अध्याय 56, Verse 1
ब्रह्मोवाच ।
इत्थं स्तुतस्तदा तेन मार्कण्डेयेन भो द्विजाः ।
प्रीतः प्रोवाच भगवान् मेघगम्भीरया गिरा ॥ ५६.१॥
Containing 74 sacred Sanskrit shlokas with multi-author commentaries and translations.
ब्रह्मोवाच ।
इत्थं स्तुतस्तदा तेन मार्कण्डेयेन भो द्विजाः ।
प्रीतः प्रोवाच भगवान् मेघगम्भीरया गिरा ॥ ५६.१॥
श्रीभगवान् उवाच ।
ब्रूहि कामं मुनिश्रेष्ठ यत् ते मनसि वर्तते ।
ददामि सर्वं विप्रर्षे मत्तो यद् अभिवाञ्छसि ॥ ५६.२॥
ब्रह्मोवाच ।
श्रुत्वा स वचनं विप्राः शिशोस्तस्य महात्मनः ।
उवाच परमप्रीतो मुनिस्तद्गतमानसः ॥ ५६.३॥
मार्कण्डेय उवाच ।
ज्ञातुमिच्छामि देव त्वां मायां वै तव चोत्तमाम् ।
त्वत्प्रसादाच्च देवेश स्मृतिर्न परिहीयते ॥ ५६.४॥
द्रुतमन्तः शरीरेण सततं पर्यवर्तितम् ।
इच्छामि पुण्डरीकाक्ष ज्ञातुं त्वामहमव्ययम् ॥ ५६.५॥
इह भूत्वा शिशुः साक्षात् किं भवान् अवतिष्ठते ।
पीत्वा जगद् इदं सर्वमेतद् आख्यातुमर्हसि ॥ ५६.६॥
किमर्थं च जगत् सर्वं शरीरस्थं तवानघ ।
कियन्तं च त्वया कालमिह स्थेयमरिंदम ॥ ५६.७॥
ज्ञातुमिच्छामि देवेश ब्रूहि सर्वमशेषतः ।
त्वत्तः कमलपत्त्राक्ष विस्तरेण यथातथम् ।
महद् एतद् अचिन्त्यं च यद् अहं दृष्टवान् प्रभो ॥ ५६.८॥
ब्रह्मोवाच ।
इत्युक्तः स तदा तेन देवदेवो महाद्युतिः ।
सान्त्वयन् स तदा वाक्यमुवाच वदतां वरः ॥ ५६.९॥
श्रीभगवान् उवाच ।
कामं देवाश्च मां विप्र नहि जानन्ति तत्त्वतः ।
तव प्रीत्या प्रवक्ष्यामि यथेदं विसृजाम्यहम् ॥ ५६.१०॥
पितृभक्तोऽसि विप्रर्षे मामेव शरणं गतः ।
ततो दृष्टोऽस्मि ते साक्षाद् ब्रह्मचर्यं च ते महत् ॥ ५६.११॥
आपो नारा इति पुरा संज्ञाकर्म कृतं मया ।
तेन नारायणोऽस्म्युक्तो मम तास्त्वयनं सदा ॥ ५६.१२॥
अहं नारायणो नाम प्रभवः शाश्वतोऽव्ययः ।
विधाता सर्वभूतानां संहर्ता च द्विजोत्तम ॥ ५६.१३॥
अहं विष्णुरहं ब्रह्मा शक्रश्चापि सुराधिपः ।
अहं वैश्रवणो राजा यमः प्रेताधिपस्तथा ॥ ५६.१४॥
अहं शिवश्च सोमश्च कश्यपश्च प्रजापतिः ।
अहं धाता विधाता च यज्ञश्चाहं द्विजोत्तम ॥ ५६.१५॥
अग्निरास्यं क्षितिः पादौ चन्द्रादित्यौ च लोचने ।
द्यौर्मूर्धा खं दिशः श्रोत्रे तथापः स्वेदसम्भवाः ॥ ५६.१६॥
सदिशं च नभः कायो वायुर्मनसि मे स्थितः ।
मया क्रतुशतैरिष्टं बहुभिश्चाप्तदक्षिणैः ॥ ५६.१७॥
यजन्ते वेदविदुषो मां देवयजने स्थितम् ।
पृथिव्यां क्षत्रियेन्द्राश्च पार्थिवाः स्वर्गकाङ्क्षिणः ॥ ५६.१८॥
यजन्ते मां तथा वैश्याः स्वर्गलोकजिगीषवः ।
चतुःसमुद्रपर्यन्तां मेरुमन्दरभूषणाम् ॥ ५६.१९॥
शेषो भूत्वाहमेको हि धारयामि वसुंधराम् ।
वाराहं रूपमास्थाय ममेयं जगती पुरा ॥ ५६.२०॥
मज्जमाना जले विप्र वीर्येणास्मि समुद्धृता ।
अग्निश्च वाडवो विप्र भूत्वाहं द्विजसत्तम ॥ ५६.२१॥
पिबाम्यपः समाविष्टस्ताश्चैव विसृजाम्यहम् ।
ब्रह्म वक्त्रं भुजौ क्षत्रमूरू मे संश्रिता विशः ॥ ५६.२२॥
पादौ शूद्रा भवन्तीमे विक्रमेण क्रमेण च ।
ऋग्वेदः सामवेदश्च यजुर्वेदस्त्वथर्वणः ॥ ५६.२३॥
मत्तः प्रादुर्भवन्त्येते मामेव प्रविशन्ति च ।
यतयः शान्तिपरमा यतात्मानो बुभुत्सवः ॥ ५६.२४॥
कामक्रोधद्वेषमुक्ता निःसङ्गा वीतकल्मषाः ।
सत्त्वस्था निरहंकारा नित्यमध्यात्मकोविदाः ॥ ५६.२५॥
मामेव सततं विप्राश्चिन्तयन्त उपासते ।
अहं संवर्तको ज्योतिरहं संवर्तकोऽनलः ॥ ५६.२६॥
अहं संवर्तकः सूर्यस्त्वहं संवर्तकोऽनिलः ।
तारारूपाणि दृश्यन्ते यान्येतानि नभस्तले ॥ ५६.२७॥
मम वै रोमकूपाणि विद्धि त्वं द्विजसत्तम ।
रत्नाकराः समुद्राश्च सर्व एव चतुर्दिशः ॥ ५६.२८॥
वसनं शयनं चैव निलयं चैव विद्धि मे ।
कामः क्रोधश्च हर्षश्च भयं मोहस्तथैव च ॥ ५६.२९॥
ममैव विद्धि रूपाणि सर्वाण्येतानि सत्तम ।
प्राप्नुवन्ति नरा विप्र यत् कृत्वा कर्म शोभनम् ॥ ५६.३०॥