अध्याय 58, Verse 1
ब्रह्मोवाच ।
एवं दृष्ट्वा बलं कृष्णं सुभद्रां प्रणिपत्य च ।
धर्मं चार्थं च कामं च मोक्षं च लभते ध्रुवम् ॥ ५८.१॥
Containing 77 sacred Sanskrit shlokas with multi-author commentaries and translations.
ब्रह्मोवाच ।
एवं दृष्ट्वा बलं कृष्णं सुभद्रां प्रणिपत्य च ।
धर्मं चार्थं च कामं च मोक्षं च लभते ध्रुवम् ॥ ५८.१॥
निष्क्रम्य देवतागारात् कृतकृत्यो भवेन् नरः ।
प्रणम्यायतनं पश्चाद् व्रजेत् तत्र समाहितः ॥ ५८.२॥
इन्द्रनीलमयो विष्णुर्यत्रास्ते वालुकावृतः ।
अन्तर्धानगतं नत्वा ततो विष्णुपुरं व्रजेत् ॥ ५८.३॥
सर्वदेवमयो योऽसौ हतवान् असुरोत्तमम् ।
स आस्ते तत्र भो विप्राः सिंहार्धकृतविग्रहः ॥ ५८.४॥
भक्त्या दृष्ट्वा तु तं देवं प्रणम्य नरकेसरीम् ।
मुच्यते पातकैर्मर्त्यः समस्तैर्नात्र संशयः ॥ ५८.५॥
नरसिंहस्य ये भक्ता भवन्ति भुवि मानवाः ।
न तेषां दुष्कृतं किंचित् फलं स्याद् यद् यद् ईप्सितम् ॥ ५८.६॥
तस्मात् सर्वप्रयत्नेन नरसिंहं समाश्रयेत् ।
धर्मार्थकाममोक्षाणां फलं यस्मात् प्रयच्छति ॥ ५८.७॥
मुनय ऊचुः ।
माहात्म्यं नरसिंहस्य सुखदं भुवि दुर्लभम् ।
यथा कथयसे देव तेन नो विस्मयो महान् ॥ ५८.८॥
प्रभावं तस्य देवस्य विस्तरेण जगत्पते ।
श्रोतुमिच्छामहे ब्रूहि परं कौतूहलं हि नः ॥ ५८.९॥
यथा प्रसीदेद् देवोऽसौ नरसिंहो महाबलः ।
भक्तानामुपकाराय ब्रूहि देव नमोऽस्तु ते ॥ ५८.१०॥
प्रसादान् नरसिंहस्य या भवन्त्यत्र सिद्धयः ।
ब्रूहि ताः कुरु चास्माकं प्रसादं प्रपितामह ॥ ५८.११॥
ब्रह्मोवाच ।
शृणुध्वं तस्य भो विप्राः प्रभावं गदतो मम ।
अजितस्याप्रमेयस्य भुक्तिमुक्तिप्रदस्य च ॥ ५८.१२॥
कः शक्नोति गुणान् वक्तुं समस्तांस्तस्य भो द्विजाः ।
सिंहार्धकृतदेहस्य प्रवक्ष्यामि समासतः ॥ ५८.१३॥
याः काश्चित् सिद्धयश्चात्र श्रूयन्ते दैवमानुषाः ।
प्रसादात् तस्य ताः सर्वाः सिध्यन्ति नात्र संशयः ॥ ५८.१४॥
स्वर्गे मर्त्ये च पाताले दिक्षु तोये पुरे नगे ।
प्रसादात् तस्य देवस्य भवत्यव्याहता गतिः ॥ ५८.१५॥
असाध्यं तस्य देवस्य नास्त्यत्र सचराचरे ।
नरसिंहस्य भो विप्राः सदा भक्तानुकम्पिनः ॥ ५८.१६॥
विधानं तस्य वक्ष्यामि भक्तानामुपकारकम् ।
येन प्रसीदेच्चैवासौ सिंहार्धकृतविग्रहः ॥ ५८.१७॥
शृणुध्वं मुनिशार्दूलाः कल्पराजं सनातनम् ।
नरसिंहस्य तत्त्वं च यन् न ज्ञातं सुरासुरैः ॥ ५८.१८॥
शाकयावकमूलैस्तु फलपिण्याकसक्तुकैः ।
पयोभक्षेण विप्रेन्द्रा वर्तयेत् साधकोत्तमः ॥ ५८.१९॥
कोशकौपीनवासाश्च ध्यानयुक्तो जितेन्द्रियः ।
अरण्ये विजने देशे पर्वते सिन्धुसंगमे ॥ ५८.२०॥
ऊषरे सिद्धक्षेत्रे च नरसिंहाश्रमे तथा ।
प्रतिष्ठाप्य स्वयं वापि पूजां कृत्वा विधानतः ॥ ५८.२१॥
द्वादश्यां शुक्लपक्षस्य उपोष्य मुनिपुंगवाः ।
जपेल्लक्षाणि वै विंशन् मनसा संयतेन्द्रियः ॥ ५८.२२॥
उपपातकयुक्तश्च महापातकसंयुतः ।
मुक्तो भवेत् ततो विप्राः साधको नात्र संशयः ॥ ५८.२३॥
कृत्वा प्रदक्षिणं तत्र नरसिंहं प्रपूजयेत् ।
पुण्यगन्धादिभिर्धूपैः प्रणम्य शिरसा प्रभुम् ॥ ५८.२४॥
कर्पूरचन्दनाक्तानि जातीपुष्पाणि मस्तके ।
प्रदद्यान् नरसिंहस्य ततः सिद्धिः प्रजायते ॥ ५८.२५॥
भगवान् सर्वकार्येषु न क्वचित् प्रतिहन्यते ।
तेजः सोढुं न शक्ताः स्युर्ब्रह्मरुद्रादयः सुराः ॥ ५८.२६॥
किं पुनर्दानवा लोके सिद्धगन्धर्वमानुषाः ।
विद्याधरा यक्षगणाः सकिंनरमहोरगाः ॥ ५८.२७॥
मन्त्रं यान् आसुरान् हन्तुं जपन्त्येकेऽन्यसाधकाः ।
ते सर्वे प्रलयं यान्ति दृष्ट्वादित्याग्निवर्चसः ॥ ५८.२८॥
सकृज्जप्तं तु कवचं रक्षेत् सर्वमुपद्रवम् ।
द्विर्जप्तं कवचं दिव्यं रक्षते देवदानवात् ॥ ५८.२९॥
गन्धर्वाः किंनरा यक्षा विद्याधरमहोरगाः ।
भूताः पिशाचा रक्षांसि ये चान्ये परिपन्थिनः ॥ ५८.३०॥