अध्याय 36, Verse 1
ब्रह्मोवाच ।
विस्तृते हिमवत्पृष्ठे विमानशतसंकुले ।
अभवत् स तु कालेन शैलपुत्र्याः स्वयंवरः ॥ ३६.१॥
Containing 135 sacred Sanskrit shlokas with multi-author commentaries and translations.
ब्रह्मोवाच ।
विस्तृते हिमवत्पृष्ठे विमानशतसंकुले ।
अभवत् स तु कालेन शैलपुत्र्याः स्वयंवरः ॥ ३६.१॥
अथ पर्वतराजोऽसौ हिमवान् ध्यानकोविदः ।
दुहितुर्देवदेवेन ज्ञात्वा तद् अभिमन्त्रितम् ॥ ३६.२॥
जानन्न् अपि महाशैलः समयारक्षणेप्सया ।
स्वयंवरं ततो देव्याः सर्वलोकेष्वघोषयत् ॥ ३६.३॥
देवदानवसिद्धानां सर्वलोकनिवासिनाम् ।
वृणुयात् परमेशानं समक्षं यदि मे सुता ॥ ३६.४॥
तद् एव सुकृतं श्लाघ्यं ममाभ्युदयसम्मतम् ।
इति संचिन्त्य शैलेन्द्रः कृत्वा हृदि महेश्वरम् ॥ ३६.५॥
आब्रह्मकेषु देवेषु देव्याः शैलेन्द्रसत्तमः ।
कृत्वा रत्नाकुलं देशं स्वयंवरमचीकरत् ॥ ३६.६॥
अथैवमाघोषितमात्र एव ।
स्वयंवरे तत्र नगेन्द्रपुत्र्याः ।
देवादयः सर्वजगन्निवासाः ।
समाययुस्तत्र गृहीतवेशाः ॥ ३६.७॥
प्रफुल्लपद्मासनसंनिविष्टः ।
सिद्धैर्वृतो योगिभिरप्रमेयैः ।
विज्ञापितस्तेन महीध्रराज्ञा ।
आगतस्तदाहं त्रिदिवैरुपेतः ॥ ३६.८॥
अक्ष्णां सहस्रं सुरराट् स बिभ्रद् ।
दिव्याङ्गहारस्रगुदाररूपः ।
ऐरावतं सर्वगजेन्द्रमुख्यम् ।
स्रवन्मदासारकृतप्रवाहम् ॥ ३६.९॥
आरुह्य सर्वामरराट् स वज्रम् ।
बिभ्रत् समागात् पुरतः सुराणाम् ।
तेजःप्रभावाधिकतुल्यरूपी ।
प्रोद्भासयन् सर्वदिशो विवस्वान् ॥ ३६.१०॥
हैमं विमानं सवलत्पताकम् ।
आरूढ आगात् त्वरितं जवेन ।
मणिप्रदीप्तोज्ज्वलकुण्डलश्च ।
वह्न्यर्कतेजःप्रतिमे विमाने ॥ ३६.११॥
समभ्यगात् कश्यपसूनुरेक ।
आदित्यमध्याद् भगनामधारी ।
पीनाङ्गयष्टिः सुकृताङ्गहार+ ।
तेजोबलाज्ञासदृशप्रभावः ॥ ३६.१२॥
दण्डं समागृह्य कृतान्त आगाद् ।
आरुह्य भीमं महिषं जवेन ।
महामहीध्रोच्छ्रयपीनगात्रः ।
स्वर्णादिरत्नाञ्चितचारुवेशः ॥ ३६.१३॥
समीरणः सर्वजगद्विभर्ता ।
विमानमारुह्य समभ्यगाद् धि ।
संतापयन् सर्वसुरासुरेशांस्- ।
तेजोधिकस्तेजसि संनिविष्टः ॥ ३६.१४॥
वह्निः समभ्येत्य सुरेन्द्रमध्ये ।
ज्वलन् प्रतस्थौ वरवेशधारी ।
नानामणिप्रज्वलिताङ्गयष्टिर् ।
जगद्वरं दिव्यविमानमग्र्यम् ॥ ३६.१५॥
आरुह्य सर्वद्रविणाधिपेशः ।
स राजराजस्त्वरितोऽभ्यगाच्च ।
आप्याययन् सर्वसुरासुरेशान् ।
कान्त्या च वेशेन च चारुरूपः ॥ ३६.१६॥
ज्वलन् महारत्नविचित्ररूपम् ।
विमानमारुह्य शशी समायात् ।
श्यामाङ्गयष्टिः सुविचित्रवेशः ।
सर्वाङ्ग आबद्धसुगन्धिमाल्यः ॥ ३६.१७॥
तार्क्ष्यं समारुह्य महीध्रकल्पम् ।
गदाधरोऽसौ त्वरितः समेतः ।
अथाश्विनौ चापि भिषग्वरौ द्वाव् ।
एकं विमानं त्वरयाधिरुह्य ॥ ३६.१८॥
मनोहरौ प्रज्वलचारुवेशौ ।
आजग्मतुर्देववरौ सुवीरौ ।
सहस्रनागः स्फुरदग्निवर्णम् ।
बिभ्रत् तदानीं ज्वलनार्कतेजाः ॥ ३६.१९॥
सार्धं स नागैरपरैर्महात्मा ।
विमानमारुह्य समभ्यगाच्च ।
दितेः सुतानां च महासुराणाम् ।
वह्न्यर्कशक्रानिलतुल्यभासाम् ॥ ३६.२०॥
वरानुरूपं प्रविधाय वेशम् ।
वृन्दं समागात् पुरतः सुराणाम् ।
गन्धर्वराजः स च चारुरूपी ।
दिव्याङ्गदो दिव्यविमानचारी ॥ ३६.२१॥
गन्धर्वसंघैः सहितोऽप्सरोभिः ।
शक्राज्ञया तत्र समाजगाम ।
अन्ये च देवास्त्रिदिवात् तदानीम् ।
पृथक् पृथक् चारुगृहीतवेशाः ॥ ३६.२२॥
आजग्मुरारुह्य विमानपृष्ठम् ।
गन्धर्वयक्षोरगकिंनराश्च ।
शचीपतिस्तत्र सुरेन्द्रमध्ये ।
रराज राजाधिकलक्ष्यमूर्तिः ॥ ३६.२३॥
आज्ञाबलैश्वर्यकृतप्रमोदः ।
स्वयंवरं तं समलंचकार ।
हेतुस्त्रिलोकस्य जगत्प्रसूतेर् ।
माता च तेषां ससुरासुराणाम् ॥ ३६.२४॥
पत्नी च शम्भोः पुरुषस्य धीमतो ।
गीता पुराणे प्रकृतिः परा या ।
दक्षस्य कोपाद् धिमवद्गृहं सा ।
कार्यार्थमायात् त्रिदिवौकसां हि ॥ ३६.२५॥
विमानपृष्ठे मणिहेमजुष्टे ।
स्थिता वलच्चामरवीजिताङ्गी ।
सर्वर्तुपुष्पां सुसुगन्धमालाम् ।
प्रगृह्य देवी प्रसभं प्रतस्थे ॥ ३६.२६॥
ब्रह्मोवाच ।
मालां प्रगृह्य देव्यां तु स्थितायां देवसंसदि ।
शक्राद्यैरागतैर्देवैः स्वयंवर उपागते ॥ ३६.२७॥
देव्या जिज्ञासया शम्भुर्भूत्वा पञ्चशिखः शिशुः ।
उत्सङ्गतलसंसुप्तो बभूव सहसा विभुः ॥ ३६.२८॥
ततो ददर्श तं देवी शिशुं पञ्चशिखं स्थितम् ।
ज्ञात्वा तं समवध्यानाज्जगृहे प्रीतिसंयुता ॥ ३६.२९॥
अथ सा शुद्धसंकल्पा काङ्क्षितं प्राप्य सत्पतिम् ।
निवृत्ता च तदा तस्थौ कृत्वा सा हृदि तं विभुम् ॥ ३६.३०॥