अध्याय 59, Verse 1
ब्रह्मोवाच ।
अनन्ताख्यं वासुदेवं दृष्ट्वा भक्त्या प्रणम्य च ।
सर्वपापविनिर्मुक्तो नरो याति परं पदम् ॥ ५९.१॥
Containing 91 sacred Sanskrit shlokas with multi-author commentaries and translations.
ब्रह्मोवाच ।
अनन्ताख्यं वासुदेवं दृष्ट्वा भक्त्या प्रणम्य च ।
सर्वपापविनिर्मुक्तो नरो याति परं पदम् ॥ ५९.१॥
मया चाराधितश्चासौ शक्रेण तदनन्तरम् ।
विभीषणेन रामेण कस्तं नाराधयेत् पुमान् ॥ ५९.२॥
श्वेतगङ्गां नरः स्नात्वा यः पश्येच्छ्वेतमाधवम् ।
मत्स्याख्यं माधवं चैव श्वेतद्वीपं स गच्छति ॥ ५९.३॥
मुनय ऊचुः ।
श्वेतमाधवमाहात्म्यं वक्तुमर्हस्यशेषतः ।
विस्तरेण जगन्नाथ प्रतिमां तस्य वै हरेः ॥ ५९.४॥
तस्मिन् क्षेत्रवरे पुण्ये विख्याते जगतीतले ।
श्वेताख्यं माधवं देवं कस्तं स्थापितवान् पुरा ॥ ५९.५॥
ब्रह्मोवाच ।
अभूत् कृतयुगे विप्राः श्वेतो नाम नृपो बली ।
मतिमान् धर्मविच्छूरः सत्यसंधो दृढव्रतः ॥ ५९.६॥
यस्य राज्ये तु वर्षाणां सहस्रं दश मानवाः ।
भवन्त्यायुष्मन्तो लोका बालस्तस्मिन् न सीदति ॥ ५९.७॥
वर्तमाने तदा राज्ये किंचित् काले गते द्विजाः ।
कपालगौतमो नाम ऋषिः परमधार्मिकः ॥ ५९.८॥
सुतोऽस्याजातदन्तश्च मृतः कालवशाद् द्विजाः ।
तमादाय ऋषिर्धीमान् नृपस्यान्तिकमानयत् ॥ ५९.९॥
दृष्ट्वैवं नृपतिः सुप्तं कुमारं गतचेतसम् ।
प्रतिज्ञामकरोद् विप्रा जीवनार्थं शिशोस्तदा ॥ ५९.१०॥
राजोवाच ।
यावद् बालमहं त्वेनं यमस्य सदने गतम् ।
नानये सप्तरात्रेण चितां दीप्तां समारुहे ॥ ५९.११॥
ब्रह्मोवाच ।
एवमुक्त्वासितैः पद्मैः शतैर्दशशतादिकैः ।
सम्पूज्य च महादेवं राजा विद्यां पुनर्जपेत् ॥ ५९.१२॥
अतिभक्तिं तु संचिन्त्य नृपस्य जगदीश्वरः ।
सांनिध्यमगमत् तुष्टोऽस्मीत्युवाच सहोमया ॥ ५९.१३॥
श्रुत्वैवं गिरमीशस्य विलोक्य सहसा हरम् ।
भस्मदिग्धं विरूपाक्षं शरत्कुन्देन्दुवर्चसम् ॥ ५९.१४॥
शार्दूलचर्मवसनं शशाङ्काङ्कितमूर्धजम् ।
महीं निपत्य सहसा प्रणम्य स तदाब्रवीत् ॥ ५९.१५॥
श्वेत उवाच ।
कारुण्यं यदि मे दृष्ट्वा प्रसन्नोऽसि प्रभो यदि ।
कालस्य वशमापन्नो बालको द्विजपुत्रकः ॥ ५९.१६॥
जीवत्वेष पुनर्बाल इत्येवं व्रतमाहितम् ।
अकस्माच्च मृतं बालं नियम्य भगवन् स्वयम् ।
यथोक्तायुष्यसंयुक्तं क्षेमं कुरु महेश्वर ॥ ५९.१७॥
ब्रह्मोवाच ।
श्वेतस्यैतद् वचः श्रुत्वा मुदं प्राप हरस्तदा ।
कालमाज्ञापयामास सर्वभूतभयंकरम् ॥ ५९.१८॥
नियम्य कालं दुर्धर्षं यमस्याज्ञाकरं द्विजाः ।
बालं संजीवयामास मृत्योर्मुखगतं पुनः ॥ ५९.१९॥
कृत्वा क्षेमं जगत् सर्वं मुनेः पुत्रं स तं द्विजाः ।
देव्या सहोमया देवस्तत्रैवान्तरधीयत ॥ ५९.२०॥
एवं संजीवयामास मुनेः पुत्रं नृपोत्तमः ॥ ५९.२१॥
मुनय ऊचुः ।
देवदेव जगन्नाथ त्रैलोक्यप्रभवाव्यय ।
ब्रूहि नः परमं तथ्यं श्वेताख्यस्य च साम्प्रतम् ॥ ५९.२२॥
ब्रह्मोवाच ।
शृणुध्वं मुनिशार्दूलाः सर्वसत्त्वहितावहम् ।
प्रवक्ष्यामि यथातथ्यं यत् पृच्छथ ममानघाः ॥ ५९.२३॥
माधवस्य च माहात्म्यं सर्वपापप्रणाशनम् ।
यच्छ्रुत्वाभिमतान् कामान् ध्रुवं प्राप्नोति मानवः ॥ ५९.२४॥
श्रुतवान् ऋषिभिः पूर्वं माधवाख्यस्य भो द्विजाः ।
शृणुध्वं तां कथां दिव्यां भयशोकार्तिनाशिनीम् ॥ ५९.२५॥
स कृत्वा राज्यमेकाग्र्यं वर्षाणां च सहस्रशः ।
विचार्य लौकिकान् धर्मान् वैदिकान् नियमांस्तथा ॥ ५९.२६॥
केशवाराधने विप्रा निश्चितं व्रतमास्थितः ।
स गत्वा परमं क्षेत्रं सागरं दक्षिणाश्रयम् ॥ ५९.२७॥
तटे तस्मिञ् शुभे रम्ये देशे कृष्णस्य चान्तिके ।
श्वेतोऽथ कारयामास प्रासादं शुभलक्षणम् ॥ ५९.२८॥
धन्वन्तरशतं चैकं देवदेवस्य दक्षिणे ।
ततः श्वेतेन विप्रेन्द्राः श्वेतशैलमयेन च ॥ ५९.२९॥
कृतः स भगवाञ् श्वेतो माधवश्चन्द्रसंनिभः ।
प्रतिष्ठां विधिवच्चक्रे यथोद्दिष्टां स्वयं तु सः ॥ ५९.३०॥