अध्याय 55, Verse 1
ब्रह्मोवाच ।
स निष्क्रम्योदरात् तस्य बालस्य मुनिसत्तमाः ।
पुनश्चैकार्णवामुर्वीमपश्यज्जनवर्जिताम् ॥ ५५.१॥
Containing 35 sacred Sanskrit shlokas with multi-author commentaries and translations.
ब्रह्मोवाच ।
स निष्क्रम्योदरात् तस्य बालस्य मुनिसत्तमाः ।
पुनश्चैकार्णवामुर्वीमपश्यज्जनवर्जिताम् ॥ ५५.१॥
पूर्वदृष्टं च तं देवं ददर्श शिशुरूपिणम् ।
शाखायां वटवृक्षस्य पर्यङ्कोपरि संस्थितम् ॥ ५५.२॥
श्रीवत्सवक्षसं देवं पीतवस्त्रं चतुर्भुजम् ।
जगद् आदाय तिष्ठन्तं पद्मपत्त्रायतेक्षणम् ॥ ५५.३॥
सोऽपि तं मुनिमायान्तं प्लवमानमचेतनम् ।
दृष्ट्वा मुखाद् विनिष्क्रान्तं प्रोवाच प्रहसन्न् इव ॥ ५५.४॥
श्रीभगवान् उवाच ।
कच्चित् त्वयोषितं वत्स विश्रान्तं च ममोदरे ।
भ्रममाणश्च किं तत्र आश्चर्यं दृष्टवान् असि ॥ ५५.५॥
भक्तोऽसि मे मुनिश्रेष्ठ श्रान्तोऽसि च ममाश्रितः ।
तेन त्वामुपकाराय सम्भाषे पश्य मामिह ॥ ५५.६॥
ब्रह्मोवाच ।
श्रुत्वा स वचनं तस्य सम्प्रहृष्टतनूरुहः ।
ददर्श तं सुदुष्प्रेक्षं रत्नैर्दिव्यैरलंकृतम् ॥ ५५.७॥
प्रसन्ना निर्मला दृष्टिर्मुहूर्तात् तस्य भो द्विजाः ।
प्रसादात् तस्य देवस्य प्रादुर्भूता पुनर्नवा ॥ ५५.८॥
रक्ताङ्गुलितलौ पादौ ततस्तस्य सुरार्चितौ ।
प्रणम्य शिरसा विप्रा हर्षगद्गदया गिरा ॥ ५५.९॥
कृताञ्जलिस्तदा हृष्टो विस्मितश्च पुनः पुनः ।
दृष्ट्वा तं परमात्मानं संस्तोतुमुपचक्रमे ॥ ५५.१०॥
मार्कण्डेय उवाच ।
देवदेव जगन्नाथ मायाबालवपुर्धर ।
त्राहि मां चारुपद्माक्ष दुःखितं शरणागतम् ॥ ५५.११॥
संतप्तोऽस्मि सुरश्रेष्ठ संवर्ताख्येन वह्निना ।
अङ्गारवर्षभीतं च त्राहि मां पुरुषोत्तम ॥ ५५.१२॥
शोषितश्च प्रचण्डेन वायुना जगदायुना ।
विह्वलोऽहं तथा श्रान्तस्त्राहि मां पुरुषोत्तम ॥ ५५.१३॥
तापितश्च तशामात्यैः प्रलयावर्तकादिभिः ।
न शान्तिमधिगच्छामि त्राहि मां पुरुषोत्तम ॥ ५५.१४॥
तृषितश्च क्षुधाविष्टो दुःखितश्च जगत्पते ।
त्रातारं नात्र पश्यामि त्राहि मां पुरुषोत्तम ॥ ५५.१५॥
अस्मिन्न् एकार्णवे घोरे विनष्टे सचराचरे ।
न चान्तमधिगच्छामि त्राहि मां पुरुषोत्तम ॥ ५५.१६॥
तवोदरे च देवेश मया दृष्टं चराचरम् ।
विस्मितोऽहं विषण्णश्च त्राहि मां पुरुषोत्तम ॥ ५५.१७॥
संसारेऽस्मिन् निरालम्बे प्रसीद पुरुषोत्तम ।
प्रसीद विबुधश्रेष्ठ प्रसीद विबुधप्रिय ॥ ५५.१८॥
प्रसीद विबुधां नाथ प्रसीद विबुधालय ।
प्रसीद सर्वलोकेश जगत्कारणकारण ॥ ५५.१९॥
प्रसीद सर्वकृद् देव प्रसीद मम भूधर ।
प्रसीद सलिलावास प्रसीद मधुसूदन ॥ ५५.२०॥
प्रसीद कमलाकान्त प्रसीद त्रिदशेश्वर ।
प्रसीद कंसकेशीघ्न प्रसीदारिष्टनाशन ॥ ५५.२१॥
प्रसीद कृष्ण दैत्यघ्न प्रसीद दनुजान्तक ।
प्रसीद मथुरावास प्रसीद यदुनन्दन ॥ ५५.२२॥
प्रसीद शक्रावरज प्रसीद वरदाव्यय ।
त्वं मही त्वं जलं देव त्वमग्निस्त्वं समीरणः ॥ ५५.२३॥
त्वं नभस्त्वं मनश्चैव त्वमहंकार एव च ।
त्वं बुद्धिः प्रकृतिश्चैव सत्त्वाद्यास्त्वं जगत्पते ॥ ५५.२४॥
पुरुषस्त्वं जगद्व्यापी पुरुषाद् अपि चोत्तमः ।
त्वमिन्द्रियाणि सर्वाणि शब्दाद्या विषयाः प्रभो ॥ ५५.२५॥
त्वं दिक्पालाश्च धर्माश्च वेदा यज्ञाः सदक्षिणाः ।
त्वमिन्द्रस्त्वं शिवो देवस्त्वं हविस्त्वं हुताशनः ॥ ५५.२६॥
त्वं यमः पितृराट् देव त्वं रक्षोधिपतिः स्वयम् ।
वरुणस्त्वमपां नाथ त्वं वायुस्त्वं धनेश्वरः ॥ ५५.२७॥
त्वमीशानस्त्वमनन्तस्त्वं गणेशश्च षण्मुखः ।
वसवस्त्वं तथा रुद्रास्त्वमादित्याश्च खेचराः ॥ ५५.२८॥
दानवास्त्वं तथा यक्षास्त्वं दैत्याः समरुद्गणाः ।
सिद्धाश्चाप्सरसो नागा गन्धर्वास्त्वं सचारणाः ॥ ५५.२९॥
पितरो वालखिल्याश्च प्रजानां पतयोऽच्युत ।
मुनयस्त्वम् ऋषिगणास्त्वमश्विनौ निशाचराः ॥ ५५.३०॥