अध्याय 49, Verse 1
वासुदेव नमस्तेऽस्तु नमस्ते मोक्षकारण ।
त्राहि मां सर्वलोकेश जन्मसंसारसागरात् ॥ ४९.१॥
Containing 71 sacred Sanskrit shlokas with multi-author commentaries and translations.
वासुदेव नमस्तेऽस्तु नमस्ते मोक्षकारण ।
त्राहि मां सर्वलोकेश जन्मसंसारसागरात् ॥ ४९.१॥
निर्मलाम्बरसंकाश नमस्ते पुरुषोत्तम ।
संकर्षण नमस्तेऽस्तु त्राहि मां धरणीधर ॥ ४९.२॥
नमस्ते हेमगर्भाभ नमस्ते मकरध्वज ।
रतिकान्त नमस्तेऽस्तु त्राहि मां संवरान्तक ॥ ४९.३॥
नमस्तेऽञ्जनसंकाश नमस्ते भक्तवत्सल ।
अनिरुद्ध नमस्तेऽस्तु त्राहि मां वरदो भव ॥ ४९.४॥
नमस्ते विबुधावास नमस्ते विबुधप्रिय ।
नारायण नमस्तेऽस्तु त्राहि मां शरणागतम् ॥ ४९.५॥
नमस्ते बलिनां श्रेष्ठ नमस्ते लाङ्गलायुध ।
चतुर्मुख जगद्धाम त्राहि मां प्रपितामह ॥ ४९.६॥
नमस्ते नीलमेघाभ नमस्ते त्रिदशार्चित ।
त्राहि विष्णो जगन्नाथ मग्नं मां भवसागरे ॥ ४९.७॥
प्रलयानलसंकाश नमस्ते दितिजान्तक ।
नरसिंह महावीर्य त्राहि मां दीप्तलोचन ॥ ४९.८॥
यथा रसातलाद् उर्वी त्वया दंष्ट्रोद्धृता पुरा ।
तथा महावराहस्त्वं त्राहि मां दुःखसागरात् ॥ ४९.९॥
तवैता मूर्तयः कृष्ण वरदाः संस्तुता मया ।
तवेमे बलदेवाद्याः पृथग्रूपेण संस्थिताः ॥ ४९.१०॥
अङ्गानि तव देवेश गरुत्माद्यास्तथा प्रभो ।
दिक्पालाः सायुधाश्चैव केशवाद्यास्तथाच्युत ॥ ४९.११॥
ये चान्ये तव देवेश भेदाः प्रोक्ता मनीषिभिः ।
तेऽपि सर्वे जगन्नाथ प्रसन्नायतलोचन ॥ ४९.१२॥
मयार्चिताः स्तुताः सर्वे तथा यूयं नमस्कृताः ।
प्रयच्छत वरं मह्यं धर्मकामार्थमोक्षदम् ॥ ४९.१३॥
भेदास्ते कीर्तिता ये तु हरे संकर्षणादयः ।
तव पूजार्थसम्भूतास्ततस्त्वयि समाश्रिताः ॥ ४९.१४॥
न भेदस्तव देवेश विद्यते परमार्थतः ।
विविधं तव यद् रूपमुक्तं तद् उपचारतः ॥ ४९.१५॥
अद्वैतं त्वां कथं द्वैतं वक्तुं शक्नोति मानवः ।
एकस्त्वं हि हरे व्यापी चित्स्वभावो निरञ्जनः ॥ ४९.१६॥
परमं तव यद् रूपं भावाभावविवर्जितम् ।
निर्लेपं निर्गुणं श्रेष्ठं कूटस्थमचलं ध्रुवम् ॥ ४९.१७॥
सर्वोपाधिविनिर्मुक्तं सत्तामात्रव्यवस्थितम् ।
तद् देवाश्च न जानन्ति कथं जानाम्यहं प्रभो ॥ ४९.१८॥
अपरं तव यद् रूपं पीतवस्त्रं चतुर्भुजम् ।
शङ्खचक्रगदापाणि+ ंउकुटाङ्गदधारिणम् ॥ ४९.१९॥
श्रीवत्सोरस्कसंयुक्तं वनमालाविभूषितम् ।
तद् अर्चयन्ति विबुधा ये चान्ये तव संश्रयाः ॥ ४९.२०॥
देवदेव सुरश्रेष्ठ भक्तानामभयप्रद ।
त्राहि मां पद्मपत्त्राक्ष मग्नं विषयसागरे ॥ ४९.२१॥
नान्यं पश्यामि लोकेश यस्याहं शरणं व्रजे ।
त्वाम् ऋते कमलाकान्त प्रसीद मधुसूदन ॥ ४९.२२॥
जराव्याधिशतैर्युक्तो नानादुःखैर्निपीडितः ।
हर्षशोकान्वितो मूढः कर्मपाशैः सुयन्त्रितः ॥ ४९.२३॥
पतितोऽहं महारौद्रे घोरे संसारसागरे ।
विषमोदकदुष्पारे रागद्वेषझषाकुले ॥ ४९.२४॥
इन्द्रियावर्तगम्भीरे तृष्णाशोकोर्मिसंकुले ।
निराश्रये निरालम्बे निःसारेऽत्यन्तचञ्चले ॥ ४९.२५॥
मायया मोहितस्तत्र भ्रमामि सुचिरं प्रभो ।
नानाजातिसहस्रेषु जायमानः पुनः पुनः ॥ ४९.२६॥
मया जन्मान्यनेकानि सहस्राण्ययुतानि च ।
विविधान्यनुभूतानि संसारेऽस्मिञ् जनार्दन ॥ ४९.२७॥
वेदाः साङ्गा मयाधीताः शास्त्राणि विविधानि च ।
इतिहासपुराणानि तथा शिल्पान्यनेकशः ॥ ४९.२८॥
असंतोषाश्च संतोषाः संचयापचया व्ययाः ।
मया प्राप्ता जगन्नाथ क्षयवृद्ध्यक्षयेतराः ॥ ४९.२९॥
भार्यारिमित्रबन्धूनां वियोगाः संगमास्तथा ।
पितरो विविधा दृष्टा मातरश्च तथा मया ॥ ४९.३०॥