अध्याय 43, Verse 1
ब्रह्मोवाच ।
पुरा कृतयुगे विप्राः शक्रतुल्यपराक्रमः ।
बभूव नृपतिः श्रीमान् इन्द्रद्युम्न इति श्रुतः ॥ ४३.१॥
Containing 89 sacred Sanskrit shlokas with multi-author commentaries and translations.
ब्रह्मोवाच ।
पुरा कृतयुगे विप्राः शक्रतुल्यपराक्रमः ।
बभूव नृपतिः श्रीमान् इन्द्रद्युम्न इति श्रुतः ॥ ४३.१॥
सत्यवादी शुचिर्दक्षः सर्वशास्त्रविशारदः ।
रूपवान् सुभगः शूरो दाता भोक्ता प्रियंवदः ॥ ४३.२॥
यष्टा समस्तयज्ञानां ब्रह्मण्यः सत्यसंगरः ।
धनुर्वेदे च वेदे च शास्त्रे च निपुणः कृती ॥ ४३.३॥
वल्लभो नरनारीणां पौर्णमास्यां यथा शशी ।
आदित्य इव दुष्प्रेक्ष्यः शत्रुसंघभयंकरः ॥ ४३.४॥
वैष्णवः सत्त्वसम्पन्नो जितक्रोधो जितेन्द्रियः ।
अध्येता योगसांख्यानां मुमुक्षुर्धर्मतत्परः ॥ ४३.५॥
एवं स पालयन् पृथ्वीं राजा सर्वगुणाकरः ।
तस्य बुद्धिः समुत्पन्ना हरेराराधनं प्रति ॥ ४३.६॥
कथमाराधयिष्यामि देवदेवं जनार्दनम् ।
कस्मिन् क्षेत्रेऽथवा तीर्थे नदीतीरे तथाश्रमे ॥ ४३.७॥
एवं चिन्तापरः सोऽथ निरीक्ष्य मनसा महीम् ।
आलोक्य सर्वतीर्थानि क्षेत्राण्यथ पुराण्यपि ॥ ४३.८॥
तानि सर्वाणि संत्यज्य जगामायतनं पुनः ।
विख्यातं परमं क्षेत्रं मुक्तिदं पुरुषोत्तमम् ॥ ४३.९॥
स गत्वा तत् क्षेत्रवरं समृद्धबलवाहनः ।
अयजच्चाश्वमेधेन विधिवद् भूरिदक्षिणः ॥ ४३.१०॥
कारयित्वा महोत्सेधं प्रासादं चैव विश्रुतम् ।
तत्र संकर्षणं कृष्णं सुभद्रां स्थाप्य वीर्यवान् ॥ ४३.११॥
पञ्चतीर्थं च विधिवत् कृत्वा तत्र महीपतिः ।
स्नानं दानं तपो होमं देवताप्रेक्षणं तथा ॥ ४३.१२॥
भक्त्या चाराध्य विधिवत् प्रत्यहं पुरुषोत्तमम् ।
प्रसादाद् देवदेवस्य ततो मोक्षमवाप्तवान् ॥ ४३.१३॥
मार्कण्डेयं च कृष्णं च दृष्ट्वा रामं च भो द्विजाः ।
सागरे चेन्द्रद्युम्नाख्ये स्नात्वा मोक्षं लभेद् ध्रुवम् ॥ ४३.१४॥
मुनय ऊचुः ।
कस्मात् स नृपतिः पूर्वमिन्द्रद्युम्नो जगत्पतिः ।
जगाम परमं क्षेत्रं मुक्तिदं पुरुषोत्तमम् ॥ ४३.१५॥
गत्वा तत्र सुरश्रेष्ठ कथं स नृपसत्तमः ।
वाजिमेधेन विधिवद् इष्टवान् पुरुषोत्तमम् ॥ ४३.१६॥
कथं स सर्वफलदे क्षेत्रे परमदुर्लभे ।
प्रासादं कारयामास चेष्टं त्रैलोक्यविश्रुतम् ॥ ४३.१७॥
कथं स कृष्णं रामं च सुभद्रां च प्रजापते ।
निर्ममे राजशार्दूलः क्षेत्रं रक्षितवान् कथम् ॥ ४३.१८॥
कथं तत्र महीपालः प्रासादे भुवनोत्तमे ।
स्थापयामास मतिमान् कृष्णादींस्त्रिदशार्चितान् ॥ ४३.१९॥
एतत् सर्वं सुरश्रेष्ठ विस्तरेण यथातथम् ।
वक्तुमर्हस्यशेषेण चरितं तस्य धीमतः ॥ ४३.२०॥
न तृप्तिमधिगच्छामस्तव वाक्यामृतेन वै ।
श्रोतुमिच्छामहे ब्रह्मन् परं कौतूहलं हि नः ॥ ४३.२१॥
ब्रह्मोवाच ।
साधु साधु द्विजश्रेष्ठा यत् पृच्छध्वं पुरातनम् ।
सर्वपापहरं पुण्यं भुक्तिमुक्तिप्रदं शुभम् ॥ ४३.२२॥
वक्ष्यामि तस्य चरितं यथावृत्तं कृते युगे ।
शृणुध्वं मुनिशार्दूलाः प्रयताः संयतेन्द्रियाः ॥ ४३.२३॥
अवन्ती नाम नगरी मालवे भुवि विश्रुता ।
बभूव तस्य नृपतेः पृथिवी ककुदोपमा ॥ ४३.२४॥
हृष्टपुष्टजनाकीर्णा दृढप्राकारतोरणा ।
दृढयन्त्रार्गलद्वारा परिखाभिरलंकृता ॥ ४३.२५॥
नानावणिक्समाकीर्णा नानाभाण्डसुविक्रिया ।
रथ्यापणवती रम्या ।
सुविभक्तचतुष्पथा ॥ ४३.२६॥
गृहगोपुरसम्बाधा वीथीभिः समलंकृता ।
राजहंसनिभैः शुभ्रैश्चित्रग्रीवैर्मनोहरैः ॥ ४३.२७॥
अनेकशतसाहस्रैः प्रासादैः समलंकृता ।
यज्ञोत्सवप्रमुदिता गीतवादित्रनिस्वना ॥ ४३.२८॥
नानावर्णपताकाभिर्ध्वजैश्च समलंकृता ।
हस्त्यश्वरथसंकीर्णा पदातिगणसंकुला ॥ ४३.२९॥
नानायोधसमाकीर्णा नानाजनपदैर्युता ।
ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रैश्चैव द्विजातिभिः ॥ ४३.३०॥