अध्याय 38, Verse 1
ब्रह्मोवाच ।
प्रविष्टे भवनं देवे सूपविष्टे वरासने ।
स वक्रो मन्मथः क्रूरो देवं वेद्धुमना भवत् ॥ ३८.१॥
Containing 40 sacred Sanskrit shlokas with multi-author commentaries and translations.
ब्रह्मोवाच ।
प्रविष्टे भवनं देवे सूपविष्टे वरासने ।
स वक्रो मन्मथः क्रूरो देवं वेद्धुमना भवत् ॥ ३८.१॥
तमनाचारसंयुक्तं दुरात्मानं कुलाधमम् ।
लोकान् सर्वान् पीडयन्तं सर्वाङ्गावरणात्मकम् ॥ ३८.२॥
ऋषीणां विघ्नकर्तारं नियमानां व्रतैः सह ।
चक्राह्वयस्य रूपेण रत्या सह समागतम् ॥ ३८.३॥
अथाततायिनं विप्रा वेद्धुकामं सुरेश्वरः ।
नयनेन तृतीयेन सावज्ञं समवैक्षत ॥ ३८.४॥
ततोऽस्य नेत्रजो वह्निर्ज्वालामालासहस्रवान् ।
सहसा रतिभर्तारमदहत् सपरिच्छदम् ॥ ३८.५॥
स दह्यमानः करुणमार्तोऽक्रोशत विस्वरम् ।
प्रसादयंश्च तं देवं पपात धरणीतले ॥ ३८.६॥
अथ सोऽग्निपरीताङ्गो मन्मथो लोकतापनः ।
पपात सहसा मूर्छां क्षणेन समपद्यत ॥ ३८.७॥
पत्नी तु करुणं तस्य विललाप सुदुःखिता ।
देवीं देवं च दुःखार्ता अयाचत् करुणावती ॥ ३८.८॥
तस्याश्च करुणां ज्ञात्वा देवौ तौ करुणात्मकौ ।
ऊचतुस्तां समालोक्य समाश्वास्य च दुःखिताम् ॥ ३८.९॥
उमामहेश्वरावूचतुः ।
दग्ध एव ध्रुवं भद्रे नास्योत्पत्तिरिहेष्यते ।
अशरीरोऽपि ते भद्रे कार्यं सर्वं करिष्यति ॥ ३८.१०॥
यदा तु विष्णुर्भगवान् वसुदेवसुतः शुभे ।
तदा तस्य सुतो यश्च पतिस्ते सम्भविष्यति ॥ ३८.११॥
ब्रह्मोवाच ।
ततः सा तु वरं लब्ध्वा कामपत्नी शुभानना ।
जगामेष्टं तदा देशं प्रीतियुक्ता गतक्लमा ॥ ३८.१२॥
दग्ध्वा कामं ततो विप्राः स तु देवो वृषध्वजः ।
रेमे तत्रोमया सार्धं प्रहृष्टस्तु हिमाचले ॥ ३८.१३॥
कन्दरेषु च रम्येषु पद्मिनीषु गुहासु च ।
निर्झरेषु च रम्येषु कर्णिकारवनेषु च ॥ ३८.१४॥
नदीतीरेषु कान्तेषु किंनराचरितेषु च ।
शृङ्गेषु शैलराजस्य तडागेषु सरःसु च ॥ ३८.१५॥
वनराजिषु रम्यासु नानापक्षिरुतेषु च ।
तीर्थेषु पुण्यतोयेषु मुनीनामाश्रमेषु च ॥ ३८.१६॥
एतेषु पुण्येषु मनोहरेषु ।
देशेषु विद्याधरभूषितेषु ।
गन्धर्वयक्षामरसेवितेषु ।
रेमे स देव्या सहितस्त्रिनेत्रः ॥ ३८.१७॥
देवैः सहेन्द्रैर्मुनियक्षसिद्धैर् ।
गन्धर्वविद्याधरदैत्यमुख्यैः ।
अन्यैश्च सर्वैर्विविधैर्वृतोऽसौ ।
तस्मिन् नगे हर्षमवाप शम्भुः ॥ ३८.१८॥
नृत्यन्ति तत्राप्सरसः सुरेशा ।
गायन्ति गन्धर्वगणाः प्रहृष्टाः ।
दिव्यानि वाद्यान्यथ वादयन्ति ।
केचिद् द्रुतं देववरं स्तुवन्ति ॥ ३८.१९॥
एवं स देवः स्वगणैरुपेतो ।
महाबलैः शक्रयमाग्नितुल्यैः ।
देव्याः प्रियार्थं भगनेत्रहन्ता ।
गिरिं न तत्याज तदा महात्मा ॥ ३८.२०॥
ऋषय ऊचुः ।
देव्याः समं तु भगवांस्तिष्ठंस्तत्र स कामहा ।
अकरोत् किं महादेव एतद् इच्छाम वेदितुम् ॥ ३८.२१॥
ब्रह्मोवाच ।
भगवान् हिमवच्छृङ्गे स हि देव्याः प्रियेच्छया ।
गणेशैर्विविधाकारैर्हासं संजनयन् मुहुः ॥ ३८.२२॥
देवीं बालेन्दुतिलको रमयंश्च रराम च ।
महानुभावैः सर्वज्ञैः कामरूपधरैः शुभैः ॥ ३८.२३॥
अथ देव्याससादैका मातरं परमेश्वरी ।
आसीनां काञ्चने शुभ्र आसने परमाद्भुते ॥ ३८.२४॥
अथ दृष्ट्वा सतीं देवीमागतां सुररूपिणीम् ।
आसनेन महार्हेणऽसम्पादयद् अनिन्दिताम् ।
आसीनां तामथोवाच मेना हिमवतः प्रिया ॥ ३८.२५॥
मेनोवाच ।
चिरस्यागमनं तेऽद्य वद पुत्रि शुभेक्षणे ।
दरिद्रा क्रीडनैस्त्वं हि भर्त्रा क्रीडसि संगता ॥ ३८.२६॥
ये दरिद्रा भवन्ति स्म तथैव च निराश्रयाः ।
उमे त एवं क्रीडन्ति यथा तव पतिः शुभे ॥ ३८.२७॥
ब्रह्मोवाच ।
सैवमुक्ताथ मात्रा तु नातिहृष्टमना भवत् ।
महत्या क्षमया युक्ता न किंचित् तामुवाच ह ।
विसृष्टा च तदा मात्रा गत्वा देवमुवाच ह ॥ ३८.२८॥
पार्वत्युवाच ।
भगवन् देवदेवेश नेह वत्स्यामि भूधरे ।
अन्यं कुरु ममावासं भुवनेषु महाद्युते ॥ ३८.२९॥
देव उवाच ।
सदा त्वमुच्यमाना वै मया वासार्थमीश्वरि ।
अन्यं न रोचितवती वासं वै देवि कर्हिचित् ॥ ३८.३०॥