अध्याय 41, Verse 1
लोमहर्षण उवाच ।
श्रुत्वैवं वै मुनिश्रेष्ठाः कथां रुद्रक्रोधोद्भवां पुण्यां व्यासस्य वदतो द्विजाः ॥ ४१.१॥
Containing 93 sacred Sanskrit shlokas with multi-author commentaries and translations.
लोमहर्षण उवाच ।
श्रुत्वैवं वै मुनिश्रेष्ठाः कथां रुद्रक्रोधोद्भवां पुण्यां व्यासस्य वदतो द्विजाः ॥ ४१.१॥
पार्वत्याश्च तथा रोषं क्रोधं शम्भोश्च दुःसहम् ।
उत्पत्तिं वीरभद्रस्य भद्रकाल्याश्च सम्भवम् ॥ ४१.२॥
दक्षयज्ञविनाशं च वीर्यं शम्भोस्तथाद्भुतम् ।
पुनः प्रसादं देवस्य दक्षस्य सुमहात्मनः ॥ ४१.३॥
यज्ञभागं च रुद्रस्य दक्षस्य च फलं क्रतोः ।
हृष्टा बभूवुः सम्प्रीता विस्मिताश्च पुनः पुनः ॥ ४१.४॥
पप्रच्छुश्च पुनर्व्यासं कथाशेषं तथा द्विजाः ।
पृष्टः प्रोवाच तान् व्यासः क्षेत्रमेकाम्रकं पुनः ॥ ४१.५॥
व्यास उवाच ।
ब्रह्मप्रोक्तां कथां पुण्यां श्रुत्वा तु ऋषिपुंगवाः ।
प्रशशंसुस्तदा हृष्टा रोमाञ्चिततनूरुहाः ॥ ४१.६॥
ऋषय ऊचुः ।
अहो देवस्य माहात्म्यं त्वया शम्भोः प्रकीर्तितम् ।
दक्षस्य च सुरश्रेष्ठ यज्ञविध्वंसनं तथा ॥ ४१.७॥
एकाम्रकं क्षेत्रवरं वक्तुमर्हसि साम्प्रतम् ।
श्रोतुमिच्छामहे ब्रह्मन् परं कौतूहलं हि नः ॥ ४१.८॥
व्यास उवाच ।
तेषां तद् वचनं श्रुत्वा लोकनाथश्चतुर्मुखः ।
प्रोवाच शम्भोस्तत् क्षेत्रं भूतले दुष्कृतच्छदम् ॥ ४१.९॥
ब्रह्मोवाच ।
शृणुध्वं मुनिशार्दूलाः प्रवक्ष्यामि समासतः ।
सर्वपापहरं पुण्यं क्षेत्रं परमदुर्लभम् ॥ ४१.१०॥
लिङ्गकोटिसमायुक्तं वाराणसीसमं शुभम् ।
एकाम्रकेति विख्यातं तीर्थाष्टकसमन्वितम् ॥ ४१.११॥
एकाम्रवृक्षस्तत्रासीत् पुरा कल्पे द्विजोत्तमाः ।
नाम्ना तस्यैव तत् क्षेत्रमेकाम्रकमिति श्रुतम् ॥ ४१.१२॥
हृष्टपुष्टजनाकीर्णं नरनारीसमन्वितम् ।
विद्वांसगण भूयिष्ठं धनधान्यादिसंयुतम् ॥ ४१.१३॥
गृहगोपुरसम्बाधं त्रिकचाद्वारभूषितम् ।
नानावणिक्समाकीर्णं नानारत्नोपशोभितम् ॥ ४१.१४॥
पुराट्टालकसंयुक्तं रथिभिः समलंकृतम् ।
राजहंसनिभैः शुभ्रैः प्रासादैरुपशोभितम् ॥ ४१.१५॥
मार्गगद्वारसंयुक्तं सितप्राकारशोभितम् ।
रक्षितं शस्त्रसंघैश्च परिखाभिरलंकृतम् ॥ ४१.१६॥
सितरक्तैस्तथा पीतैः कृष्णश्यामैश्च वर्णकैः ।
समीरणोद्धताभिश्च पताकाभिरलंकृतम् ॥ ४१.१७॥
नित्योत्सवप्रमुदितं नानावादित्रनिस्वनैः ।
वीणावेणुमृदङ्गैश्च क्षेपणीभिरलंकृतम् ॥ ४१.१८॥
देवतायतनैर्दिव्यैः प्राकारोद्यानमण्डितैः ।
पूजाविचित्ररचितैः सर्वत्र समलंकृतम् ॥ ४१.१९॥
स्त्रियः प्रमुदितास्तत्र दृश्यन्ते तनुमध्यमाः ।
हारैरलंकृतग्रीवाः पद्मपत्त्रायतेक्षणाः ॥ ४१.२०॥
पीनोन्नतकुचाः श्यामाः पूर्णचन्द्रनिभाननाः ।
स्थिरालकाः सुकपोलाः काञ्चीनूपुरनादिताः ॥ ४१.२१॥
सुकेश्यश्चारुजघनाः कर्णान्तायतलोचनाः ।
सर्वलक्षणसम्पन्नाः सर्वाभरणभूषिताः ॥ ४१.२२॥
दिव्यवस्त्रधराः शुभ्राः काश्चित् काञ्चनसंनिभाः ।
हंसवारणगामिन्यः कुचभारावनामिताः ॥ ४१.२३॥
दिव्यगन्धानुलिप्ताङ्गाः कर्णाभरणभूषिताः ।
मदालसाश्च सुश्रोण्यो नित्यं प्रहसिताननाः ॥ ४१.२४॥
ईषद्विस्पष्टदशना बिम्बौष्ठा मधुरस्वराः ।
ताम्बूलरञ्जितमुखा विदग्धाः प्रियदर्शनाः ॥ ४१.२५॥
सुभगाः प्रियवादिन्यो नित्यं यौवनगर्विताः ।
दिव्यवस्त्रधराः सर्वाः सदा चारित्रमण्डिताः ॥ ४१.२६॥
क्रीडन्ति ताः सदा तत्र स्त्रियश्चाप्सरसोपमाः ।
स्वे स्वे गृहे प्रमुदिता दिवा रात्रौ वराननाः ॥ ४१.२७॥
पुरुषास्तत्र दृश्यन्ते रूपयौवनगर्विताः ।
सर्वलक्षणसम्पन्नाः सुमृष्टमणिकुण्डलाः ॥ ४१.२८॥
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्च मुनिसत्तमाः ।
स्वधर्मनिरतास्तत्र निवसन्ति सुधार्मिकाः ॥ ४१.२९॥
अन्याश्च तत्र तिष्ठन्ति वारमुख्याः सुलोचनाः ।
घृताचीमेनकातुल्यास्तथा समतिलोत्तमाः ॥ ४१.३०॥