अध्याय 33, Verse 1
मुनय ऊचुः ।
भूयोऽपि कथयास्माकं कथां सूर्यसमाश्रिताम् ।
न तृप्तिमधिगच्छामः शृण्वन्तस्तां कथां शुभाम् ॥ ३३.१॥
Containing 49 sacred Sanskrit shlokas with multi-author commentaries and translations.
मुनय ऊचुः ।
भूयोऽपि कथयास्माकं कथां सूर्यसमाश्रिताम् ।
न तृप्तिमधिगच्छामः शृण्वन्तस्तां कथां शुभाम् ॥ ३३.१॥
योऽयं दीप्तो महातेजा वह्निराशिसमप्रभः ।
एतद् वेदितुमिच्छामः प्रभावोऽस्य कुतः प्रभो ॥ ३३.२॥
ब्रह्मोवाच ।
तमोभूतेषु लोकेषु नष्टे स्थावरजङ्गमे ।
प्रकृतेर्गुणहेतुस्तु पूर्वं बुद्धिरजायत ॥ ३३.३॥
अहंकारस्ततो जातो महाभूतप्रवर्तकः ।
वाय्वग्निरापः खं भूमिस्ततस्त्वण्डमजायत ॥ ३३.४॥
तस्मिन्न् अण्डे त्विमे लोकाः सप्त चैव प्रतिष्ठिताः ।
पृथिवी सप्तभिर्द्वीपैः समुद्रैश्चैव सप्तभिः ॥ ३३.५॥
तत्रैवावस्थितो ह्यासीद् अहं विष्णुर्महेश्वरः ।
विमूढास्तामसाः सर्वे प्रध्यायन्ति तमीश्वरम् ॥ ३३.६॥
ततो वै सुमहातेजाः प्रादुर्भूतस्तमोनुदः ।
ध्यानयोगेन चास्माभिर्विज्ञातः सविता तदा ॥ ३३.७॥
ज्ञात्वा च परमात्मानं सर्व एव पृथक् पृथक् ।
दिव्याभिः स्तुतिभिर्देवः स्तुतोऽस्माभिस्तदेश्वरः ॥ ३३.८॥
आदिदेवोऽसि देवानामैश्वर्याच्च त्वमीश्वरः ।
आदिकर्तासि भूतानां देवदेवो दिवाकरः ॥ ३३.९॥
जीवनः सर्वभूतानां देवगन्धर्वरक्षसाम् ।
मुनिकिंनरसिद्धानां तथैवोरगपक्षिणाम् ॥ ३३.१०॥
त्वं ब्रह्मा त्वं महादेवस्त्वं विष्णुस्त्वं प्रजापतिः ।
वायुरिन्द्रश्च सोमश्च विवस्वान् वरुणस्तथा ॥ ३३.११॥
त्वं कालः सृष्टिकर्ता च हर्ता भर्ता तथा प्रभुः ।
सरितः सागराः शैला विद्युदिन्द्रधनूंषि च ॥ ३३.१२॥
प्रलयः प्रभवश्चैव व्यक्ताव्यक्तः सनातनः ।
ईश्वरात् परतो विद्या विद्यायाः परतः शिवः ॥ ३३.१३॥
शिवात् परतरो देवस्त्वमेव परमेश्वरः ।
सर्वतःपाणिपादान्तः सर्वतोक्षिशिरोमुखः ॥ ३३.१४॥
सहस्रांशुः सहस्रास्यः सहस्रचरणेक्षणः ।
भूतादिर्भूर्भुवः स्वश्च महः सत्यं तपो जनः ॥ ३३.१५॥
प्रदीप्तं दीपनं दिव्यं सर्वलोकप्रकाशकम् ।
दुर्निरीक्षं सुरेन्द्राणां यद् रूपं तस्य ते नमः ॥ ३३.१६॥
सुरसिद्धगणैर्जुष्टं भृग्वत्रिपुलहादिभिः ।
स्तुतं परममव्यक्तं यद् रूपं तस्य ते नमः ॥ ३३.१७॥
वेद्यं वेदविदां नित्यं सर्वज्ञानसमन्वितम् ।
सर्वदेवातिदेवस्य यद् रूपं तस्य ते नमः ॥ ३३.१८॥
विश्वकृद् विश्वभूतं च वैश्वानरसुरार्चितम् ।
विश्वस्थितमचिन्त्यं च यद् रूपं तस्य ते नमः ॥ ३३.१९॥
परं यज्ञात् परं वेदात् परं लोकात् परं दिवः ।
परमात्मेत्यभिख्यातं यद् रूपं तस्य ते नमः ॥ ३३.२०॥
अविज्ञेयमनालक्ष्यमध्यानगतमव्ययम् ।
अनादिनिधनं चैव यद् रूपं तस्य ते नमः ॥ ३३.२१॥
नमो नमः कारणकारणाय ।
नमो नमः पापविमोचनाय ।
नमो नमस्ते दितिजार्दनाय ।
नमो नमो रोगविमोचनाय ॥ ३३.२२॥
नमो नमः सर्ववरप्रदाय ।
नमो नमः सर्वसुखप्रदाय ।
नमो नमः सर्वधनप्रदाय ।
नमो नमः सर्वमतिप्रदाय ॥ ३३.२३॥
स्तुतः स भगवान् एवं तैजसं रूपमास्थितः ।
उवाच वाचा कल्याण्या को वरो वः प्रदीयताम् ॥ ३३.२४॥
देवा ऊचुः ।
तवातितैजसं रूपं न कश्चित् सोढुमुत्सहेत् ।
सहनीयं तद् भवतु हिताय जगतः प्रभो ॥ ३३.२५॥
एवमस्त्विति सोऽप्युक्त्वा भगवान् आदिकृत् प्रभुः ।
लोकानां कार्यसिद्ध्यर्थं घर्मवर्षहिमप्रदः ॥ ३३.२६॥
ततः सांख्याश्च योगाश्च ये चान्ये मोक्षकाङ्क्षिणः ।
ध्यायन्ति ध्यायिनो देवं हृदयस्थं दिवाकरम् ॥ ३३.२७॥
सर्वलक्षणहीनोऽपि युक्तो वा सर्वपातकैः ।
सर्वं च तरते पापं देवमर्कं समाश्रितः ॥ ३३.२८॥
अग्निहोत्रं च वेदाश्च यज्ञाश्च बहुदक्षिणाः ।
भानोर्भक्तिनमस्कार+ ।
कलां नार्हन्ति षोडशीम् ॥ ३३.२९॥
तीर्थानां परमं तीर्थं मङ्गलानां च मङ्गलम् ।
पवित्रं च पवित्राणां प्रपद्यन्ते दिवाकरम् ॥ ३३.३०॥