अध्याय 47, Verse 1
ब्रह्मोवाच ।
एवं स पृथिवीपालश्चिन्तयित्वा द्विजोत्तमाः ।
प्रासादार्थं हरेस्तत्र प्रारम्भमकरोत् तदा ॥ ४७.१॥
Containing 98 sacred Sanskrit shlokas with multi-author commentaries and translations.
ब्रह्मोवाच ।
एवं स पृथिवीपालश्चिन्तयित्वा द्विजोत्तमाः ।
प्रासादार्थं हरेस्तत्र प्रारम्भमकरोत् तदा ॥ ४७.१॥
आनाय्य गणकान् सर्वान् आचार्याञ् शास्त्रपारगान् ।
भूमिं संशोध्य यत्नेन राजा तु परया मुदा ॥ ४७.२॥
ब्राह्मणैर्ज्ञानसम्पन्नैर्वेदशास्त्रार्थपारगैः ।
अमात्यैर्मन्त्रिभिश्चैव वास्तुविद्याविशारदैः ॥ ४७.३॥
तैः सार्धं स समालोच्य सुमुहूर्ते शुभे दिने ।
सुचन्द्रतारासंयोगे ग्रहानुकूल्यसंयुते ॥ ४७.४॥
जयमङ्गलशब्दैश्च नानावाद्यैर्मनोहरैः ।
वेदाध्ययननिर्घोषैर्गीतैः सुमधुरस्वरैः ॥ ४७.५॥
पुष्पलाजाक्षतैर्गन्धैः पूर्णकुम्भैः सदीपकैः ।
ददावर्घ्यं ततो राजा श्रद्धया सुसमाहितः ॥ ४७.६॥
दत्त्वैवमर्घ्यं विधिवद् आनाय्य स महीपतिः ।
कलिङ्गाधिपतिं शूरमुत्कलाधिपतिं तथा ।
कोशलाधिपतिं चैव तान् उवाच तदा नृपः ॥ ४७.७॥
राजोवाच ।
गच्छध्वं सहिताः सर्वे शिलार्थे सुसमाहिताः ।
गृहीत्वा शिल्पिमुख्यांश्च शिलाकर्मविशारदान् ॥ ४७.८॥
विन्ध्याचलं सुविस्तीर्णं बहुकन्दरशोभितम् ।
निरूप्य सर्वसानूनि *च्छेदयित्वा शिलाः शुभाः ।
संवाह्यन्तां च शकटैर्नौकाभिर्मा विलम्बथ ॥ ४७.९॥
ब्रह्मोवाच ।
एवं गन्तुं समादिश्य तान् नृपान् स महीपतिः ।
पुनरेवाब्रवीद् वाक्यं सामात्यान् सपुरोहितान् ॥ ४७.१०॥
राजोवाच ।
गच्छन्तु दूताः सर्वत्र ममाज्ञां प्रवदन्तु वै ।
यत्र तिष्ठन्ति राजानः पृथिव्यां तान् सुशीघ्रगाः ॥ ४७.११॥
हस्त्यश्वरथपादातैः सामात्यैः सपुरोहितैः ।
गच्छत सहिताः सर्व इन्द्रद्युम्नस्य शासनात् ॥ ४७.१२॥
ब्रह्मोवाच ।
एवं दूताः समाज्ञाता राज्ञा तेन महात्मना ।
गत्वा तदा नृपान् ऊचुर्वचनं तस्य भूपतेः ॥ ४७.१३॥
श्रुत्वा तु ते तथा सर्वे दूतानां वचनं नृपाः ।
आजग्मुस्त्वरिताः सर्वे स्वसैन्यैः परिवारिताः ॥ ४७.१४॥
ये नृपाः सर्वदिग्भागे ये च दक्षिणतः स्थिताः ।
पश्चिमायां स्थिता ये च उत्तरापथसंस्थिताः ॥ ४७.१५॥
प्रत्यन्तवासिनो येऽपि ये च संनिधिवासिनः ।
पार्वतीयाश्च ये केचित् तथा द्वीपनिवासिनः ॥ ४७.१६॥
रथैर्नागैः पदातैश्च वाजिभिर्धनविस्तरैः ।
सम्प्राप्ता बहुशो विप्राः श्रुत्वेन्द्रद्युम्नशासनम् ॥ ४७.१७॥
तान् आगतान् नृपान् दृष्ट्वा सामात्यान् सपुरोहितान् ।
प्रोवाच राजा हृष्टात्मा कार्यमुद्दिश्य सादरम् ॥ ४७.१८॥
राजोवाच ।
शृणुध्वं नृपशार्दूला यथा किंचिद् ब्रवीम्यहम् ।
अस्मिन् क्षेत्रवरे पुण्ये भुक्तिमुक्तिप्रदे शिवे ॥ ४७.१९॥
हयमेधं महायज्ञं प्रासादं चैव वैष्णवम् ।
कथं शक्नोम्यहं कर्तुमिति चिन्ताकुलं मनः ॥ ४७.२०॥
भवद्भिः सुसहायैस्तु सर्वमेतत् करोम्यहम् ।
यदि यूयं सहाया मे भवध्वं नृपसत्तमाः ॥ ४७.२१॥
ब्रह्मोवाच ।
इत्येवं वदमानस्य राजराजस्य धीमतः ।
सर्वे प्रमुदिता हृष्टा भूपास्ते तस्य शासनात् ॥ ४७.२२॥
ववृषुर्धनरत्नैश्च सुवर्णमणिमौक्तिकैः ।
कम्बलाजिनरत्नैश्च राङ्कवास्तरणैः शुभैः ॥ ४७.२३॥
वज्रवैदूर्यमाणिक्यैः पद्मरागेन्द्रनीलकैः ।
गजैरश्वैर्धनैश्चान्यै रथैश्चैव करेणुभिः ॥ ४७.२४॥
असंख्येयैर्बहुविधैर्द्रव्यैरुच्चावचैस्तथा ।
शालिव्रीहियवैश्चैव माषमुद्गतिलैस्तथा ॥ ४७.२५॥
सिद्धार्थचणकैश्चैव गोधूमैर्मसुरादिभिः ।
श्यामाकैर्मधुकैश्चैव नीवारैः सकुलत्थकैः ॥ ४७.२६॥
अन्यैश्च विविधैर्धान्यैर्ग्राम्यारण्यैः सहस्रशः ।
बहुधान्यसहस्राणां तण्डुलानां च राशिभिः ॥ ४७.२७॥
गव्यस्य हविषः कुम्भैः शतशोऽथ सहस्रशः ।
तथान्यैर्विविधैर्द्रव्यैर्भक्ष्यभोज्यानुलेपनैः ॥ ४७.२८॥
राजानः पूरयामासुर्यत् किंचिद् द्रव्यसम्भवैः ।
तान् दृष्ट्वा यज्ञसम्भारान् सर्वसम्पत्समन्वितान् ॥ ४७.२९॥
यज्ञकर्मविदो विप्रान् वेदवेदाङ्गपारगान् ।
शास्त्रेषु निपुणान् दक्षान् कुशलान् सर्वकर्मसु ॥ ४७.३०॥