अध्याय 45, Verse 1
मुनय ऊचुः ।
तस्मिन् क्षेत्रवरे पुण्ये वैष्णवे पुरुषोत्तमे ।
किं तत्र प्रतिमा पूर्वं न स्थिता वैष्णवी प्रभो ॥ ४५.१॥
Containing 89 sacred Sanskrit shlokas with multi-author commentaries and translations.
मुनय ऊचुः ।
तस्मिन् क्षेत्रवरे पुण्ये वैष्णवे पुरुषोत्तमे ।
किं तत्र प्रतिमा पूर्वं न स्थिता वैष्णवी प्रभो ॥ ४५.१॥
येनासौ नृपतिस्तत्र गत्वा सबलवाहनः ।
स्थापयामास कृष्णं च रामं भद्रां शुभप्रदाम् ॥ ४५.२॥
संशयो नो महान् अत्र विस्मयश्च जगत्पते ।
श्रोतुमिच्छामहे सर्वं ब्रूहि तत्कारणं च नः ॥ ४५.३॥
ब्रह्मोवाच ।
शृणुध्वं पूर्वसंवृत्तां कथां पापप्रणाशिनीम् ।
प्रवक्ष्यामि समासेन श्रिया पृष्टः पुरा हरिः ॥ ४५.४॥
सुमेरोः काञ्चने शृङ्गे सर्वाश्चर्यसमन्विते ।
सिद्धविद्याधरैर्यक्षैः किंनरैरुपशोभिते ॥ ४५.५॥
देवदानवगन्धर्वैर्नागैरप्सरसां गणैः ।
मुनिभिर्गुह्यकैः सिद्धैः सौपर्णैः समरुद्गणैः ॥ ४५.६॥
अन्यैर्देवालयैः साध्यैः कश्यपाद्यैः प्रजेश्वरैः ।
वालखिल्यादिभिश्चैव शोभिते सुमनोहरे ॥ ४५.७॥
कर्णिकारवनैर्दिव्यैः सर्वर्तुकुसुमोत्करैः ।
जातरूपप्रतीकाशैर्भूषिते सूर्यसंनिभैः ॥ ४५.८॥
अन्यैश्च बहुभिर्वृक्षैः शालतालादिभिर्वनैः ।
पुंनागाशोकसरल+ ंयग्रोधाम्रातकार्जुनैः ॥ ४५.९॥
पारिजाताम्रखदिर+ ंईपबिल्वकदम्बकैः ।
धवखादिरपालाश+ ।
शीर्षामलकतिन्दुकैः ॥ ४५.१०॥
नारिङ्गकोलबकुल+ ।
लोध्रदाडिमदारुकैः ।
सर्जैश्च कर्णैस्तगरैः शिशिभूर्जवनिम्बकैः ॥ ४५.११॥
अन्यैश्च काञ्चनैश्चैव फलभारैश्च नामितैः ।
नानाकुसुमगन्धाढ्यैर्भूषिते पुष्पपादपैः ॥ ४५.१२॥
मालतीयूथिकामल्ली+ ।
कुन्दबाणकुरुण्टकैः ।
पाटलागस्त्यकुटज+ ंअन्दारकुसुमादिभिः ॥ ४५.१३॥
अन्यैश्च विविधैः पुष्पैर्मनसः प्रीतिदायकैः ।
नानाविहगसंघैश्च कूजद्भिर्मधुरस्वरैः ॥ ४५.१४॥
पुंस्कोकिलरुतैर्दिव्यैर्मत्तबर्हिणनादितैः ।
एवं नानाविधैर्वृक्षैः पुष्पैर्नानाविधैस्तथा ॥ ४५.१५॥
खगैर्नानाविधैश्चैव शोभिते सुरसेविते ।
तत्र स्थितं जगन्नाथं जगत्स्रष्टारमव्ययम् ॥ ४५.१६॥
सर्वलोकविधातारं वासुदेवाख्यमव्ययम् ।
प्रणम्य शिरसा देवी लोकानां हितकाम्यया ।
पप्रच्छेमं महाप्रश्नं पद्मजा तमनुत्तमम् ॥ ४५.१७॥
श्रीरुवाच ।
ब्रूहि त्वं सर्वलोकेश संशयं मे हृदि स्थितम् ।
मर्त्यलोके महाश्चर्ये कर्मभूमौ सुदुर्लभे ॥ ४५.१८॥
लोभमोहग्रहग्रस्ते कामक्रोधमहार्णवे ।
येन मुच्येत देवेश अस्मात् संसारसागरात् ॥ ४५.१९॥
आचक्ष्व सर्वदेवेश प्रणतां यदि मन्यसे ।
त्वदृते नास्ति लोकेऽस्मिन् वक्ता संशयनिर्णये ॥ ४५.२०॥
ब्रह्मोवाच ।
श्रुत्वैवं वचनं तस्या देवदेवो जनार्दनः ।
प्रोवाच परया प्रीत्या परं सारामृतोपमम् ॥ ४५.२१॥
श्रीभगवान् उवाच ।
सुखोपास्यः सुसाध्यश्चऽभिरामश्च सुसत्फलः ।
आस्ते तीर्थवरे देवि विख्यातः पुरुषोत्तमः ॥ ४५.२२॥
न तेन सदृशः कश्चित् त्रिषु लोकेषु विद्यते ।
कीर्तनाद् यस्य देवेशि मुच्यते सर्वपातकैः ॥ ४५.२३॥
न विज्ञातोऽमरैः सर्वैर्न दैत्यैर्न च दानवैः ।
मरीच्याद्यैर्मुनिवरैर्गोपितं मे वरानने ॥ ४५.२४॥
तत् तेऽहं सम्प्रवक्ष्यामि तीर्थराजं च साम्प्रतम् ।
भावेनैकेन सुश्रोणि शृणुष्व वरवर्णिनि ॥ ४५.२५॥
आसीत् कल्पे समुत्पन्ने नष्टे स्थावरजङ्गमे ।
प्रलीना देवगन्धर्व+ ।
दैत्यविद्याधरोरगाः ॥ ४५.२६॥
तमोभूतमिदं सर्वं न प्राज्ञायत किंचन ।
तस्मिञ् जागर्ति भूतात्मा परमात्मा जगद्गुरुः ॥ ४५.२७॥
श्रीमांस्त्रिमूर्तिकृद् देवो जगत्कर्ता महेश्वरः ।
वासुदेवेति विख्यातो योगात्मा हरिरीश्वरः ॥ ४५.२८॥
सोऽसृजद् योगनिद्रान्ते नाभ्यम्भोरुहमध्यगम् ।
पद्मकेशरसंकाशं ब्रह्माणं भूतमव्ययम् ॥ ४५.२९॥
तादृग्भूतस्ततो ब्रह्मा सर्वलोकमहेश्वरः ।
पञ्चभूतसमायुक्तं सृजते च शनैः शनैः ॥ ४५.३०॥