अध्याय 5, Verse 1
ऋषय ऊचुः ।
मन्वन्तराणि सर्वाणि विस्तरेण महामते ।
तेषां पूर्वविसृष्टिं च लोमहर्षण कीर्तय ॥ ५.१॥
Containing 64 sacred Sanskrit shlokas with multi-author commentaries and translations.
ऋषय ऊचुः ।
मन्वन्तराणि सर्वाणि विस्तरेण महामते ।
तेषां पूर्वविसृष्टिं च लोमहर्षण कीर्तय ॥ ५.१॥
यावन्तो मनवश्चैव यावन्तं कालमेव च ।
मन्वन्तराणि भोः सूत श्रोतुमिच्छाम तत्त्वतः ॥ ५.२॥
लोमहर्षण उवाच ।
न शक्यो विस्तरो विप्रा वक्तुं वर्षशतैरपि ।
मन्वन्तराणां सर्वेषां संक्षेपाच्छृणुत द्विजाः ॥ ५.३॥
स्वायम्भुवो मनुः पूर्वं मनुः स्वारोचिषस्तथा ।
उत्तमस्तामसश्चैव रैवतश्चाक्षुषस्तथा ॥ ५.४॥
वैवस्वतश्च भो विप्राः साम्प्रतं मनुरुच्यते ।
सावर्णिश्च मनुस्तद्वद् रैभ्यो रौच्यस्तथैव च ॥ ५.५॥
तथैव मेरुसावर्ण्यश्चत्वारो मनवः स्मृताः ।
अतीता वर्तमानाश्च तथैवानागता द्विजाः ॥ ५.६॥
कीर्तिता मनवस्तुभ्यं मयैवैते यथा श्रुताः ।
ऋषींस्त्वेषां प्रवक्ष्यामि पुत्रान् देवगणांस्तथा ॥ ५.७॥
मरीचिरत्रिर्भगवान् अङ्गिराः पुलहः क्रतुः ।
पुलस्त्यश्च वसिष्ठश्च सप्तैते ब्रह्मणः सुताः ॥ ५.८॥
उत्तरस्यां दिशि तथा द्विजाः सप्तर्षयस्तथा ।
आग्नीध्रश्चाग्निबाहुश्च मेध्यो मेधातिथिर्वसुः ॥ ५.९॥
ज्योतिष्मान् द्युतिमान् हव्यः सवलः पुत्रसंज्ञकः ।
मनोः स्वायम्भुवस्यैते दश पुत्रा महौजसः ॥ ५.१०॥
एतद् वै प्रथमं विप्रा मन्वन्तरमुदाहृतम् ।
और्वो वसिष्ठपुत्रश्च स्तम्बः कश्यप एव च ॥ ५.११॥
प्राणो बृहस्पतिश्चैव दत्तोऽत्रिच्च्यवनस्तथा ।
एते महर्षयो विप्रा वायुप्रोक्ता महाव्रताः ॥ ५.१२॥
देवाश्च तुषिता नाम स्मृताः स्वारोचिषेऽन्तरे ।
हविघ्नः सुकृतिर्ज्योतिरापो मूर्तिरपि स्मृतः ॥ ५.१३॥
प्रतीतश्च नभस्यश्च नभ ऊर्जस्तथैव च ।
स्वारोचिषस्य पुत्रास्ते मनोर्विप्रा महात्मनः ॥ ५.१४॥
कीर्तिताः पृथिवीपाला महावीर्यपराक्रमाः ।
द्वितीयमेतत् कथितं विप्रा मन्वन्तरं मया ॥ ५.१५॥
इदं तृतीयं वक्ष्यामि तद् बुध्यध्वं द्विजोत्तमाः ।
वसिष्ठपुत्राः सप्तासन् वासिष्ठा इति विश्रुताः ॥ ५.१६॥
हिरण्यगर्भस्य सुता ऊर्जा जाताः सुतेजसः ।
ऋषयोऽत्र मया प्रोक्ताः कीर्त्यमानान् निबोधत ॥ ५.१७॥
औत्तमेयान् मुनिश्रेष्ठा दश पुत्रान् मनोरिमान् ।
इष ऊर्जस्तनूर्जस्तु मधुर्माधव एव च ॥ ५.१८॥
शुचिः शुक्रः सहश्चैव नभस्यो नभ एव च ।
भानवस्तत्र देवाश्च मन्वन्तरमुदाहृतम् ॥ ५.१९॥
मन्वन्तरं चतुर्थं वः कथयिष्यामि साम्प्रतम् ।
काव्यः पृथुस्तथैवाग्निर्जह्नुर्धाता द्विजोत्तमाः ॥ ५.२०॥
कपीवान् अकपीवांश्च तत्र सप्तर्षयो द्विजाः ।
पुराणे कीर्तिता विप्राः पुत्राः पौत्राश्च भो द्विजाः ॥ ५.२१॥
तथा देवगणाश्चैव तामसस्यान्तरे मनोः ।
द्युतिस्तपस्यः सुतपास्तपोभूतः सनातनः ॥ ५.२२॥
तपोरतिरकल्माषस्तन्वी धन्वी परंतपः ।
तामसस्य मनोरेते दश पुत्राः प्रकीर्तिताः ॥ ५.२३॥
वायुप्रोक्ता मुनिश्रेष्ठाश्चतुर्थं चैतद् अन्तरम् ।
देवबाहुर्यदुध्रश्च मुनिर्वेदशिरास्तथा ॥ ५.२४॥
हिरण्यरोमा पर्जन्य ऊर्ध्वबाहुश्च सोमजः ।
सत्यनेत्रस्तथात्रेय एते सप्तर्षयोऽपरे ॥ ५.२५॥
देवाश्चाभूतरजसस्तथा प्रकृतयः स्मृताः ।
वारिप्लवश्च रैभ्यश्च मनोरन्तरमुच्यते ॥ ५.२६॥
अथ पुत्रान् इमांस्तस्य बुध्यध्वं गदतो मम ।
धृतिमान् अव्ययो युक्तस्तत्त्वदर्शी निरुत्सुकः ॥ ५.२७॥
आरण्यश्च प्रकाशश्च निर्मोहः सत्यवाक् कृती ।
रैवतस्य मनोः पुत्राः पञ्चमं चैतद् अन्तरम् ॥ ५.२८॥
षष्ठं तु सम्प्रवक्ष्यामि तद् बुध्यध्वं द्विजोत्तमाः ।
भृगुर्नभो विवस्वांश्च सुधामा विरजास्तथा ॥ ५.२९॥
अतिनामा सहिष्णुश्च सप्तैते च महर्षयः ।
चाक्षुषस्यान्तरे विप्रा मनोर्देवास्त्विमे स्मृताः ॥ ५.३०॥