अध्याय 39, Verse 1
ऋषय ऊचुः ।
प्राचेतसस्य दक्षस्य कथं वैवस्वतेऽन्तरे ।
विनाशमगमद् ब्रह्मन् हयमेधः प्रजापतेः ॥ ३९.१॥
Containing 97 sacred Sanskrit shlokas with multi-author commentaries and translations.
ऋषय ऊचुः ।
प्राचेतसस्य दक्षस्य कथं वैवस्वतेऽन्तरे ।
विनाशमगमद् ब्रह्मन् हयमेधः प्रजापतेः ॥ ३९.१॥
देव्या मन्युकृतं बुद्ध्वा क्रुद्धः सर्वात्मकः प्रभुः ।
कथं विनाशितो यज्ञो दक्षस्यामिततेजसः ।
महादेवेन रोषाद् वै तन् नः प्रब्रूहि विस्तरात् ॥ ३९.२॥
ब्रह्मोवाच ।
वर्णयिष्यामि वो विप्रा महादेवेन वै यथा ।
क्रोधाद् विध्वंसितो यज्ञो देव्याः प्रियचिकीर्षया ॥ ३९.३॥
पुरा मेरोर्द्विजश्रेष्ठाः शृङ्गं त्रैलोक्यपूजितम् ।
ज्योतिःस्थलं नाम चित्रं सर्वरत्नविभूषितम् ॥ ३९.४॥
अप्रमेयमनाधृष्यं सर्वलोकनमस्कृतम् ।
तत्र देवो गिरितटे सर्वधातुविचित्रिते ॥ ३९.५॥
पर्यङ्क इव विस्तीर्ण उपविष्टो बभूव ह ।
शैलराजसुता चास्य नित्यं पार्श्वस्थिताभवत् ॥ ३९.६॥
आदित्याश्च महात्मानो वसवश्च महौजसः ।
तथैव च महात्मानावश्विनौ भिषजां वरौ ॥ ३९.७॥
तथा वैश्रवणो राजा गुह्यकैः परिवारितः ।
यक्षाणामीश्वरः श्रीमान् कैलासनिलयः प्रभुः ॥ ३९.८॥
उपासते महात्मानमुशना च महामुनिः ।
सनत्कुमारप्रमुखास्तथैव परमर्षयः ॥ ३९.९॥
अङ्गिरःप्रमुखाश्चैव तथा देवर्षयोऽपि च ।
विश्वावसुश्च गन्धर्वस्तथा नारदपर्वतौ ॥ ३९.१०॥
अप्सरोगणसंघाश्च समाजग्मुरनेकशः ।
ववौ सुखशिवो वायुर्नानागन्धवहः शुचिः ॥ ३९.११॥
सर्वर्तुकुसुमोपेतः पुष्पवन्तोऽभवन् द्रुमाः ।
तथा विद्याधराः साध्याः सिद्धाश्चैव तपोधनाः ॥ ३९.१२॥
महादेवं पशुपतिं पर्युपासत तत्र वै ।
भूतानि च तथान्यानि नानारूपधराण्यथ ॥ ३९.१३॥
राक्षसाश्च महारौद्राः पिशाचाश्च महाबलाः ।
बहुरूपधरा धृष्टा नानाप्रहरणायुधाः ॥ ३९.१४॥
देवस्यानुचरास्तत्र तस्थुर्वैश्वानरोपमाः ।
नन्दीश्वरश्च भगवान् देवस्यानुमते स्थितः ॥ ३९.१५॥
प्रगृह्य ज्वलितं शूलं दीप्यमानं स्वतेजसा ।
गङ्गा च सरितां श्रेष्ठा सर्वतीर्थजलोद्भवा ॥ ३९.१६॥
पर्युपासत तं देवं रूपिणी द्विजसत्तमाः ।
एवं स भगवांस्तत्र पूज्यमानः सुरर्षिभिः ॥ ३९.१७॥
देवैश्च सुमहाभागैर्महादेवो व्यतिष्ठत ।
कस्यचित् त्वथ कालस्य दक्षो नाम प्रजापतिः ॥ ३९.१८॥
पूर्वोक्तेन विधानेन यक्ष्यमाणोऽभ्यपद्यत ।
ततस्तस्य मखे देवाः सर्वे शक्रपुरोगमाः ॥ ३९.१९॥
स्वर्गस्थानाद् अथागम्य दक्षमापेदिरे तथा ।
ते विमानैर्महात्मानो ज्वलद्भिर्ज्वलनप्रभाः ॥ ३९.२०॥
देवस्यानुमतेऽगच्छन् गङ्गाद्वारमिति श्रुतिः ।
गन्धर्वाप्सरसाकीर्णं नानाद्रुमलतावृतम् ॥ ३९.२१॥
ऋषिसिद्धैः परिवृतं दक्षं धर्मभृतां वरम् ।
पृथिव्यामन्तरिक्षे च ये च स्वर्लोकवासिनः ॥ ३९.२२॥
सर्वे प्राञ्जलयो भूत्वा उपतस्थुः प्रजापतिम् ।
आदित्या वसवो रुद्राः साध्याः सर्वे मरुद्गणाः ॥ ३९.२३॥
विष्णुना सहिताः सर्व आगता यज्ञभागिनः ।
ऊष्मपा धूमपाश्चैव आज्यपाः सोमपास्तथा ॥ ३९.२४॥
अश्विनौ मरुतश्चैव नानादेवगणैः सह ।
एते चान्ये च बहवो भूतग्रामास्तथैव च ॥ ३९.२५॥
जरायुजाण्डजाश्चैव तथैव स्वेदजोद्भिदः ।
आगताः सत्त्रिणः सर्वे देवाः स्त्रीभिः सहर्षिभिः ॥ ३९.२६॥
विराजन्ते विमानस्था दीप्यमाना इवाग्नयः ।
तान् दृष्ट्वा मन्युनाविष्टो दधीचिर्वाक्यमब्रवीत् ॥ ३९.२७॥
दधीचिरुवाच ।
अपूज्यपूजने चैव पूज्यानां चाप्यपूजने ।
नरः पापमवाप्नोति महद् वै नात्र संशयः ॥ ३९.२८॥
ब्रह्मोवाच ।
एवमुक्त्वा तु विप्रर्षिः पुनर्दक्षमभाषत ॥ ३९.२९॥
दधीचिरुवाच ।
पूज्यं च पशुभर्तारं कस्मान्