अध्याय 44, Verse 1
ब्रह्मोवाच ।
तस्यां स नृपतिः पूर्वं कुर्वन् राज्यमनुत्तमम् ।
पालयामास मतिमान् प्रजाः पुत्रान् इवौरसान् ॥ ४४.१॥
Containing 79 sacred Sanskrit shlokas with multi-author commentaries and translations.
ब्रह्मोवाच ।
तस्यां स नृपतिः पूर्वं कुर्वन् राज्यमनुत्तमम् ।
पालयामास मतिमान् प्रजाः पुत्रान् इवौरसान् ॥ ४४.१॥
सत्यवादी महाप्राज्ञः शूरः सर्वगुणाकरः ।
मतिमान् धर्मसम्पन्नः सर्वशस्त्रभृतां वरः ॥ ४४.२॥
सत्यवाञ् शीलवान् दान्तः श्रीमान् परपुरंजयः ।
आदित्य इव तेजोभी रूपैराश्विनयोरिव ॥ ४४.३॥
वर्धमानसुराश्चर्यः शक्रतुल्यपराक्रमः ।
शारदेन्दुरिवाभाति लक्षणैः समलंकृतः ॥ ४४.४॥
आहर्ता सर्वयज्ञानां हयमेधादिकृत् तथा ।
दानैर्यज्ञैस्तपोभिश्च तत्तुल्यो नास्ति भूपतिः ॥ ४४.५॥
सुवर्णमणिमुक्तानां गजाश्वानां च भूपतिः ।
प्रददौ विप्रमुख्येभ्यो यागे यागे महाधनम् ॥ ४४.६॥
हस्त्यश्वरथमुख्यानां कम्बलाजिनवाससाम् ।
रत्नानां धनधान्यानामन्तस्तस्य न विद्यते ॥ ४४.७॥
एवं सर्वधनैर्युक्तो गुणैः सर्वैरलंकृतः ।
सर्वकामसमृद्धात्मा कुर्वन् राज्यमकण्टकम् ॥ ४४.८॥
तस्येयं मतिरुत्पन्ना सर्वयोगेश्वरं हरिम् ।
कथमाराधयिष्यामि भुक्तिमुक्तिप्रदं प्रभुम् ॥ ४४.९॥
विचार्य सर्वशास्त्राणि तन्त्राण्यागमविस्तरम् ।
इतिहासपुराणानि वेदाङ्गानि च सर्वशः ॥ ४४.१०॥
धर्मशास्त्राणि सर्वाणि नियमान् ऋषिभाषितान् ।
वेदाङ्गानि च शास्त्राणि विद्यास्थानानि यानि च ॥ ४४.११॥
गुरुं संसेव्य यत्नेन ब्राह्मणान् वेदपारगान् ।
आधाय परमां काष्ठां कृतकृत्योऽभवत् तदा ॥ ४४.१२॥
सम्प्राप्य परमं तत्त्वं वासुदेवाख्यमव्ययम् ।
भ्रान्तिज्ञानाद् अतीतस्तु मुमुक्षुः संयतेन्द्रियः ॥ ४४.१३॥
कथमाराधयिष्यामि देवदेवं सनातनम् ।
पीतवस्त्रं चतुर्बाहुं शङ्खचक्रगदाधरम् ॥ ४४.१४॥
वनमालावृतोरस्कं पद्मपत्त्रायतेक्षणम् ।
श्रीवत्सोरःसमायुक्तं मुकुटाङ्गदशोभितम् ॥ ४४.१५॥
स्वपुरात् स तु निष्क्रान्त उज्जयिन्याः प्रजापतिः ।
बलेन महता युक्तः सभृत्यः सपुरोहितः ॥ ४४.१६॥
अनुजग्मुस्तु तं सर्वे रथिनः शस्त्रपाणयः ।
रथैर्विमानसंकाशैः पताकाध्वजसेवितैः ॥ ४४.१७॥
सादिनश्च तथा सर्वे प्रासतोमरपाणयः ।
अश्वैः पवनसंकाशैरनुजग्मुस्तु तं नृपम् ॥ ४४.१८॥
हिमवत्सम्भवैर्मत्तैर्वारणैः पर्वतोपमैः ।
ईषादन्तैः सदा मत्तैः प्रचण्डैः षष्टिहायनैः ॥ ४४.१९॥
हेमकक्षैः सपताकैर्घण्टारवविभूषितैः ।
अनुजग्मुश्च तं सर्वे गजयुद्धविशारदाः ॥ ४४.२०॥
असंख्येयाश्च पादाता धनुष्प्रासासिपाणयः ।
दिव्यमाल्याम्बरधरा दिव्यगन्धानुलेपनाः ॥ ४४.२१॥
अनुजग्मुश्च तं सर्वे युवानो मृष्टकुण्डलाः ।
सर्वास्त्रकुशलाः शूराः सदा संग्रामलालसाः ॥ ४४.२२॥
अन्तःपुरनिवासिन्यः स्त्रियः सर्वाः स्वलंकृताः ।
बिम्बौष्ठचारुदशनाः सर्वाभरणभूषिताः ॥ ४४.२३॥
दिव्यवस्त्रधराः सर्वा दिव्यमाल्यविभूषिताः ।
दिव्यगन्धानुलिप्ताङ्गाः शरच्चन्द्रनिभाननाः ॥ ४४.२४॥
सुमध्यमाश्चारुवेषाश्चारुकर्णालकाञ्चिताः ।
ताम्बूलरञ्जितमुखा रक्षिभिश्च सुरक्षिताः ॥ ४४.२५॥
यानैरुच्चावचैः शुभ्रैर्मणिकाञ्चनभूषितैः ।
उपगीयमानास्ताः सर्वा गायनैः स्तुतिपाठकैः ॥ ४४.२६॥
वेष्टिताः शस्त्रहस्तैश्च पद्मपत्त्रायतेक्षणाः ।
ब्राह्मणाः क्षत्रिया वैश्या अनुजग्मुश्च तं नृपम् ॥ ४४.२७॥
वणिग्ग्रामगणाः सर्वे नानापुरनिवासिनः ।
धनै रत्नैः सुवर्णैश्च सदाराः सपरिच्छदाः ॥ ४४.२८॥
अस्त्रविक्रयकाश्चैव ताम्बूलपण्यजीविनः ।
तृणविक्रयकाश्चैव काष्ठविक्रयकारकाः ॥ ४४.२९॥
रङ्गोपजीविनः सर्वे मांसविक्रयिणस्तथा ।
तैलविक्रयकाश्चैव वस्त्रविक्रयकास्तथा ॥ ४४.३०॥