अध्याय 42, Verse 1
ब्रह्मोवाच ।
विरजे विरजा माता ब्रह्माणी सम्प्रतिष्ठिता ।
यस्याः संदर्शनान् मर्त्यः पुनात्यासप्तमं कुलम् ॥ ४२.१॥
Containing 49 sacred Sanskrit shlokas with multi-author commentaries and translations.
ब्रह्मोवाच ।
विरजे विरजा माता ब्रह्माणी सम्प्रतिष्ठिता ।
यस्याः संदर्शनान् मर्त्यः पुनात्यासप्तमं कुलम् ॥ ४२.१॥
सकृद् दृष्ट्वा तु तां देवीं भक्त्यापूज्य प्रणम्य च ।
नरः स्ववंशमुद्धृत्य मम लोकं स गच्छति ॥ ४२.२॥
अन्याश्च तत्र तिष्ठन्ति विरजे लोकमातरः ।
सर्वपापहरा देव्यो वरदा भक्तिवत्सलाः ॥ ४२.३॥
आस्ते वैतरणी तत्र सर्वपापहरा नदी ।
यस्यां स्नात्वा नरश्रेष्ठः सर्वपापैः प्रमुच्यते ॥ ४२.४॥
आस्ते स्वयम्भूस्तत्रैव क्रोडरूपी हरिः स्वयम् ।
दृष्ट्वा प्रणम्य तं भक्त्या परं विष्णुं व्रजन्ति ते ॥ ४२.५॥
कापिले गोग्रहे सोमे तीर्थे चालाबुसंज्ञिते ।
मृत्युंजये क्रोडतीर्थे वासुके सिद्धकेश्वरे ॥ ४२.६॥
तीर्थेष्वेतेषु मतिमान् विरजे संयतेन्द्रियः ।
गत्वाष्टतीर्थं विधिवत् स्नात्वा देवान् प्रणम्य च ॥ ४२.७॥
सर्वपापविनिर्मुक्तो विमानवरमास्थितः ।
उपगीयमानो गन्धर्वैर्मम लोके महीयते ॥ ४२.८॥
विरजे यो मम क्षेत्रे पिण्डदानं करोति वै ।
स करोत्यक्षयां तृप्तिं पितृणां नात्र संशयः ॥ ४२.९॥
मम क्षेत्रे मुनिश्रेष्ठा विरजे ये कलेवरम् ।
परित्यजन्ति पुरुषास्ते मोक्षं प्राप्नुवन्ति वै ॥ ४२.१०॥
स्नात्वा यः सागरे मर्त्यो दृष्ट्वा च कपिलं हरिम् ।
पश्येद् देवीं च वाराहीं स याति त्रिदशालयम् ॥ ४२.११॥
सन्ति चान्यानि तीर्थानि पुण्यान्यायतनानि च ।
तत्काले तु मुनिश्रेष्ठा वेदितव्यानि तानि वै ॥ ४२.१२॥
समुद्रस्योत्तरे तीरे तस्मिन् देशे द्विजोत्तमाः ।
आस्ते गुह्यं परं क्षेत्रं मुक्तिदं पापनाशनम् ॥ ४२.१३॥
सर्वत्र वालुकाकीर्णं पवित्रं सर्वकामदम् ।
दशयोजनविस्तीर्णं क्षेत्रं परमदुर्लभम् ॥ ४२.१४॥
अशोकार्जुनपुंनागैर्बकुलैः सरलद्रुमैः ।
पनसैर्नारिकेलैश्च शालैस्तालैः कपित्थकैः ॥ ४२.१५॥
चम्पकैः कर्णिकारैश्च चूतबिल्वैः सपाटलैः ।
कदम्बैः कोविदारैश्च लकुचैर्नागकेसरैः ॥ ४२.१६॥
प्राचीनामलकैर्लोध्रैर्नारङ्गैर्धवखादिरैः ।
सर्जभूर्जाश्वकर्णैश्च तमालैर्देवदारुभिः ॥ ४२.१७॥
मन्दारैः पारिजातैश्च न्यग्रोधागुरुचन्दनैः ।
खर्जूराम्रातकैः सिद्धैर्मुचुकुन्दैः सकिंशुकैः ॥ ४२.१८॥
अश्वत्थैः सप्तपर्णैश्च मधुधारशुभाञ्जनैः ।
शिंशपामलकैर्नीपैर्निम्बतिन्दुविभीतकैः ॥ ४२.१९॥
सर्वर्तुफलगन्धाढ्यैः सर्वर्तुकुसुमोज्ज्वलैः ।
मनोह्लादकरैः शुभ्रैर्नानाविहगनादितैः ॥ ४२.२०॥
श्रोत्ररम्यैः सुमधुरैर्बलनिर्मदनेरितैः ।
मनसः प्रीतिजनकैः शब्दैः खगमुखेरितैः ॥ ४२.२१॥
चकोरैः शतपत्त्रैश्च भृङ्गराजैस्तथा शुकैः ।
कोकिलैः कलविङ्कैश्च हारीतैर्जीवजीवकैः ॥ ४२.२२॥
प्रियपुत्रैश्चातकैश्च तथान्यैर्मधुरस्वरैः ।
श्रोत्ररम्यैः प्रियकरैः कूजद्भिश्चार्वधिष्ठितैः ॥ ४२.२३॥
केतकीवनखण्डैश्च अतिमुक्तैः सकुब्जकैः ।
मालतीकुन्दबाणैश्च करवीरैः सितेतरैः ॥ ४२.२४॥
जम्बीरकरुणाङ्कोलैर्दाडिमैर्बीजपूरकैः ।
मातुलुङ्गैः पूगफलैर्हिन्तालैः कदलीवनैः ॥ ४२.२५॥
अन्यैश्च विविधैर्वृक्षैः पुष्पैश्चान्यैर्मनोहरैः ।
लतावितानगुल्मैश्च विविधैश्च जलाशयैः ॥ ४२.२६॥
दीर्घिकाभिस्तडागैश्च पुष्करिणीभिश्च वापिभिः ।
नानाजलाशयैः पुण्यैः पद्मिनीखण्डमण्डितैः ॥ ४२.२७॥
सरांसि च मनोज्ञानि प्रसन्नसलिलानि च ।
कुमुदैः पुण्डरीकैश्च तथा नीलोत्पलैः शुभैः ॥ ४२.२८॥
कह्लारैः कमलैश्चापि आचितानि समन्ततः ।
कादम्बैश्चक्रवाकैश्च तथैव जलकुक्कुटैः ॥ ४२.२९॥
कारण्डवैः प्लवैर्हंसैः कूर्मैर्मत्स्यैश्च मद्गुभिः ।
दात्यूहसारसाकीर्णैः कोयष्टिबकशोभितैः ॥ ४२.३०॥