अध्याय 53, Verse 1
ब्रह्मोवाच ।
ततो गजकुलप्रख्यास्तडिन्मालाविभूषिताः ।
समुत्तस्थुर्महामेघा नभस्यद्भुतदर्शनाः ॥ ५३.१॥
Containing 43 sacred Sanskrit shlokas with multi-author commentaries and translations.
ब्रह्मोवाच ।
ततो गजकुलप्रख्यास्तडिन्मालाविभूषिताः ।
समुत्तस्थुर्महामेघा नभस्यद्भुतदर्शनाः ॥ ५३.१॥
केचिन् नीलोत्पलश्यामाः केचित् कुमुदसंनिभाः ।
केचित् किञ्जल्कसंकाशाः केचित् पीताः पयोधराः ॥ ५३.२॥
केचिद् धरितसंकाशाः काकाण्डसंनिभास्तथा ।
केचित् कमलपत्त्राभाः केचिद् धिङ्गुलसंनिभाः ॥ ५३.३॥
केचित् पुरवराकाराः केचिद् गिरिवरोपमाः ।
केचिद् अञ्जनसंकाशाः केचिन् मरकतप्रभाः ॥ ५३.४॥
विद्युन्मालापिनद्धाङ्गाः समुत्तस्थुर्महाघनाः ।
घोररूपा महाभागा घोरस्वननिनादिताः ॥ ५३.५॥
ततो जलधराः सर्वे समावृण्वन् नभस्तलम् ।
तैरियं पृथिवी सर्वा सपर्वतवनाकरा ॥ ५३.६॥
आपूरिता दिशः सर्वाः सलिलौघपरिप्लुताः ।
ततस्ते जलदा घोरा वारिणा मुनिसत्तमाः ॥ ५३.७॥
सर्वतः प्लावयामासुश्चोदिताः परमेष्ठिना ।
वर्षमाणा महातोयं पूरयन्तो वसुंधराम् ॥ ५३.८॥
सुघोरमशिवं रौद्रं नाशयन्ति स्म पावकम् ।
ततो द्वादश वर्षाणि पयोदाः समुपप्लवे ॥ ५३.९॥
धाराभिः पूरयन्तो वै चोद्यमाना महात्मना ।
ततः समुद्राः स्वां वेलामतिक्रामन्ति भो द्विजाः ॥ ५३.१०॥
पर्वताश्च व्यशीर्यन्त मही चाप्सु निमज्जति ।
सर्वतः सुमहाभ्रान्तास्ते पयोदा नभस्तलम् ॥ ५३.११॥
संवेष्टयित्वा नश्यन्ति वायुवेगसमाहताः ।
ततस्तं मारुतं घोरं स विष्णुर्मुनिसत्तमाः ॥ ५३.१२॥
आदिपद्मालयो देवः पीत्वा स्वपिति भो द्विजाः ।
तस्मिन्न् एकार्णवे घोरे नष्टे स्थावरजङ्गमे ॥ ५३.१३॥
नष्टे देवासुरनरे यक्षराक्षसवर्जिते ।
ततो मुनिः स विश्रान्तो ध्यात्वा च पुरुषोत्तमम् ॥ ५३.१४॥
ददर्श चक्षुरुन्मील्य जलपूर्णां वसुंधराम् ।
नापश्यत् तं वटं नोर्वीं न दिगादि न भास्करम् ॥ ५३.१५॥
न चन्द्रार्काग्निपवनं न देवासुरपन्नगम् ।
तस्मिन्न् एकार्णवे घोरे तमोभूते निराश्रये ॥ ५३.१६॥
निमज्जन् स तदा विप्राः संतर्तुमुपचक्रमे ।
बभ्रामासौ मुनिश्चार्त इतश्चेतश्च सम्प्लवन् ॥ ५३.१७॥
निममज्ज तदा विप्रास्त्रातारं नाधिगच्छति ।
एवं तं विह्वलं दृष्ट्वा कृपया पुरुषोत्तमः ।
प्रोवाच मुनिशार्दूलास्तदा ध्यानेन तोषितः ॥ ५३.१८॥
श्रीभगवान् उवाच ।
वत्स श्रान्तोऽसि बालस्त्वं भक्तत्र मम सुव्रत ।
आगच्छागच्छ शीघ्रं त्वं मार्कण्डेय ममान्तिकम् ॥ ५३.१९॥
मा त्वयैव च भेतव्यं सम्प्राप्तोऽसि ममाग्रतः ।
मार्कण्डेय मुने धीर बालस्त्वं श्रमपीडितः ॥ ५३.२०॥
ब्रह्मोवाच ।
तस्य तद् वचनं श्रुत्वा मुनिः परमकोपितः ।
उवाच स तदा विप्रा विस्मितश्चाभवन् मुहुः ॥ ५३.२१॥
मार्कण्डेय उवाच ।
कोऽयं नाम्ना कीर्तयति तपः परिभवन्न् इव ।
बहुवर्षसहस्राख्यं धर्षयन्न् इव मे वपुः ॥ ५३.२२॥
न ह्येष समुदाचारो देवेष्वपि समाहितः ।
मां ब्रह्मा स च देवेशो दीर्घायुरिति भाषते ॥ ५३.२३॥
कस्तपो घोरशिरसो ममाद्य त्यक्तजीवितः ।
मार्कण्डेयेति चोक्त्वा मन्+ ंऋत्युं गन्तुमिहेच्छति ॥ ५३.२४॥
ब्रह्मोवाच ।
एवमुक्त्वा तदा विप्राश्चिन्ताविष्टोऽभवन् मुनिः ।
किं स्वप्नोऽयं मया दृष्टः किं वा मोहोऽयमागतः ॥ ५३.२५॥
इत्थं चिन्तयतस्तस्य उत्पन्ना दुःखहा मतिः ।
व्रजामि शरणं देवं भक्त्याहं पुरुषोत्तमम् ॥ ५३.२६॥
स गत्वा शरणं देवं मुनिस्तद्गतमानसः ।
ददर्श तं वटं भूयो विशालं सलिलोपरि ॥ ५३.२७॥
शाखायां तस्य सौवर्णं विस्तीर्णायां महाद्भुतम् ।
रुचिरं दिव्यपर्यङ्कं रचितं विश्वकर्मणा ॥ ५३.२८॥
वज्रवैदूर्यरचितं मणिविद्रुमशोभितम् ।
पद्मरागादिभिर्जुष्टं रत्नैरन्यैरलंकृतम् ॥ ५३.२९॥
नानास्तरणसंवीतं नानारत्नोपशोभितम् ।
नानाश्चर्यसमायुक्तं प्रभामण्डलमण्डितम् ॥ ५३.३०॥