अध्याय 50, Verse 1
ब्रह्मोवाच ।
स्तुत्वैवं मुनिशार्दूलाः प्रणम्य च सनातनम् ।
वासुदेवं जगन्नाथं सर्वकामफलप्रदम् ॥ ५०.१॥
Containing 59 sacred Sanskrit shlokas with multi-author commentaries and translations.
ब्रह्मोवाच ।
स्तुत्वैवं मुनिशार्दूलाः प्रणम्य च सनातनम् ।
वासुदेवं जगन्नाथं सर्वकामफलप्रदम् ॥ ५०.१॥
चिन्ताविष्टो महीपालः कुशान् आस्तीर्य भूतले ।
वस्त्रं च तन्मना भूत्वा सुष्वाप धरणीतले ॥ ५०.२॥
कथं प्रत्यक्षमभ्येति देवदेवो जनार्दनः ।
मम चार्तिहरो देवस्तदासाविति चिन्तयन् ॥ ५०.३॥
सुप्तस्य तस्य नृपतेर्वासुदेवो जगद्गुरुः ।
आत्मानं दर्शयामास शङ्खचक्रगदाभृतम् ॥ ५०.४॥
स ददर्श तु सप्रेम देवदेवं जगद्गुरुम् ।
शङ्खचक्रधरं देवं गदाचक्रोग्रपाणिनम् ॥ ५०.५॥
शार्ङ्गबाणधरं देवं ज्वलत्तेजोतिमण्डलम् ।
युगान्तादित्यवर्णाभं नीलवैदूर्यसंनिभम् ॥ ५०.६॥
सुपर्णांसे तमासीनं षोडशार्धभुजं शुभम् ।
स चास्मै प्राब्रवीद् धीराः साधु राजन् महामते ॥ ५०.७॥
क्रतुनानेन दिव्येन तथा भक्त्या च श्रद्धया ।
तुष्टोऽस्मि ते महीपाल वृथा किमनुशोचसि ॥ ५०.८॥
यद् अत्र प्रतिमा राजञ् जगत्पूज्या सनातनी ।
यथा सा प्राप्यते भूप तदुपायं ब्रवीमि ते ॥ ५०.९॥
गतायामद्य शर्वर्यां निर्मले भास्करोदिते ।
सागरस्य जलस्यान्ते नानाद्रुमविभूषिते ॥ ५०.१०॥
जलं तथैव वेलायां दृश्यते तत्र वै महत् ।
लवणस्योदधे राजंस्तरङ्गैः समभिप्लुतम् ॥ ५०.११॥
कूलान्ते हि महावृक्षः स्थितः स्थलजलेषु च ।
वेलाभिर्हन्यमानश्च न चासौ कम्पते द्रुमः ॥ ५०.१२॥
परशुमादाय हस्तेन ऊर्मेरन्तस्ततो व्रज ।
एकाकी विहरन् राजन् स त्वं पश्यसि पादपम् ॥ ५०.१३॥
ईदृक् चिह्नं समालोक्य छेदय त्वमशङ्कितः ।
छेद्यमानं तु तं वृक्षं प्रातरद्भुतदर्शनम् ॥ ५०.१४॥
दृष्ट्वा तेनैव संचिन्त्य ततो भूपाल दर्शनात् ।
कुरु तां प्रतिमां दिव्यां जहि चिन्तां विमोहिनीम् ॥ ५०.१५॥
ब्रह्मोवाच ।
एवमुक्त्वा महाभागो जगामादर्शनं हरिः ।
स चापि स्वप्नमालोक्य परं विस्मयमागतः ॥ ५०.१६॥
तां निशां स समुद्वीक्ष्य स्थितस्तद्गतमानसः ।
व्याहरन् वैष्णवान् मन्त्रान् सूक्तं चैव तदात्मकम् ॥ ५०.१७॥
प्रगतायां रजन्यां तु उत्थितो नान्यमानसः ।
स स्नात्वा सागरे सम्यग् यथावद् विधिना ततः ॥ ५०.१८॥
दत्त्वा दानं च विप्रेभ्यो ग्रामांश्च नगराणि च ।
कृत्वा पौर्वाह्णिकं कर्म जगाम स नृपोत्तमः ॥ ५०.१९॥
न चाश्वो न पदातिश्च न गजो न च सारथिः ।
एकाकी स महावेलां प्रविवेश महीपतिः ॥ ५०.२०॥
तं ददर्श महावृक्षं तेजस्वन्तं महाद्रुमम् ।
महातिगमहारोहं पुण्यं विपुलमेव च ॥ ५०.२१॥
महोत्सेधं महाकायं प्रसुप्तं च जलान्तिके ।
सान्द्रमाञ्जिष्ठवर्णाभं नामजातिविवर्जितम् ॥ ५०.२२॥
नरनाथस्तदा विप्रा द्रुमं दृष्ट्वा मुदान्वितः ।
परशुना शातयामास निशितेन दृढेन च ॥ ५०.२३॥
द्वैधीकर्तुमनास्तत्र बभूवेन्द्रसखः स च ।
निरीक्ष्यमाणे काष्ठे तु बभूवाद्भुतदर्शनम् ॥ ५०.२४॥
विश्वकर्मा च विष्णुश्च विप्ररूपधरावुभौ ।
आजग्मतुर्महाभागौ तदा तुल्याग्रजन्मनौ ॥ ५०.२५॥
ज्वलमानौ स्वतेजोभिर्दिव्यस्रगनुलेपनौ ।
अथ तौ तं समागम्य नृपमिन्द्रसखं तदा ॥ ५०.२६॥
तावूचतुर्महाराज किमत्र त्वं करिष्यसि ।
किमर्थं च महाबाहो शातितश्च वनस्पतिः ॥ ५०.२७॥
असहायो महादुर्गे निर्जने गहने वने ।
महासिन्धुतटे चैव कथं वै शातितो द्रुमः ॥ ५०.२८॥
ब्रह्मोवाच ।
तयोः श्रुत्वा वचो विप्राः स तु राजा मुदान्वितः ।
बभाषे वचनं ताभ्यां मृदुलं मधुरं तथा ॥ ५०.२९॥
दृष्ट्वा तौ ब्राह्मणौ तत्र चन्द्रसूर्याविवागतौ ।
नमस्कृत्य जगन्नाथाववाङ्मुखमवस्थितः ॥ ५०.३०॥