास पुत्रमात्मसमं तदा ॥ ६.१८॥
पूर्वजस्य मनोर्विप्राः सदृशोऽयमिति प्रभुः ।
मनुरेवाभवन् नाम्ना सावर्ण इति चोच्यते ॥ ६.१९॥
द्वितीयो यः सुतस्तस्याः स विज्ञेयः शनैश्चरः ।
संज्ञा तु पार्थिवी विप्राः स्वस्य पुत्रस्य वै तदा ॥ ६.२०॥
चकाराभ्यधिकं स्नेहं न तथा पूर्वजेषु वै ।
मनुस्तस्याः क्षमत् तत् तु यमस्तस्या न चक्षमे ॥ ६.२१॥
स वै रोषाच्च बाल्याच्च भाविनोऽर्थस्य वानघ ।
पदा संतर्जयामास संज्ञां वैवस्वतो यमः ॥ ६.२२॥
तं शशाप ततः क्रोधात् सावर्णजननी तदा ।
चरणः पततामेष तवेति भृशदुःखिता ॥ ६.२३॥
यमस्तु तत् पितुः सर्वं प्राञ्जलिः प्रत्यवेदयत् ।
भृशं शापभयोद्विग्नः संज्ञावाक्यैर्विशङ्कितः ॥ ६.२४॥
शापोऽयं विनिवर्तेत प्रोवाच पितरं द्विजाः ।
मात्रा स्नेहेन सर्वेषु वर्तितव्यं सुतेषु वै ॥ ६.२५॥
सेयमस्मान् अपास्येह विवस्वन् सम्बुभूषति ।
तस्यां मयोद्यतः पादो न तु देहे निपातितः ॥ ६.२६॥
बाल्याद् वा यदि वा लौल्यान् मोहात् तत् क्षन्तुमर्हसि ।
शप्तोऽहमस्मि लोकेश जनन्या तपतां वर ।
तव प्रसादाच्चरणो न पतेन् मम गोपते ॥ ६.२७॥
विवस्वान् उवाच ।
असंशयं पुत्र महद् भविष्यत्यत्र कारणम् ।
येन त्वामाविशत् क्रोधो धर्मज्ञं सत्यवादिनम् ॥ ६.२८॥
न शक्यमेतन् मिथ्या तु कर्तुं मातृवचस्तव ।
कृमयो मांसमादाय यास्यन्त्यवनिमेव च ॥ ६.२९॥
कृतमेवं वचस्तथ्यं मातुस्तव भविष्यति ।
शापस्य परिहारेण त्वं च त्रातो भविष्यसि ॥ ६.३०॥