अध्याय 35, Verse 1
ब्रह्मोवाच ।
ततस्तामब्रुवन् देवास्तदा गत्वा तु सुन्दरीम् ।
देवि शीघ्रेण कालेन धूर्जटिर्नीललोहितः ॥ ३५.१॥
Containing 64 sacred Sanskrit shlokas with multi-author commentaries and translations.
ब्रह्मोवाच ।
ततस्तामब्रुवन् देवास्तदा गत्वा तु सुन्दरीम् ।
देवि शीघ्रेण कालेन धूर्जटिर्नीललोहितः ॥ ३५.१॥
स भर्ता तव देवेशो भविता मा तपः कृथाः ।
ततः प्रदक्षिणीकृत्य देवा विप्रा गिरेः सुताम् ॥ ३५.२॥
जग्मुश्चादर्शनं तस्याः सा चापि विरराम ह ।
सा देवी सूक्तमित्येवमुक्त्वा स्वस्याश्रमे शुभे ॥ ३५.३॥
द्वारि जातमशोकं च समुपाश्रित्य चास्थिता ।
अथागाच्चन्द्रतिलकस्त्रिदशार्तिहरो हरः ॥ ३५.४॥
विकृतं रूपमास्थाय ह्रस्वो बाहुक एव च ।
विभग्ननासिको भूत्वा कुब्जः केशान्तपिङ्गलः ॥ ३५.५॥
उवाच विकृतास्यश्च देवि त्वां वरयाम्यहम् ।
अथोमा योगसंसिद्धा ज्ञात्वा शंकरमागतम् ॥ ३५.६॥
अन्तर्भावविशुद्धात्मा कृपानुष्ठानलिप्सया ।
तमुवाचार्घपाद्याभ्यां मधुपर्केण चैव ह ॥ ३५.७॥
सम्पूज्य सुमनोभिस्तं ब्राह्मणं ब्राह्मणप्रिया ॥ ३५.८॥
देव्युवाच ।
भगवन् न स्वतन्त्राहं पिता मे त्वग्रणीर्गृहे ।
स प्रभुर्मम दाने वै कन्याहं द्विजपुंगव ॥ ३५.९॥
गत्वा याचस्व पितरं मम शैलेन्द्रमव्ययम् ।
स चेद् ददाति मां विप्र तुभ्यं तद् उचितं मम ॥ ३५.१०॥
ब्रह्मोवाच ।
ततः स भगवान् देवस्तथैव विकृतः प्रभुः ।
उवाच शैलराजानं सुतां मे यच्छ शैलराट् ॥ ३५.११॥
स तं विकृतरूपेण ज्ञात्वा रुद्रमथाव्ययम् ।
भीतः शापाच्च विमना इदं वचनमब्रवीत् ॥ ३५.१२॥
शैलेन्द्र उवाच ।
भगवन् नावमन्येऽहं ब्राह्मणान् भुवि देवताः ।
मनीषितं तु यत् पूर्वं तच्छृणुष्व महामते ॥ ३५.१३॥
स्वयंवरो मे दुहितुर्भविता विप्रपूजितः ।
वरयेद् यं स्वयं तत्र स भर्तास्या भविष्यति ॥ ३५.१४॥
तच्छ्रुत्वा शैलवचनं भगवान् वृषभध्वजः ।
देव्याः समीपमागत्य इदमाह महामनाः ॥ ३५.१५॥
शिव उवाच ।
देवि पित्रा त्वनुज्ञातः स्वयंवर इति श्रुतिः ।
तत्र त्वं वरयित्री यं स ते भर्ता भवेद् इति ॥ ३५.१६॥
तद् आपृच्छ्य गमिष्यामि दुर्लभां त्वां वरानने ।
रूपवन्तं समुत्सृज्य वृणोष्यसदृशं कथम् ॥ ३५.१७॥
ब्रह्मोवाच ।
तेनोक्ता सा तदा तत्र भावयन्ती तदीरितम् ।
भावं च रुद्रनिहितं प्रसादं मनसस्तथा ॥ ३५.१८॥
सम्प्राप्योवाच देवेशं मा तेऽभूद् बुद्धिरन्यथा ।
अहं त्वां वरयिष्यामि नाद्भुतं तु कथंचन ॥ ३५.१९॥
अथवा तेऽस्ति संदेहो मयि विप्र कथंचन ।
इहैव त्वां महाभाग वरयामि मनोगतम् ॥ ३५.२०॥
ब्रह्मोवाच ।
गृहीत्वा स्तबकं सा तु हस्ताभ्यां तत्र संस्थिता ।
स्कन्धे शम्भोः समाधाय देवी प्राह वृतोऽसि मे ॥ ३५.२१॥
ततः स भगवान् देवस्तया देव्या वृतस्तदा ।
उवाच तमशोकं वै वाचा संजीवयन्न् इव ॥ ३५.२२॥
शिव उवाच ।
यस्मात् तव सुपुण्येन स्तबकेन वृतोऽस्म्यहम् ।
तस्मात् त्वं जरया त्यक्तस्त्वमरः सम्भविष्यसि ॥ ३५.२३॥
कामरूपी कामपुष्पः कामदो दयितो मम ।
सर्वाभरणपुष्पाढ्यः सर्वपुष्पफलोपगः ॥ ३५.२४॥
सर्वान्नभक्षकश्चैव अमृतस्वाद एव च ।
सर्वगन्धश्च देवानां भविष्यसि दृढप्रियः ॥ ३५.२५॥
निर्भयः सर्वलोकेषु भविष्यसि सुनिर्वृतः ।
आश्रमं वेदमत्यर्थं चित्रकूटेति विश्रुतम् ॥ ३५.२६॥
यो हि यास्यति पुण्यार्थी सोऽश्वमेधमवाप्स्यति ।
यस्तु तत्र मृतश्चापि ब्रह्मलोकं स गच्छति ॥ ३५.२७॥
यश्चात्र नियमैर्युक्तः प्राणान् सम्यक् परित्यजेत् ।
स देव्यास्तपसा युक्तो महागणपतिर्भवेत् ॥ ३५.२८॥
ब्रह्मोवाच ।
एवमुक्त्वा तदा देव आपृच्छ्य हिमवत्सुताम् ।
अन्तर्दधे जगत्स्रष्टा सर्वभूतप ईश्वरः ॥ ३५.२९॥
सापि देवी गते तस्मिन् भगवत्यमितात्मनि ।
तत एवोन्मुखी भूत्वा शिलायां सम्बभूव ह ॥ ३५.३०॥