अध्याय 51, Verse 1
श्रीभगवान् उवाच ।
नाहं देवो न यक्षो वा न दैत्यो न च देवराट् ।
न ब्रह्मा न च रुद्रोऽहं विद्धि मां पुरुषोत्तमम् ॥ ५१.१॥
Containing 71 sacred Sanskrit shlokas with multi-author commentaries and translations.
श्रीभगवान् उवाच ।
नाहं देवो न यक्षो वा न दैत्यो न च देवराट् ।
न ब्रह्मा न च रुद्रोऽहं विद्धि मां पुरुषोत्तमम् ॥ ५१.१॥
अर्तिहा सर्वलोकानामनन्तबलपौरुषः ।
आराधनीयो भूतानामन्तो यस्य न विद्यते ॥ ५१.२॥
पठ्यते सर्वशास्त्रेषु वेदान्तेषु निगद्यते ।
यमाहुर्ज्ञानगम्येति वासुदेवेति योगिनः ॥ ५१.३॥
अहमेव स्वयं ब्रह्मा अहं विष्णुः शिवोऽप्यहम् ।
इन्द्रोऽहं देवराजश्च जगत्संयमनो यमः ॥ ५१.४॥
पृथिव्यादीनि भूतानि त्रेताग्निर्हुतभुङ् नृप ।
वरुणोऽपां पतिश्चाहं धरित्री च महीधरः ॥ ५१.५॥
यत् किंचिद् वाङ्मयं लोके जगत् स्थावरजङ्गमम् ।
चराचरं च यद् विश्वं मदन्यन् नास्ति किंचन ॥ ५१.६॥
प्रीतोऽहं ते नृपश्रेष्ठ वरं वरय सुव्रत ।
यद् इष्टं तत् प्रयच्छामि हृदि यत् ते व्यवस्थितम् ॥ ५१.७॥
मद्दर्शनमपुण्यानां स्वप्नान्तेऽपि न जायते ।
त्वं पुनर्दृढभक्तित्वात् प्रत्यक्षं दृष्टवान् असि ॥ ५१.८॥
ब्रह्मोवाच ।
श्रुत्वैवं वासुदेवस्य वचनं तस्य भो द्विजाः ।
रोमाञ्चिततनुर्भूत्वा इदं स्तोत्रं जगौ नृपः ॥ ५१.९॥
राजोवाच ।
श्रियः कान्त नमस्तेऽस्तु श्रीपते पीतवाससे ।
श्रीद श्रीश श्रीनिवास नमस्ते श्रीनिकेतन ॥ ५१.१०॥
आद्यं पुरुषमीशानं सर्वेशं सर्वतोमुखम् ।
निष्कलं परमं देवं प्रणतोऽस्मि सनातनम् ॥ ५१.११॥
शब्दातीतं गुणातीतं भावाभावविवर्जितम् ।
निर्लेपं निर्गुणं सूक्ष्मं सर्वज्ञं सर्वभावनम् ॥ ५१.१२॥
प्रावृण्मेघप्रतीकाशं गोब्राह्मणहिते रतम् ।
सर्वेषामेव गोप्तारं व्यापिनं सर्वभाविनम् ॥ ५१.१३॥
शङ्खचक्रधरं देवं गदामुशलधारिणम् ।
नमस्ये वरदं देवं नीलोत्पलदलच्छविम् ॥ ५१.१४॥
नागपर्यङ्कशयनं क्षीरोदार्णवशायिनम् ।
नमस्येऽहं हृषीकेशं सर्वपापहरं हरिम् ॥ ५१.१५॥
पुनस्त्वां देवदेवेशं नमस्ये वरदं विभुम् ।
सर्वलोकेश्वरं विष्णुं मोक्षकारणमव्ययम् ॥ ५१.१६॥
ब्रह्मोवाच ।
एवं स्तुत्वा तु तं देवं प्रणिपत्य कृताञ्जलिः ।
उवाच प्रणतो भूत्वा निपत्य धरणीतले ॥ ५१.१७॥
राजोवाच ।
प्रीतोऽसि यदि मे नाथ वृणोमि वरमुत्तमम् ।
देवासुराः सगन्धर्वा यक्षरक्षोमहोरगाः ॥ ५१.१८॥
सिद्धविद्याधराः साध्याः किंनरा गुह्यकास्तथा ।
ऋषयो ये महाभागा नानाशास्त्रविशारदाः ॥ ५१.१९॥
परिव्राड्योगयुक्ताश्च वेदतत्त्वार्थचिन्तकाः ।
मोक्षमार्गविदो येऽन्ये ध्यायन्ति परमं पदम् ॥ ५१.२०॥
निर्गुणं निर्मलं शान्तं यत् पश्यन्ति मनीषिनः ।
तत् पदं गन्तुमिच्छामि त्वत्प्रसादात् सुदुर्लभम् ॥ ५१.२१॥
श्रीभगवान् उवाच ।
सर्वं भवतु भद्रं ते यथेष्टं सर्वमाप्नुहि ।
भविष्यति यथाकामं मत्प्रसादान् न संशयः ॥ ५१.२२॥
दश वर्षसहस्राणि तथा नव शतानि च ।
अविच्छिन्नं महाराज्यं कुरु त्वं नृपसत्तम ॥ ५१.२३॥
प्रयास्यसि पदं दिव्यं दुर्लभं यत् सुरासुरैः ।
पूर्णमनोरथं शान्तं गुह्यमव्यक्तमव्ययम् ॥ ५१.२४॥
परात् परतरं सूक्ष्मं निर्लेपं निष्कलं ध्रुवम् ।
चिन्ताशोकविनिर्मुक्तं क्रियाकारणवर्जितम् ॥ ५१.२५॥
तद् अहं दर्शयिष्यामि ज्ञेयाख्यं परमं पदम् ।
यं प्राप्य परमानन्दं प्राप्स्यसि परमां गतिम् ॥ ५१.२६॥
कीर्तिश्च तव राजेन्द्र भवत्यत्र महीतले ।
यावद् घना नभो यावद् यावच्चन्द्रार्कतारकम् ॥ ५१.२७॥
यावत् समुद्राः सप्तैव यावन् मेर्वादिपर्वताः ।
तिष्ठन्ति दिवि देवाश्च तावत् सर्वत्र चाव्यया ॥ ५१.२८॥
इन्द्रद्युम्नसरो नाम तीर्थं यज्ञाङ्गसम्भवम् ।
यत्र स्नात्वा सकृल्लोकः शक्रलोकमवाप्नुयात् ॥ ५१.२९॥
दापयिष्यति यः पिण्डांस्तटेऽस्मिन् सरसः शुभे ।
कुलैकविंशमुद्धृत्य शक्रलोकं गमिष्यति ॥ ५१.३०॥