अध्याय 34, Verse 1
ब्रह्मोवाच ।
योऽसौ सर्वगतो देवस्त्रिपुरारिस्त्रिलोचनः ।
उमाप्रियकरो रुद्रश्चन्द्रार्धकृतशेखरः ॥ ३४.१॥
Containing 101 sacred Sanskrit shlokas with multi-author commentaries and translations.
ब्रह्मोवाच ।
योऽसौ सर्वगतो देवस्त्रिपुरारिस्त्रिलोचनः ।
उमाप्रियकरो रुद्रश्चन्द्रार्धकृतशेखरः ॥ ३४.१॥
विद्राव्य विबुधान् सर्वान् सिद्धविद्याधरान् ऋषीन् ।
गन्धर्वयक्षनागांश्च तथान्यांश्च समागतान् ॥ ३४.२॥
जघान पूर्वं दक्षस्य यजतो धरणीतले ।
यज्ञं समृद्धं रत्नाढ्यं सर्वसम्भारसम्भृतम् ॥ ३४.३॥
यस्य प्रतापसंत्रस्ताः शक्राद्यास्त्रिदिवौकसः ।
शान्तिं न लेभिरे विप्राः कैलासं शरणं गताः ॥ ३४.४॥
स आस्ते तत्र वरदः शूलपाणिर्वृषध्वजः ।
पिनाकपाणिर्भगवान् दक्षयज्ञविनाशनः ॥ ३४.५॥
महादेवोऽकले देशे कृत्तिवासा वृषध्वजः ।
एकाम्रके मुनिश्रेष्ठाः सर्वकामप्रदो हरः ॥ ३४.६॥
मुनय ऊचुः ।
किमर्थं स भवो देवः सर्वभूतहिते रतः ।
जघान यज्ञं दक्षस्य देवैः सर्वैरलंकृतम् ॥ ३४.७॥
न ह्यल्पं कारणं तत्र प्रभो मन्यामहे वयम् ।
श्रोतुमिच्छामहे ब्रूहि परं कौतूहलं हि नः ॥ ३४.८॥
ब्रह्मोवाच ।
दक्षस्यासन्न् अष्ट कन्या याश्चैवं पतिसंगताः ।
स्वेभ्यो गृहेभ्यश्चानीय ताः पिताभ्यर्चयद् गृहे ॥ ३४.९॥
ततस्त्वभ्यर्चिता विप्रा न्यवसंस्ताः पितुर्गृहे ।
तासां ज्येष्ठा सती नाम पत्नी या त्र्यम्बकस्य वै ॥ ३४.१०॥
नाजुहावात्मजां तां वै दक्षो रुद्रमभिद्विषन् ।
अकरोत् संनतिं दक्षे न च कांचिन् महेश्वरः ॥ ३४.११॥
जामाता श्वशुरे तस्मिन् स्वभावात् तेजसि स्थितः ।
ततो ज्ञात्वा सती सर्वास्तास्तु प्राप्ताः पितुर्गृहम् ॥ ३४.१२॥
जगाम साप्यनाहूता सती तु स्वपितुर्गृहम् ।
ताभ्यो हीनां पिता चक्रे सत्याः पूजामसम्मताम् ।
ततोऽब्रवीत् सा पितरं देवी क्रोधसमाकुला ॥ ३४.१३॥
सत्युवाच ।
यवीयसीभ्यः श्रेष्ठाहं किं न पूजसि मां प्रभो ।
असत्कृतामवस्थां यः कृतवान् असि गर्हिताम् ।
अहं ज्येष्ठा वरिष्ठा च मां त्वं सत्कर्तुमर्हसि ॥ ३४.१४॥
ब्रह्मोवाच ।
एवमुक्तोऽब्रवीद् एनां दक्षः संरक्तलोचनः ॥ ३४.१५॥
दक्ष उवाच ।
त्वत्तः श्रेष्ठा वरिष्ठाश्च पूज्या बालाः सुता मम ।
तासां ये चैव भर्तारस्ते मे बहुमताः सति ॥ ३४.१६॥
ब्रह्मिष्ठाश्च व्रतस्थाश्च महायोगाः सुधार्मिकाः ।
गुणैश्चैवाधिकाः श्लाघ्याः सर्वे ते त्र्यम्बकात् सति ॥ ३४.१७॥
वसिष्ठोऽत्रिः पुलस्त्यश्च अङ्गिराः पुलहः क्रतुः ।
भृगुर्मरीचिश्च तथा श्रेष्ठा जामातरो मम ॥ ३४.१८॥
तैश्चापि स्पर्धते शर्वः सर्वे ते चैव तं प्रति ।
तेन त्वां न बुभूषामि प्रतिकूलो हि मे भवः ॥ ३४.१९॥
इत्युक्तवांस्तदा दक्षः सम्प्रमूढेन चेतसा ।
शापार्थमात्मनश्चैव येनोक्ता वै महर्षयः ।
तथोक्ता पितरं सा वै क्रुद्धा देवी तमब्रवीत् ॥ ३४.२०॥
सत्युवाच ।
वाङ्मनःकर्मभिर्यस्माद् अदुष्टां मां विगर्हसि ।
तस्मात् त्यजाम्यहं देहमिमं तात तवात्मजम् ॥ ३४.२१॥
ब्रह्मोवाच ।
ततस्तेनापमानेन सती दुःखाद् अमर्षिता ।
अब्रवीद् वचनं देवी नमस्कृत्य स्वयम्भुवे ॥ ३४.२२॥
सत्युवाच ।
येनाहमपदेहा वै पुनर्देहेन भास्वता ।
तत्राप्यहमसम्मूढा सम्भूता धार्मिकी पुनः ।
गच्छेयं धर्मपत्नीत्वं त्र्यम्बकस्यैव धीमतः ॥ ३४.२३॥
ब्रह्मोवाच ।
तत्रैवाथ समासीना रुष्टात्मानं समादधे ।
धारयामास चाग्नेयीं धारणामात्मनात्मनि ॥ ३४.२४॥
ततः स्वात्मानमुत्थाप्य वायुना समुदीरितः ।
सर्वाङ्गेभ्यो विनिःसृत्य वह्निर्भस्म चकार ताम् ॥ ३४.२५॥
तद् उपश्रुत्य निधनं सत्या देव्याः स शूलधृक् ।
संवादं च तयोर्बुद्ध्वा याथातथ्येन शंकरः ।
दक्षस्य च विनाशाय चुकोप भगवान् प्रभुः ॥ ३४.२६॥
श्रीशंकर उवाच ।
यस्माद् अवमता दक्ष सहसैवागता सती ।
प्रशस्ताश्चेतराः सर्वास्त्वत्सुता भर्तृभिः सह ॥ ३४.२७॥
तस्माद् वैवस्वते प्राप्ते पुनरेते महर्षयः ।
उत्पत्स्यन्ति द्वितीये वै तव यज्ञे ह्ययोनिजाः ॥ ३४.२८॥
हुते वै ब्रह्मणः सत्त्रे चाक्षुषस्यान्तरे मनोः ।
अभिव्याहृत्य सप्तर्षीन् दक्षं सोऽभ्यशपत् पुनः ॥ ३४.२९॥
भविता मानुषो राजा चाक्षुषस्यान्तरे मनोः ।
प्राचीनबर्हिषः पौत्रः पुत्रश्चापि प्रचेतसः ॥ ३४.३०॥