अध्याय 32, Verse 1
मुनय ऊचुः ।
निर्गुणः शाश्वतो देवस्त्वया प्रोक्तो दिवाकरः ।
पुनर्द्वादशधा जातः श्रुतोऽस्माभिस्त्वयोदितः ॥ ३२.१॥
Containing 108 sacred Sanskrit shlokas with multi-author commentaries and translations.
मुनय ऊचुः ।
निर्गुणः शाश्वतो देवस्त्वया प्रोक्तो दिवाकरः ।
पुनर्द्वादशधा जातः श्रुतोऽस्माभिस्त्वयोदितः ॥ ३२.१॥
स कथं तेजसो रश्मिः स्त्रिया गर्भे महाद्युतिः ।
सम्भूतो भास्करो जातस्तत्र नः संशयो महान् ॥ ३२.२॥
ब्रह्मोवाच ।
दक्षस्य हि सुताः श्रेष्ठा बभूवुः षष्टिः शोभनाः ।
अदितिर्दितिर्दनुश्चैव विनताद्यास्तथैव च ॥ ३२.३॥
दक्षस्ताः प्रददौ कन्याः कश्यपाय त्रयोदश ।
अदितिर्जनयामास देवांस्त्रिभुवनेश्वरान् ॥ ३२.४॥
दैत्यान् दितिर्दनुश्चोग्रान् दानवान् बलदर्पितान् ।
विनताद्यास्तथा चान्याः सुषुवुः स्थानुजङ्गमान् ॥ ३२.५॥
तस्याथ पुत्रदौहित्रैः पौत्रदौहित्रकादिभिः ।
व्याप्तमेतज्जगत् सर्वं तेषां तासां च वै मुने ॥ ३२.६॥
तेषां कश्यपपुत्राणां प्रधाना देवतागणाः ।
सात्त्विका राजसाश्चान्ये तामसाश्च गणाः स्मृताः ॥ ३२.७॥
देवान् यज्ञभुजश्चक्रे तथा त्रिभुवनेश्वरान् ।
स्रष्टा ब्रह्मविदां श्रेष्ठः परमेष्ठी प्रजापतिः ॥ ३२.८॥
तान् अबाधन्त सहिताः सापत्न्याद् दैत्यदानवाः ।
ततो निराकृतान् पुत्रान् दैतेयैर्दानवैस्तथा ॥ ३२.९॥
हतं त्रिभुवनं दृष्ट्वा अदितिर्मुनिसत्तमाः ।
आच्छिनद् यज्ञभागांश्च क्षुधा सम्पीडितान् भृशम् ॥ ३२.१०॥
आराधनाय सवितुः परं यत्नं प्रचक्रमे ।
एकाग्रा नियताहारा परं नियममास्थिता ।
तुष्टाव तेजसां राशिं गगनस्थं दिवाकरम् ॥ ३२.११॥
अदितिरुवाच ।
नमस्तुभ्यं परं सूक्ष्मं सुपुण्यं बिभ्रतेऽतुलम् ।
धाम धामवतामीशं धामाधारं च शाश्वतम् ॥ ३२.१२॥
जगतामुपकाराय त्वामहं स्तौमि गोपते ।
आददानस्य यद् रूपं तीव्रं तस्मै नमाम्यहम् ॥ ३२.१३॥
ग्रहीतुमष्टमासेन कालेनाम्बुमयं रसम् ।
बिभ्रतस्तव यद् रूपमतितीव्रं नतास्मि तत् ॥ ३२.१४॥
समेतमग्निसोमाभ्यां नमस्तस्मै गुणात्मने ।
यद् रूपम् ऋग्यजुःसाम्नामैक्येन तपते तव ॥ ३२.१५॥
विश्वमेतत् त्रयीसंज्ञं नमस्तस्मै विभावसो ।
यत् तु तस्मात् परं रूपमोमित्युक्त्वाभिसंहितम् ।
अस्थूलं स्थूलममलं नमस्तस्मै सनातन ॥ ३२.१६॥
ब्रह्मोवाच ।
एवं सा नियता देवी चक्रे स्तोत्रमहर्निशम् ।
निराहारा विवस्वन्तमारिराधयिषुर्द्विजाः ॥ ३२.१७॥
ततः कालेन महता भगवांस्तपनो द्विजाः ।
प्रत्यक्षतामगात् तस्या दाक्षायण्या द्विजोत्तमाः ॥ ३२.१८॥
सा ददर्श महाकूटं तेजसोऽम्बरसंवृतम् ।
भूमौ च संस्थितं भास्वज्+ ।
ज्वालाभिरतिदुर्दृशम् ।
तं दृष्ट्वा च ततो देवी साध्वसं परमं गता ॥ ३२.१९॥
अदितिरुवाच ।
जगदाद्य प्रसीदेति न त्वां पश्यामि गोपते ।
प्रसादं कुरु पश्येयं यद् रूपं ते दिवाकर ।
भक्तानुकम्पक विभो त्वद्भक्तान् पाहि मे सुतान् ॥ ३२.२१॥
ब्रह्मोवाच ।
ततः स तेजसस्तस्माद् आविर्भूतो विभावसुः ।
अदृश्यत तदादित्यस्तप्तताम्रोपमः प्रभुः ॥ ३२.२२॥
ततस्तां प्रणतां देवीं तस्यासंदर्शने द्विजाः ।
प्राह भास्वान् वृणुष्वैकं वरं मत्तो यमिच्छसि ॥ ३२.२३॥
प्रणता शिरसा सा तु जानुपीडितमेदिनी ।
प्रत्युवाच विवस्वन्तं वरदं समुपस्थितम् ॥ ३२.२४॥
अदितिरुवाच ।
देव प्रसीद पुत्राणां हृतं त्रिभुवनं मम ।
यज्ञभागाश्च दैतेयैर्दानवैश्च बलाधिकैः ॥ ३२.२५॥
तन्निमित्तं प्रसादं त्वं कुरुष्व मम गोपते ।
अंशेन तेषां भ्रातृत्वं गत्वा तान् नाशये रिपून् ॥ ३२.२६॥
यथा मे तनया भूयो यज्ञभागभुजः प्रभो ।
भवेयुरधिपाश्चैव त्रैलोक्यस्य दिवाकर ॥ ३२.२७॥
तथानुकल्पं पुत्राणां सुप्रसन्नो रवे मम ।
कुरु प्रसन्नार्तिहर कार्यं कर्ता उच्यते ॥ ३२.२८॥
ब्रह्मोवाच ।
ततस्तामाह भगवान् भास्करो वारितस्करः ।
प्रणतामदितिं विप्राः प्रसादसुमुखो विभुः ॥ ३२.२९॥
सूर्य उवाच ।
सहस्रांशेन ते गर्भः सम्भूयाहमशेषतः ।
त्वत्पुत्रशत्रून् दक्षोऽहं नाशयाम्याशु निर्वृतः ॥ ३२.३०॥
ब्रह्मोवाच ।
इत्युक्त्वा भगवान् भास्वान् अन्तर्धानमुपागतः ।
निवृत्ता सापि तपसः सम्प्राप्ताखिलवाञ्छिता ॥ ३२.३१॥