अध्याय 48, Verse 1
मुनय ऊचुः ।
ब्रूहि नो देवदेवेश यत् पृच्छामः पुरातनम् ।
यथा ताः प्रतिमाः पूर्वमिन्द्रद्युम्नेन निर्मिताः ॥ ४८.१॥
Containing 12 sacred Sanskrit shlokas with multi-author commentaries and translations.
मुनय ऊचुः ।
ब्रूहि नो देवदेवेश यत् पृच्छामः पुरातनम् ।
यथा ताः प्रतिमाः पूर्वमिन्द्रद्युम्नेन निर्मिताः ॥ ४८.१॥
केन चैव प्रकारेण तुष्टस्तस्मै स माधवः ।
तत् सर्वं वद चास्माकं परं कौतूहलं हि नः ॥ ४८.२॥
ब्रह्मोवाच ।
शृणुध्वं मुनिशार्दूलाः पुराणं वेदसम्मितम् ।
कथयामि पुरा वृत्तं प्रतिमानां च सम्भवम् ॥ ४८.३॥
प्रवृत्ते च महायज्ञे प्रासादे चैव निर्मिते ।
चिन्ता तस्य बभूवाथ प्रतिमार्थमहर्निशम् ॥ ४८.४॥
न वेद्मि केन देवेशं सर्वेशं लोकपावनम् ।
सर्गस्थित्यन्तकर्तारं पश्यामि पुरुषोत्तमम् ॥ ४८.५॥
चिन्ताविष्टस्त्वभूद् राजा शेते रात्रौ दिवापि न ।
न भुङ्क्ते विविधान् भोगान् न च स्नानं प्रसाधनम् ॥ ४८.६॥
नैव वाद्येन गन्धेन गायनैर्वर्णकैरपि ।
न गजैर्मदयुक्तैश्च न चानेकैर्हयान्वितैः ॥ ४८.७॥
नेन्द्रनीलैर्महानीलैः पद्मरागमयैर्न च ।
सुवर्णरजताद्यैश्च वज्रस्फटिकसंयुतैः ॥ ४८.८॥
बहुरागार्थकामैर्वा न वन्यैरन्तरिक्षगैः ।
बभूव तस्य नृपतेर्मनसस्तुष्टिवर्धनम् ॥ ४८.९॥
शैलमृद्दारुजातेषु प्रशस्तं किं महीतले ।
विष्णुप्रतिमायोग्यं च सर्वलक्षणलक्षितम् ॥ ४८.१०॥
एतैरेव त्रयाणां तु दयितं स्यात् सुरार्चितम् ।
स्थापिते प्रीतिमभ्येति इति चिन्तापरोऽभवत् ॥ ४८.११॥
पञ्चरात्रविधानेन सम्पूज्य पुरुषोत्तमम् ।
चिन्ताविष्टो महीपालः संस्तोतुमुपचक्रमे ॥ ४८.१२॥