अध्याय 4, Verse 1
लोमहर्षण उवाच ।
अभिषिच्याधिराजेन्द्रं पृथुं ततः क्रमेण राज्यानि व्यादेष्टुमुपचक्रमे ॥ ४.१॥
Containing 122 sacred Sanskrit shlokas with multi-author commentaries and translations.
लोमहर्षण उवाच ।
अभिषिच्याधिराजेन्द्रं पृथुं ततः क्रमेण राज्यानि व्यादेष्टुमुपचक्रमे ॥ ४.१॥
द्विजानां वीरुधां चैव नक्षत्रग्रहयोस्तथा ।
यज्ञानां तपसां चैव सोमं राज्येऽभ्यषेचयत् ॥ ४.२॥
अपां तु वरुणं राज्ये राज्ञां वैश्रवणं पतिम् ।
आदित्यानां तथा विष्णुं वसूनामथ पावकम् ॥ ४.३॥
प्रजापतीनां दक्षं तु मरुतामथ वासवम् ।
दैत्यानां दानवानां वै प्रह्रादममितौजसम् ॥ ४.४॥
वैवस्वतं पितृणां च यमं राज्येऽभ्यषेचयत् ।
यक्षाणां राक्षसानां च पार्थिवानां तथैव च ॥ ४.५॥
सर्वभूतपिशाचानां गिरीशं शूलपाणिनम् ।
शैलानां हिमवन्तं च नदीनामथ सागरम् ॥ ४.६॥
गन्धर्वाणामधिपतिं चक्रे चित्ररथं प्रभुम् ।
नागानां वासुकिं चक्रे सर्पाणामथ तक्षकम् ॥ ४.७॥
वारणानां तु राजानमैरावतमथादिशत् ।
उच्चैःश्रवसमश्वानां गरुडं चैव पक्षिणाम् ॥ ४.८॥
मृगाणामथ शार्दूलं गोवृषं तु गवां पतिम् ।
वनस्पतीनां राजानं प्लक्षमेवाभ्यषेचयत् ॥ ४.९॥
एवं विभज्य राज्यानि क्रमेणैव पितामहः ।
दिशां पालान् अथ ततः स्थापयामास स प्रभुः ॥ ४.१०॥
पूर्वस्यां दिशि पुत्रं तु वैराजस्य प्रजापतेः ।
दिशः पालं सुधन्वानं राजानं सोऽभ्यषेचयत् ॥ ४.११॥
दक्षिणस्यां दिशि तथा कर्दमस्य प्रजापतेः ।
पुत्रं शङ्खपदं नाम राजानं सोऽभ्यषेचयत् ॥ ४.१२॥
पश्चिमस्यां दिशि तथा रजसः पुत्रमच्युतम् ।
केतुमन्तं महात्मानं राजानं सोऽभ्यषेचयत् ॥ ४.१३॥
तथा हिरण्यरोमाणं पर्जन्यस्य प्रजापतेः ।
उदीच्यां दिशि दुर्धर्षं राजानं सोऽभ्यषेचयत् ॥ ४.१४॥
तैरियं पृथिवी सर्वा सप्तद्वीपा सपत्तना ।
यथाप्रदेशमद्यापि धर्मेण प्रतिपाल्यते ॥ ४.१५॥
राजसूयाभिषिक्तस्तु पृथुरेतैर्नराधिपैः ।
वेददृष्टेन विधिना राजा राज्ये नराधिपः ॥ ४.१६॥
ततो मन्वन्तरेऽतीते चाक्षुषेऽमिततेजसि ।
वैवस्वताय मनवे पृथिव्यां राज्यमादिशत् ॥ ४.१७॥
तस्य विस्तरमाख्यास्ये मनोर्वैवस्वतस्य ह ।
भवतां चानुकूल्याय यदि श्रोतुमिहेच्छथ ।
महद् एतद् अधिष्ठानं पुराणे तद् अधिष्ठितम् ॥ ४.१८॥
मुनय ऊचुः ।
विस्तरेण पृथोर्जन्म लोमहर्षण कीर्तय ।
यथा महात्मना तेन दुग्धा वेयं वसुंधरा ॥ ४.१९॥
यथा वापि नृभिर्दुग्धा यथा देवैर्महर्षिभिः ।
यथा दैत्यैश्च नागैश्च यथा यक्षैर्यथा द्रुमैः ॥ ४.२०॥
यथा शैलैः पिशाचैश्च गन्धर्वैश्च द्विजोत्तमैः ।
राक्षसैश्च महासत्त्वैर्यथा दुग्धा वसुंधरा ॥ ४.२१॥
तेषां पात्रविशेषांश्च वक्तुमर्हसि सुव्रत ।
वत्सक्षीरविशेषांश्च दोग्धारं चानुपूर्वशः ॥ ४.२२॥
यस्माच्च कारणात् पाणिर्वेणस्य मथितः पुरा ।
क्रुद्धैर्महर्षिभिस्तात कारणं तच्च कीर्तय ॥ ४.२३॥
लोमहर्षण उवाच ।
शृणुध्वं कीर्तयिष्यामि एकाग्राः प्रयताश्चैव पुण्यार्थं वै द्विजर्षभाः ॥ ४.२४॥
नाशुचेः क्षुद्रमनसो नाशिष्यस्याव्रतस्य च ।
कीर्तयेयमिदं विप्राः कृतघ्नायाहिताय च ॥ ४.२५॥
स्वर्ग्यं यशस्यमायुष्यं धन्यं वेदैश्च सम्मितम् ।
रहस्यम् ऋषिभिः प्रोक्तं शृणुध्वं वै यथातथम् ॥ ४.२६॥
यश्चेमं कीर्तयेन् नित्यं पृथोर्वैण्यस्य विस्तरम् ।
ब्राह्मणेभ्यो नमस्कृत्य न स शोचेत् कृताकृतम् ॥ ४.२७॥
आसीद् धर्मस्य संगोप्ता पूर्वमत्रिसमः प्रभुः ।
अत्रिवंशे समुत्पन्नस्त्वङ्गो नाम प्रजापतिः ॥ ४.२८॥
तस्य पुत्रोऽभवद् वेणो नात्यर्थं धर्मकोविदः ।
जातो मृत्युसुतायां वै सुनीथायां प्रजापतिः ॥ ४.२९॥
स मातामहदोषेण तेन कालात्मजात्मजः ।
स्वधर्मं पृष्ठतः कृत्वा कामलोभेष्ववर्तत ॥ ४.३०॥