अध्याय 31, Verse 1
ब्रह्मोवाच ।
आदित्यमूलमखिलं त्रैलोक्यं मुनिसत्तमाः ।
भवत्यस्माज्जगत् सर्वं सदेवासुरमानुषम् ॥ ३१.१॥
Containing 39 sacred Sanskrit shlokas with multi-author commentaries and translations.
ब्रह्मोवाच ।
आदित्यमूलमखिलं त्रैलोक्यं मुनिसत्तमाः ।
भवत्यस्माज्जगत् सर्वं सदेवासुरमानुषम् ॥ ३१.१॥
रुद्रोपेन्द्रमहेन्द्राणां विप्रेन्द्रत्रिदिवौकसाम् ।
महाद्युतिमतां चैव तेजोऽयं सार्वलौकिकम् ॥ ३१.२॥
सर्वात्मा सर्वलोकेशो देवदेवः प्रजापतिः ।
सूर्य एव त्रिलोकस्य मूलं परमदैवतम् ॥ ३१.३॥
अग्नौ प्रास्ताहुतिः सम्यग् आदित्यमुपतिष्ठते ।
आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः ॥ ३१.४॥
सूर्यात् प्रसूयते सर्वं तत्र चैव प्रलीयते ।
भावाभावौ हि लोकानामादित्यान् निःसृतौ पुरा ॥ ३१.५॥
एतत् तु ध्यानिनां ध्यानं मोक्षश्चाप्येष मोक्षिणाम् ।
तत्र गच्छन्ति निर्वाणं जायन्तेऽस्मात् पुनः पुनः ॥ ३१.६॥
क्षणा मुहूर्ता दिवसा निशा पक्षाश्च नित्यशः ।
मासाः संवत्सराश्चैव ऋतवश्च युगानि च ॥ ३१.७॥
अथादित्याद् ऋते ह्येषां कालसंख्या न विद्यते ।
कालाद् ऋते न नियमो नाग्नौ विहरणक्रिया ॥ ३१.८॥
ऋतूनामविभागश् ततः पुष्पफलं कुतः ।
कुतो वै सस्यनिष्पत्तिस्तृणौषधिगणः कुतः ॥ ३१.९॥
अभावो व्यवहाराणां जन्तूनां दिवि चेह च ।
जगत्प्रभावाद् विशते भास्कराद् वारितस्करात् ॥ ३१.१०॥
नावृष्ट्या तपते सूर्यो नावृष्ट्या परिशुष्यति ।
नावृष्ट्या परिधिं धत्ते वारिणा दीप्यते रविः ॥ ३१.११॥
वसन्ते कपिलः सूर्यो ग्रीष्मे काञ्चनसंनिभः ।
श्वेतो वर्षासु वर्णेन पाण्डुः शरदि भास्करः ॥ ३१.१२॥
हेमन्ते ताम्रवर्णाभः शिशिरे लोहितो रविः ।
इति वर्णाः समाख्याताः सूर्यस्य ऋतुसम्भवाः ॥ ३१.१३॥
ऋतुस्वभाववर्णैश्च सूर्यः क्षेमसुभिक्षकृत् ।
अथादित्यस्य नामानि सामान्यानि द्विजोत्तमाः ॥ ३१.१४॥
द्वादशैव पृथक्त्वेन तानि वक्ष्याम्यशेषतः ।
आदित्यः सविता सूर्यो मिहिरोऽर्कः प्रभाकरः ॥ ३१.१५॥
मार्तण्डो भास्करो भानुश्चित्रभानुर्दिवाकरः ।
रविर्द्वादशभिस्तेषां ज्ञेयः सामान्यनामभिः ॥ ३१.१६॥
विष्णुर्धाता भगः पूषा मित्रेन्द्रौ वरुणोऽर्यमा ।
विवस्वान् अंशुमांस्त्वष्टा पर्जन्यो द्वादशः स्मृतः ॥ ३१.१७॥
इत्येते द्वादशादित्याः पृथक्त्वेन व्यवस्थिताः ।
उत्तिष्ठन्ति सदा ह्येते मासैर्द्वादशभिः क्रमात् ॥ ३१.१८॥
विष्णुस्तपति चैत्रे तु वैशाखे चार्यमा तथा ।
विवस्वाञ् ज्येष्ठमासे तु आषाढे चांशुमान् स्मृतः ॥ ३१.१९॥
पर्जन्यः श्रावणे मासि वरुणः प्रौष्ठसंज्ञके ।
इन्द्र आश्वयुजे मासि धाता तपति कार्त्तिके ॥ ३१.२०॥
मार्गशीर्षे तथा मित्रः पौषे पूषा दिवाकरः ।
माघे भगस्तु विज्ञेयस्त्वष्टा तपति फाल्गुने ॥ ३१.२१॥
शतैर्द्वादशभिर्विष्णू रश्मिभिर्दीप्यते सदा ।
दीप्यते गोसहस्रेण शतैश्च त्रिभिरर्यमा ॥ ३१.२२॥
द्विःसप्तकैर्विवस्वांस्तु अंशुमान् पञ्चभिस्त्रिभिः ।
विवस्वान् इव पर्जन्यो वरुणश्चार्यमा तथा ॥ ३१.२३॥
मित्रवद् भगवांस्त्वष्टा सहस्रेण शतेन च ।
इन्द्रस्तु द्विगुणैः षड्भिर्धातैकादशभिः शतैः ॥ ३१.२४॥
सहस्रेण तु मित्रो वै पूषा तु नवभिः शतैः ।
उत्तरोपक्रमेऽर्कस्य वर्धन्ते रश्मयस्तथा ॥ ३१.२५॥
दक्षिणोपक्रमे भूयो ह्रसन्ते सूर्यरश्मयः ।
एवं रश्मिसहस्रं तु सूर्यलोकाद् अनुग्रहम् ॥ ३१.२६॥
एवं नाम्नां चतुर्विंशद् एक एषां प्रकीर्तितः ।
विस्तरेण सहस्रं तु पुनरन्यत् प्रकीर्तितम् ॥ ३१.२७॥
मुनय ऊचुः ।
ये तन्नामसहस्रेण स्तुवन्त्यर्कं प्रजापते ।
तेषां भवति किं पुण्यं गतिश्च परमेश्वर ॥ ३१.२८॥
ब्रह्मोवाच ।
शृणुध्वं मुनिशार्दूलाः सारभूतं सनातनम् ।
अलं नामसहस्रेण पठन्न् एवं स्तवं शुभम् ॥ ३१.२९॥
यानि नामानि गुह्यानि पवित्राणि शुभानि च ।
तानि वः कीर्तयिष्यामि शृणुध्वं भास्करस्य वै ॥ ३१.३०॥