अध्याय 46, Verse 1
मुनय ऊचुः ।
श्रोतुमिच्छामहे देव कथाशेषं महीपतेः ।
तस्मिन् क्षेत्रवरे गत्वा किं चकार नराधिपः ॥ ४६.१॥
Containing 30 sacred Sanskrit shlokas with multi-author commentaries and translations.
मुनय ऊचुः ।
श्रोतुमिच्छामहे देव कथाशेषं महीपतेः ।
तस्मिन् क्षेत्रवरे गत्वा किं चकार नराधिपः ॥ ४६.१॥
ब्रह्मोवाच ।
शृणुध्वं मुनिशार्दूलाः प्रवक्ष्यामि समासतः ।
क्षेत्रसंदर्शनं चैव कृत्यं तस्य च भूपतेः ॥ ४६.२॥
गत्वा तत्र महीपालः क्षेत्रे त्रैलोक्यविश्रुते ।
ददर्श रमणीयानि स्थानानि सरितस्तथा ॥ ४६.३॥
नदी तत्र महापुण्या विन्ध्यपादविनिर्गता ।
स्वित्त्रोपलेति विख्याता सर्वपापहरा शिवा ॥ ४६.४॥
गङ्गातुल्या महास्रोता दक्षिणार्णवगामिनी ।
महानदीति नाम्ना सा पुण्यतोया सरिद्वरा ॥ ४६.५॥
दक्षिणस्योदधेर्गर्भं शोभिता ।
उभयोस्तटयोर्यस्या ग्रामाश्च नगराणि च ॥ ४६.६॥
दृश्यन्ते मुनिशार्दूलाः सुसस्याः सुमनोहराः ।
हृष्टपुष्टजनाकीर्णा वस्त्रालंकारभूषिताः ॥ ४६.७॥
ब्राह्मणाः क्षत्रिया वैश्याः शूद्रास्तत्र पृथक् पृथक् ।
स्वधर्मनिरताः शान्ता दृश्यन्ते शुभलक्षणाः ॥ ४६.८॥
ताम्बूलपूर्णवदना मालादामविभूषिताः ।
वेदपूर्णमुखा विप्राः सषडङ्गपदक्रमाः ॥ ४६.९॥
अग्निहोत्ररताः केचित् केचिद् औपासनक्रियाः ।
सर्वशास्त्रार्थकुशला यज्वानो भूरिदक्षिणाः ॥ ४६.१०॥
चत्वारे राजमार्गेषु वनेषूपवनेषु च ।
सभामण्डलहर्म्येषु देवतायतनेषु च ॥ ४६.११॥
इतिहासपुराणानि वेदाः साङ्गाः सुलक्षणाः ।
काव्यशास्त्रकथास्तत्र श्रूयन्ते च महाजनैः ॥ ४६.१२॥
स्त्रियस्तद्देशवासिन्यो रूपयौवनगर्विताः ।
सम्पूर्णलक्षणोपेता विस्तीर्णश्रोणिमण्डलाः ॥ ४६.१३॥
सरोरुहमुखाः श्यामाः शरच्चन्द्रनिभाननाः ।
पीनोन्नतस्तनाः सर्वाः समृद्ध्या चारुदर्शनाः ॥ ४६.१४॥
सौवर्णवलयाक्रान्ता दिव्यैर्वस्त्रैरलंकृताः ।
कदलीगर्भसंकाशाः पद्मकिञ्जल्कसप्रभाः ॥ ४६.१५॥
बिम्बाधरपुटाः कान्ताः कर्णान्तायतलोचनाः ।
सुमुखाश्चारुकेशाश्च हावभावावनामिताः ॥ ४६.१६॥
काश्चित् पद्मपलाशाक्ष्यः काश्चिद् इन्दीवरेक्षणाः ।
विद्युद्विस्पष्टदशनास्तन्वङ्ग्यश्च तथापराः ॥ ४६.१७॥
कुटिलालकसंयुक्ताः सीमन्तेन विराजिताः ।
ग्रीवाभरणसंयुक्ता माल्यदामविभूषिताः ॥ ४६.१८॥
कुण्डलै रत्नसंयुक्तैः कर्णपूरैर्मनोहरैः ।
देवयोषित्प्रतीकाशा दृश्यन्ते शुभलक्षणाः ॥ ४६.१९॥
दिव्यगीतवरैर्धन्यैः क्रीडमाना वराङ्गनाः ।
वीणावेणुमृदङ्गैश्च पणवैश्चैव गोमुखैः ॥ ४६.२०॥
शङ्खदुन्दुभिनिर्घोषैर्नानावाद्यैर्मनोहरैः ।
क्रीडन्त्यस्ताः सदा हृष्टा विलासिन्यः परस्परम् ॥ ४६.२१॥
एवमादि तथानेक+ ।
गीतवाद्यविशारदाः ।
दिवा रात्रौ समायुक्ताः कामोन्मत्ता वराङ्गनाः ॥ ४६.२२॥
भिक्षुवैखानसैः सिद्धैः स्नातकैर्ब्रह्मचारिभिः ।
मन्त्रसिद्धैस्तपःसिद्धैर्यज्ञसिद्धैर्निषेवितम् ॥ ४६.२३॥
इत्येवं ददृशे राजा क्षेत्रं परमशोभनम् ।
अत्रैवाराधयिष्यामि भगवन्तं सनातनम् ॥ ४६.२४॥
जगद्गुरुं परं देवं परं पारं परं पदम् ।
सर्वेश्वरेश्वरं विष्णुमनन्तमपराजितम् ॥ ४६.२५॥
इदं तन्मानसं तीर्थं ज्ञातं मे पुरुषोत्तमम् ।
कल्पवृक्षो महाकायो न्यग्रोधो यत्र तिष्ठति ॥ ४६.२६॥
प्रतिमा चेन्द्रनीलाख्या स्वयं देवेन गोपिता ।
न चात्र दृश्यते चान्या प्रतिमा वैष्णवी शुभा ॥ ४६.२७॥
तथा यत्नं करिष्यामि यथा देवो जगत्पतिः ।
प्रत्यक्षं मम चाभ्येति विष्णुः सत्यपराक्रमः ॥ ४६.२८॥
यज्ञैर्दानैस्तपोभिश्च होमैर्ध्यानैस्तथार्चनैः ।
उपवासैश्च विधिवच्चरेयं व्रतमुत्तमम् ॥ ४६.२९॥
अनन्यमनसा चैव तन्मना नान्यमानसः ।
विष्ण्वायतनविन्यासे प्रारम्भं च करोम्यहम् ॥ ४६.३०॥