अध्याय 40, Verse 1
ब्रह्मोवाच ।
एवं दृष्ट्वा तदा दक्षः शम्भोर्वीर्यं द्विजोत्तमाः ।
प्राञ्जलिः प्रणतो भूत्वा संस्तोतुमुपचक्रमे ॥ ४०.१॥
Containing 137 sacred Sanskrit shlokas with multi-author commentaries and translations.
ब्रह्मोवाच ।
एवं दृष्ट्वा तदा दक्षः शम्भोर्वीर्यं द्विजोत्तमाः ।
प्राञ्जलिः प्रणतो भूत्वा संस्तोतुमुपचक्रमे ॥ ४०.१॥
दक्ष उवाच ।
नमस्ते देवदेवेश नमस्तेऽन्धकसूदन ।
देवेन्द्र त्वं बलश्रेष्ठ देवदानवपूजित ॥ ४०.२॥
सहस्राक्ष विरूपाक्ष त्र्यक्ष यक्षाधिपप्रिय ।
सर्वतःपाणिपादस्त्वं सर्वतोक्षिशिरोमुखः ॥ ४०.३॥
सर्वतःश्रुतिमांल्लोके सर्वमावृत्य तिष्ठसि ।
शङ्कुकर्णो महाकर्णः कुम्भकर्णोऽर्णवालयः ॥ ४०.४॥
गजेन्द्रकर्णो गोकर्णः शतकर्णो नमोऽस्तु ते ।
शतोदरः शतावर्तः शतजिह्वः सनातनः ॥ ४०.५॥
गायन्ति त्वां गायत्रिणो अर्चयन्त्यर्कमर्किणः ।
देवदानवगोप्ता च ब्रह्मा च त्वं शतक्रतुः ॥ ४०.६॥
मूर्तिमांस्त्वं महामूर्तिः समुद्रः सरसां निधिः ।
त्वयि सर्वा देवता हि गावो गोष्ठ इवासते ॥ ४०.७॥
त्वत्तः शरीरे पश्यामि सोममग्निजलेश्वरम् ।
आदित्यमथ विष्णुं च ब्रह्माणं सबृहस्पतिम् ॥ ४०.८॥
क्रिया करणकार्ये च कर्ता कारणमेव च ।
असच्च सदसच्चैव तथैव प्रभवाव्ययौ ॥ ४०.९॥
नमो भवाय शर्वाय रुद्राय वरदाय च ।
पशूनां पतये चैव नमोऽस्त्वन्धकघातिने ॥ ४०.१०॥
त्रिजटाय त्रिशीर्षाय त्रिशूलवरधारिणे ।
त्र्यम्बकाय त्रिनेत्राय त्रिपुरघ्नाय वै नमः ॥ ४०.११॥
नमश्चण्डाय मुण्डाय विश्वचण्डधराय च ।
दण्डिने शङ्कुकर्णाय दण्डिदण्डाय वै नमः ॥ ४०.१२॥
नमोऽर्धदण्डिकेशाय शुष्काय विकृताय च ।
विलोहिताय धूम्राय नीलग्रीवाय वै नमः ॥ ४०.१३॥
नमोऽस्त्वप्रतिरूपाय विरूपाय शिवाय च ।
सूर्याय सूर्यपतये सूर्यध्वजपताकिने ॥ ४०.१४॥
नमः प्रमथनाशाय वृषस्कन्धाय वै नमः ।
नमो हिरण्यगर्भाय हिरण्यकवचाय च ॥ ४०.१५॥
हिरण्यकृतचूडाय हिरण्यपतये नमः ।
शत्रुघाताय चण्डाय पर्णसंघशयाय च ॥ ४०.१६॥
नमः स्तुताय स्तुतये स्तूयमानाय वै नमः ।
सर्वाय सर्वभक्षाय सर्वभूतान्तरात्मने ॥ ४०.१७॥
नमो होमाय मन्त्राय शुक्लध्वजपताकिने ।
नमोऽनम्याय नम्याय नमः किलकिलाय च ॥ ४०.१८॥
नमस्त्वां शयमानाय शयितायोत्थिताय च ।
स्थिताय धावमानाय कुब्जाय कुटिलाय च ॥ ४०.१९॥
नमो नर्तनशीलाय मुखवादित्रकारिणे ।
बाधापहाय लुब्धाय गीतवादित्रकारिणे ॥ ४०.२०॥
नमो ज्येष्ठाय श्रेष्ठाय बलप्रमथनाय च ।
उग्राय च नमो नित्यं नमश्च दशबाहवे ॥ ४०.२१॥
नमः कपालहस्ताय सितभस्मप्रियाय च ।
विभीषणाय भीमाय भीष्मव्रतधराय च ॥ ४०.२२॥
नानाविकृतवक्त्राय खड्गजिह्वोग्रदंष्ट्रिणे ।
पक्षमासलवार्धाय तुम्बीवीणाप्रियाय च ॥ ४०.२३॥
अघोरघोररूपाय घोराघोरतराय च ।
नमः शिवाय शान्ताय नमः शान्ततमाय च ॥ ४०.२४॥
नमो बुद्धाय शुद्धाय संविभागप्रियाय च ।
पवनाय पतंगाय नमः सांख्यपराय च ॥ ४०.२५॥
नमश्चण्डैकघण्टाय घण्टाजल्पाय घण्टिने ।
सहस्रशतघण्टाय घण्टामालाप्रियाय च ॥ ४०.२६॥
प्राणदण्डाय नित्याय नमस्ते लोहिताय च ।
हूंहूंकाराय रुद्राय भगाकारप्रियाय च ॥ ४०.२७॥
नमोऽपारवते नित्यं गिरिवृक्षप्रियाय च ।
नमो यज्ञाधिपतये भूताय प्रसुताय च ॥ ४०.२८॥
यज्ञवाहाय दान्ताय तप्याय च भगाय च ।
नमस्तटाय तट्याय तटिनीपतये नमः ॥ ४०.२९॥
अन्नदायान्नपतये नमस्त्वन्नभुजाय च ।
नमः सहस्रशीर्षाय सहस्रचरणाय च ॥ ४०.३०॥