अध्याय 54, Verse 1
ब्रह्मोवाच ।
स प्रविश्योदरे तस्य बालस्य मुनिसत्तमः ।
ददर्श पृथिवीं कृत्स्नां नानाजनपदैर्वृताम् ॥ ५४.१॥
Containing 25 sacred Sanskrit shlokas with multi-author commentaries and translations.
ब्रह्मोवाच ।
स प्रविश्योदरे तस्य बालस्य मुनिसत्तमः ।
ददर्श पृथिवीं कृत्स्नां नानाजनपदैर्वृताम् ॥ ५४.१॥
लवणेक्षुसुरासर्पिर्+ ।
दधिदुग्धजलोदधीन् ।
ददर्श तान् समुद्रांश्च जम्बु प्लक्षं च शाल्मलम् ॥ ५४.२॥
कुशं क्रौञ्चं च शाकं च पुष्करं च ददर्श सः ।
भारतादीनि वर्षाणि तथा सर्वांश्च पर्वतान् ॥ ५४.३॥
मेरुं च सर्वरत्नाढ्यं अपश्यत् कनकाचलम् ।
नानारत्नान्वितैः शृङ्गैर्भूषितं बहुकन्दरम् ॥ ५४.४॥
नानामुनिजनाकीर्णं नानावृक्षवनाकुलम् ।
नानासत्त्वसमायुक्तं नानाश्चर्यसमन्वितम् ॥ ५४.५॥
व्याघ्रैः सिंहैर्वराहैश्च चामरैर्महिषैर्गजैः ।
मृगैः शाखामृगैश्चान्यैर्भूषितं सुमनोहरम् ॥ ५४.६॥
शक्राद्यैर्विविधैर्देवैः सिद्धचारणपन्नगैः ।
मुनियक्षाप्सरोभिश्च वृतैश्चान्यैः सुरालयैः ॥ ५४.७॥
ब्रह्मोवाच ।
एवं सुमेरुं श्रीमन्तमपश्यन् मुनिसत्तमः ।
पर्यटन् स तदा विप्रस्तस्य बालस्य चोदरे ॥ ५४.८॥
हिमवन्तं हेमकूटं निषधं गन्धमादनम् ।
श्वेतं च दुर्धरं नीलं कैलासं मन्दरं गिरिम् ॥ ५४.९॥
महेन्द्रं मलयं विन्ध्यं पारियात्रं तथार्बुदम् ।
सह्यं च शुक्तिमन्तं च मैनाकं वक्रपर्वतम् ॥ ५४.१०॥
एताश्चान्याश्च बहवो यावन्तः पृथिवीधराः ।
ततस्तांस्तु मुनिश्रेष्ठाः सोऽपश्यद् रत्नभूषितान् ॥ ५४.११॥
कुरुक्षेत्रं च पाञ्चालान् मत्स्यान् मद्रान् सकेकयान् ।
बाह्लीकान् शूरसेनांश्च काश्मीरांस्तङ्गणान् खसान् ॥ ५४.१२॥
पार्वतीयान् किरातांश्च कर्णप्रावरणान् मरून् ।
अन्त्यजान् अन्त्यजातींश्च सोऽपश्यत् तस्य चोदरे ॥ ५४.१३॥
मृगाञ् शाखामृगान् सिंहान् वराहान् सृमराञ् शशान् ।
गजांश्चान्यांस्तथा सत्त्वान् सोऽपश्यत् तस्य चोदरे ॥ ५४.१४॥
पृथिव्यां यानि तीर्थानि ग्रामाश्च नगराणि च ।
कृषिगोरक्षवाणिज्यं क्रयविक्रयणं तथा ॥ ५४.१५॥
शक्रादीन् विबुधाञ् श्रेष्ठांस्तथान्यांश्च दिवौकसः ।
गन्धर्वाप्सरसो यक्षान् ऋषींश्चैव सनातनान् ॥ ५४.१६॥
दैत्यदानवसंघांश्च नागांश्च मुनिसत्तमाः ।
सिंहिकातनयांश्चैव ये चान्ये सुरशत्रवः ॥ ५४.१७॥
यत् किंचित् तेन लोकेऽस्मिन् दृष्टपूर्वं चराचरम् ।
अपश्यत् स तदा सर्वं तस्य कुक्षौ द्विजोत्तमाः ॥ ५४.१८॥
अथवा किं बहूक्तेन कीर्तितेन पुनः पुनः ।
ब्रह्मादिस्तम्बपर्यन्तं यत् किंचित् सचराचरम् ॥ ५४.१९॥
भूर्लोकं च भुवर्लोकं स्वर्लोकं च द्विजोत्तमाः ।
महर्जनस्तपः सत्यमतलं वितलं तथा ॥ ५४.२०॥
पातालं सुतलं चैव वितलं च रसातलम् ।
महातलं च ब्रह्माण्डमपश्यत् तस्य चोदरे ॥ ५४.२१॥
अव्याहता गतिस्तस्य तदाभूद् द्विजसत्तमाः ।
प्रसादात् तस्य देवस्य स्मृतिलोपश्च नाभवत् ॥ ५४.२२॥
भ्रममाणस्तदा कुक्षौ कृत्स्नं जगद् इदं द्विजाः ।
नान्तं जगाम देहस्य तस्य विष्णोः कदाचन ॥ ५४.२३॥
यदासौ नागतश्चान्तं तस्य देहस्य भो द्विजाः ।
तदा तं वरदं देवं शरणं गतवान् मुनिः ॥ ५४.२४॥
ततोऽसौ सहसा विप्रा वायुवेगेन निःसृतः ।
महात्मनो मुखात् तस्य विवृतात् पुरुषस्य सः ॥ ५४.२५॥