अध्याय 52, Verse 1
ब्रह्मोवाच ।
आसीत् कल्पे मुनिश्रेष्ठाः सम्प्रवृत्ते महाक्षये ।
नष्टेऽर्कचन्द्रे पवने नष्टे स्थावरजङ्गमे ॥ ५२.१॥
Containing 19 sacred Sanskrit shlokas with multi-author commentaries and translations.
ब्रह्मोवाच ।
आसीत् कल्पे मुनिश्रेष्ठाः सम्प्रवृत्ते महाक्षये ।
नष्टेऽर्कचन्द्रे पवने नष्टे स्थावरजङ्गमे ॥ ५२.१॥
उदिते प्रलयादित्ये प्रचण्डे घनगर्जिते ।
विद्युदुत्पातसंघातैः सम्भग्ने तरुपर्वते ॥ ५२.२॥
लोके च संहृते सर्वे महदुल्कानिबर्हणे ।
शुष्केषु सर्वतोयेषु सरःसु च सरित्सु च ॥ ५२.३॥
ततः संवर्तको वह्निर्वायुना सह भो द्विजाः ।
लोकं तु प्राविशत् सर्वमादित्यैरुपशोभितम् ॥ ५२.४॥
पश्चात् स पृथिवीं भित्त्वा प्रविश्य च रसातलम् ।
देवदानवयक्षाणां भयं जनयते महत् ॥ ५२.५॥
निर्दहन् नागलोकं च यच्च किंचित् क्षिताविह ।
अधस्तान् मुनिशार्दूलाः सर्वं नाशयते क्षणात् ॥ ५२.६॥
ततो योजनविंशानां सहस्राणि शतानि च ।
निर्दहत्याशुगो वायुः स च संवर्तकोऽनलः ॥ ५२.७॥
सदेवासुरगन्धर्वं सयक्षोरगराक्षसम् ।
ततो दहति संदीप्तः सर्वमेव जगत् प्रभुः ॥ ५२.८॥
प्रदीप्तोऽसौ महारौद्रः कल्पाग्निरिति संश्रुतः ।
महाज्वालो महार्चिष्मान् सम्प्रदीप्तमहास्वनः ॥ ५२.९॥
सूर्यकोटिप्रतीकाशो ज्वलन्न् इव स तेजसा ।
त्रैलोक्यं चादहत् तूर्णं ससुरासुरमानुषम् ॥ ५२.१०॥
एवंविधे महाघोरे महाप्रलयदारुणे ।
ऋषिः परमधर्मात्मा ध्यानयोगपरोऽभवत् ॥ ५२.११॥
एकः संतिष्ठते विप्रा मार्कण्डेयेति विश्रुतः ।
मोहपाशैर्निबद्धोऽसौ क्षुत्तृष्णाकुलितेन्द्रियाः ॥ ५२.१२॥
स दृष्ट्वा तं महावह्निं शुष्ककण्ठौष्ठतालुकः ।
तृष्णार्तः प्रस्खलन् विप्रास्तदासौ भयविह्वलः ॥ ५२.१३॥
बभ्राम पृथिवीं सर्वां कांदिशीको विचेतनः ।
त्रातारं नाधिगच्छन् वै इतश्चेतश्च धावति ॥ ५२.१४॥
न लेभे च तदा शर्म यत्र विश्राम्यता द्विजाः ।
करोमि किं न जानामि यस्याहं शरणं व्रजे ॥ ५२.१५॥
कथं पश्यामि तं देवं पुरुषेशं सनातनम् ।
इति संचिन्तयन् देवमेकाग्रेण सनातनम् ॥ ५२.१६॥
प्राप्तवांस्तत् पदं दिव्यं महाप्रलयकारणम् ।
पुरुषेशमिति ख्यातं वटराजं सनातनम् ॥ ५२.१७॥
त्वरायुक्तो मुनिश्चासौ न्यग्रोधस्यान्तिकं ययौ ।
आसाद्य तं मुनिश्रेष्ठास्तस्य मूले समाविशत् ॥ ५२.१८॥
न कालाग्निभयं तत्र न चाङ्गारप्रवर्षणम् ।
न संवर्तागमस्तत्र न च वज्राशनिस्तथा ॥ ५२.१९॥