अध्याय 37, Verse 1
ब्रह्मोवाच ।
अथ वृत्ते विवाहे तु भवस्यामिततेजसः ।
प्रहर्षमतुलं गत्वा देवाः शक्रपुरोगमाः ।
तुष्टुवुर्वाग्भिराद्याभिः प्रणेमुस्ते महेश्वरम् ॥ ३७.१॥
Containing 30 sacred Sanskrit shlokas with multi-author commentaries and translations.
ब्रह्मोवाच ।
अथ वृत्ते विवाहे तु भवस्यामिततेजसः ।
प्रहर्षमतुलं गत्वा देवाः शक्रपुरोगमाः ।
तुष्टुवुर्वाग्भिराद्याभिः प्रणेमुस्ते महेश्वरम् ॥ ३७.१॥
देवा ऊचुः ।
नमः पर्वतलिङ्गाय पर्वतेशाय वै नमः ।
नमः पवनवेगाय विरूपायाजिताय च ।
नमः क्लेशविनाशाय दात्रे च शुभसम्पदाम् ॥ ३७.२॥
नमो नीलशिखण्डाय अम्बिकापतये नमः ।
नमः पवनरूपाय शतरूपाय वै नमः ॥ ३७.३॥
नमो भैरवरूपाय विरूपनयनाय च ।
नमः सहस्रनेत्राय सहस्रचरणाय च ॥ ३७.४॥
नमो देववयस्याय वेदाङ्गाय नमो नमः ।
विष्टम्भनाय शक्रस्य बाह्वोर्वेदाङ्कुराय च ॥ ३७.५॥
चराचराधिपतये शमनाय नमो नमः ।
सलिलाशयलिङ्गाय युगान्ताय नमो नमः ॥ ३७.६॥
नमः कपालमालाय कपालसूत्रधारिणे ।
नमः कपालहस्ताय दण्डिने गदिने नमः ॥ ३७.७॥
नमस्त्रैलोक्यनाथाय पशुलोकरताय च ।
नमः खट्वाङ्गहस्ताय प्रमथार्तिहराय च ॥ ३७.८॥
नमो यज्ञशिरोहन्त्रे कृष्णकेशापहारिणे ।
भगनेत्रनिपाताय पूष्णो दन्तहराय च ॥ ३७.९॥
नमः पिनाकशूलासि+ ।
खड्गमुद्गरधारिणे ।
नमोऽस्तु कालकालाय तृतीयनयनाय च ॥ ३७.१०॥
अन्तकान्तकृते चैव नमः पर्वतवासिने ।
सुवर्णरेतसे चैव नमः कुण्डलधारिणे ॥ ३७.११॥
दैत्यानां योगनाशाय योगिनां गुरवे नमः ।
शशाङ्कादित्यनेत्राय ललाटनयनाय च ॥ ३७.१२॥
नमः श्मशानरतये श्मशानवरदाय च ।
नमो दैवतनाथाय त्र्यम्बकाय नमो नमः ॥ ३७.१३॥
गृहस्थसाधवे नित्यं जटिले ब्रह्मचारिणे ।
नमो मुण्डार्धमुण्डाय पशूनां पतये नमः ॥ ३७.१४॥
सलिले तप्यमानाय योगैश्वर्यप्रदाय च ।
नमः शान्ताय दान्ताय प्रलयोत्पत्तिकारिणे ॥ ३७.१५॥
नमोऽनुग्रहकर्त्रे च स्थितिकर्त्रे नमो नमः ।
नमो रुद्राय वसव आदित्यायाश्विने नमः ॥ ३७.१६॥
नमः पित्रेऽथ सांख्याय विश्वेदेवाय वै नमः ।
नमः शर्वाय उग्राय शिवाय वरदाय च ॥ ३७.१७॥
नमो भीमाय सेनान्ये पशूनां पतये नमः ।
शुचये वैरिहानाय सद्योजाताय वै नमः ॥ ३७.१८॥
महादेवाय चित्राय विचित्राय च वै नमः ।
प्रधानायाप्रमेयाय कार्याय कारणाय च ॥ ३७.१९॥
पुरुषाय नमस्तेऽस्तु पुरुषेच्छाकराय च ।
नमः पुरुषसंयोग+ ।
प्रधानगुणकारिणे ॥ ३७.२०॥
प्रवर्तकाय प्रकृतेः पुरुषस्य च सर्वशः ।
कृताकृतस्य सत्कर्त्रे फलसंयोगदाय च ॥ ३७.२१॥
कालज्ञाय च सर्वेषां नमो नियमकारिणे ।
नमो वैषम्यकर्त्रे च गुणानां वृत्तिदाय च ॥ ३७.२२॥
नमस्ते देवदेवेश नमस्ते भूतभावन ।
शिव सौम्यमुखो द्रष्टुं भव सौम्यो हि नः प्रभो ॥ ३७.२३॥
ब्रह्मोवाच ।
एवं स भगवान् देवो जगत्पतिरुमापतिः ।
स्तूयमानः सुरैः सर्वैरमरान् इदमब्रवीत् ॥ ३७.२४॥
श्रीशंकर उवाच ।
द्रष्टुं सुखश्च सौम्यश्च वरं वरयत क्षिप्रं दातास्मि तमसंशयम् ॥ ३७.२५॥
ब्रह्मोवाच ।
ततस्ते प्रणताः सर्वे सुरा ऊचुस्त्रिलोचनम् ॥ ३७.२६॥
देवा ऊचुः ।
तवैव भगवन् हस्ते वर एषोऽवतिष्ठताम् ।
यदा कार्यं तदा नस्त्वं दास्यसे वरमीप्सितम् ॥ ३७.२७॥
ब्रह्मोवाच ।
एवमस्त्विति तान् उक्त्वा विसृज्य च सुरान् हरः ।
लोकांश्च प्रमथैः सार्धं विवेश भवनं स्वकम् ॥ ३७.२८॥
यस्तु हरोत्सवमद्भुतमेनम् ।
गायति दैवतविप्रसमक्षम् ।
सोऽप्रतिरूपगणेशसमानो ।
देहविपर्ययमेत्य सुखी स्यात् ॥ ३७.२९॥
ब्रह्मोवाच ।
विप्रवर्याः स्तवं हीमं शृणुयाद् वा पठेच्च यः ।
स सर्वलोकगो देवैः पूज्यतेऽमरराड् इव ॥ ३७.३०॥