अध्याय 57, Verse 1
ब्रह्मोवाच ।
अतः परं प्रवक्ष्यामि पञ्चतीर्थविधिं द्विजाः ।
यत् फलं स्नानदानेन देवताप्रेक्षणेन च ॥ ५७.१॥
Containing 61 sacred Sanskrit shlokas with multi-author commentaries and translations.
ब्रह्मोवाच ।
अतः परं प्रवक्ष्यामि पञ्चतीर्थविधिं द्विजाः ।
यत् फलं स्नानदानेन देवताप्रेक्षणेन च ॥ ५७.१॥
मार्कण्डेयह्रदं गत्वा नरश्चोदङ्मुखः शुचिः ।
निमज्जेत् तत्र वारांस्त्रीन् इमं मन्त्रमुदीरयेत् ॥ ५७.२॥
संसारसागरे मग्नं पापग्रस्तमचेतनम् ।
त्राहि मां भगनेत्रघ्न त्रिपुरारे नमोऽस्तु ते ॥ ५७.३॥
नमः शिवाय शान्ताय सर्वपापहराय च ।
स्नानं करोमि देवेश मम नश्यतु पातकम् ॥ ५७.४॥
नाभिमात्रे जले स्नात्वा विधिवद् देवता ऋषीन् ।
तिलोदकेन मतिमान् पितृंश्चान्यांश्च तर्पयेत् ॥ ५७.५॥
स्नात्वा तथैव चाचम्य ततो गच्छेच्छिवालयम् ।
प्रविश्य देवतागारं कृत्वा तं त्रिः प्रदक्षिणम् ॥ ५७.६॥
मूलमन्त्रेण सम्पूज्य मार्कण्डेयस्य चेश्वरम् ।
अघोरेण च भो विप्राः प्रणिपत्य प्रसादयेत् ॥ ५७.७॥
त्रिलोचन नमस्तेऽस्तु नमस्ते शशिभूषण ।
त्राहि मां त्वं विरूपाक्ष महादेव नमोऽस्तु ते ॥ ५७.८॥
मार्कण्डेयह्रदे त्वेवं स्नात्वा दृष्ट्वा च शंकरम् ।
दशानामश्वमेधानां फलं प्राप्नोति मानवः ॥ ५७.९॥
पापैः सर्वैर्विनिर्मुक्तः शिवलोकं स गच्छति ।
तत्र भुक्त्वा वरान् भोगान् यावद् आभूतसम्प्लवम् ॥ ५७.१०॥
इहलोकं समासाद्य भवेद् विप्रो बहुश्रुतः ।
शांकरं योगमासाद्य ततो मोक्षमवाप्नुयात् ॥ ५७.११॥
कल्पवृक्षं ततो गत्वा कृत्वा तं त्रिः प्रदक्षिणम् ।
पूजयेत् परया भक्त्या मन्त्रेणानेन तं वटम् ॥ ५७.१२॥
ओं नमो व्यक्तरूपाय महाप्रलयकारिणे ।
महद्रसोपविष्टाय न्यग्रोधाय नमोऽस्तु ते ॥ ५७.१३॥
अमरस्त्वं सदा कल्पे हरेश्चायतनं वट ।
न्यग्रोध हर मे पापं कल्पवृक्ष नमोऽस्तु ते ॥ ५७.१४॥
भक्त्या प्रदक्षिणं कृत्वा नत्वा कल्पवटं नरः ।
सहसा मुच्यते पापाज्जीर्णत्वच इवोरगः ॥ ५७.१५॥
छायां तस्य समाक्रम्य कल्पवृक्षस्य भो द्विजाः ।
ब्रह्महत्यां नरो जह्यात् पापेष्वन्येषु का कथा ॥ ५७.१६॥
दृष्ट्वा कृष्णाङ्गसम्भूतं ब्रह्मतेजोमयं परम् ।
न्यग्रोधाकृतिकं विष्णुं प्रणिपत्य च भो द्विजाः ॥ ५७.१७॥
राजसूयाश्वमेधाभ्यां फलं प्राप्नोति चाधिकम् ।
तथा स्ववंशमुद्धृत्य विष्णुलोकं स गच्छति ॥ ५७.१८॥
वैनतेयं नमस्कृत्य कृष्णस्य पुरतः स्थितम् ।
सर्वपापविनिर्मुक्तस्ततो विष्णुपुरं व्रजेत् ॥ ५७.१९॥
दृष्ट्वा वटं वैनतेयं यः पश्येत् पुरुषोत्तमम् ।
संकर्षणं सुभद्रां च स याति परमां गतिम् ॥ ५७.२०॥
प्रविश्यायतनं विष्णोः कृत्वा तं त्रिः प्रदक्षिणम् ।
संकर्षणं स्वमन्त्रेण भक्त्यापूज्य प्रसादयेत् ॥ ५७.२१॥
नमस्ते हलधृग् राम नमस्ते मुशलायुध ।
नमस्ते रेवतीकान्त नमस्ते भक्तवत्सल ॥ ५७.२२॥
नमस्ते बलिनां श्रेष्ठ नमस्ते धरणीधर ।
प्रलम्बारे नमस्तेऽस्तु त्राहि मां कृष्णपूर्वज ॥ ५७.२३॥
एवं प्रसाद्य चानन्तमजेयं त्रिदशार्चितम् ।
कैलासशिखराकारं चन्द्रात् कान्ततराननम् ॥ ५७.२४॥
नीलवस्त्रधरं देवं फणाविकटमस्तकम् ।
महाबलं हलधरं कुण्डलैकविभूषितम् ॥ ५७.२५॥
रौहिणेयं नरो भक्त्या लभेद् अभिमतं फलम् ।
सर्वपापैर्विनिर्मुक्तो विष्णुलोकं स गच्छति ॥ ५७.२६॥
आभूतसम्प्लवं यावद् भुक्त्वा तत्र सुखं नरः ।
पुण्यक्षयाद् इहागत्य प्रवरे योगिनां कुले ॥ ५७.२७॥
ब्राह्मणप्रवरो भूत्वा सर्वशास्त्रार्थपारगः ।
ज्ञानं तत्र समासाद्य मुक्तिं प्राप्नोति दुर्लभाम् ॥ ५७.२८॥
एवमभ्यर्च्य हलिनं ततः कृष्णं विचक्षणः ।
द्वादशाक्षरमन्त्रेण पूजयेत् सुसमाहितः ॥ ५७.२९॥
द्विषट्कवर्णमन्त्रेण भक्त्या ये पुरुषोत्तमम् ।
पूजयन्ति सदा धीरास्ते मोक्षं प्राप्नुवन्ति वै ॥ ५७.३०॥