Brahma Purana

अध्याय 30

Containing 92 sacred Sanskrit shlokas with multi-author commentaries and translations.

Brahma Purana

अध्याय 30, Verse 1

मुनय ऊचुः ।

अहो देवस्य माहात्म्यं श्रुतमेवं जगत्पते ।

भास्करस्य सुरश्रेष्ठ वदतस्तेषु दुर्लभम् ॥ ३०.१॥

Brahma Purana

अध्याय 30, Verse 2

भूयः प्रब्रूहि देवेश यत् पृच्छामो जगत्पते ।

श्रोतुमिच्छामहे ब्रह्मन् परं कौतूहलं हि नः ॥ ३०.२॥

Brahma Purana

अध्याय 30, Verse 3

गृहस्थो ब्रह्मचारी च वानप्रस्थोऽथ भिक्षुकः ।

य इच्छेन् मोक्षमास्थातुं देवतां कां यजेत सः ॥ ३०.३॥

Brahma Purana

अध्याय 30, Verse 4

कुतो ह्यस्याक्षयः स्वर्गः कुतो निःश्रेयसं परम् ।

स्वर्गतश्चैव किं कुर्याद् येन न च्यवते पुनः ॥ ३०.४॥

Brahma Purana

अध्याय 30, Verse 5

देवानां चात्र को देवः पितृणां चैव कः पिता ।

यस्मात् परतरं नास्ति तन् मे ब्रूहि सुरेश्वर ॥ ३०.५॥

Brahma Purana

अध्याय 30, Verse 6

कुतः सृष्टमिदं विश्वं सर्वं स्थावरजङ्गमम् ।

प्रलये च कमभ्येति तद् भवान् वक्तुमर्हति ॥ ३०.६॥

Brahma Purana

अध्याय 30, Verse 7

ब्रह्मोवाच ।

उद्यन्न् एवैष कुरुते जगद् वितिमिरं करैः ।

नातः परतरो देवः कश्चिद् अन्यो द्विजोत्तमाः ॥ ३०.७॥

Brahma Purana

अध्याय 30, Verse 8

अनादिनिधनो ह्येष पुरुषः शाश्वतोऽव्ययः ।

तापयत्येष त्रींल्लोकान् भवन् रश्मिभिरुल्बणः ॥ ३०.८॥

Brahma Purana

अध्याय 30, Verse 9

सर्वदेवमयो ह्येष तपतां तपनो वरः ।

सर्वस्य जगतो नाथः सर्वसाक्षी जगत्पतिः ॥ ३०.९॥

Brahma Purana

अध्याय 30, Verse 10

संक्षिपत्येष भूतानि तथा विसृजते पुनः ।

एष भाति तपत्येष वर्षत्येष गभस्तिभिः ॥ ३०.१०॥

Brahma Purana

अध्याय 30, Verse 11

एष धाता विधाता च भूतादिर्भूतभावनः ।

न ह्येष क्षयमायाति नित्यमक्षयमण्डलः ॥ ३०.११॥

Brahma Purana

अध्याय 30, Verse 12

पितृणां च पिता ह्येष देवतानां हि देवता ।

ध्रुवं स्थानं स्मृतं ह्येतद् यस्मान् न च्यवते पुनः ॥ ३०.१२॥

Brahma Purana

अध्याय 30, Verse 13

सर्गकाले जगत् कृत्स्नमादित्यात् सम्प्रसूयते ।

प्रलये च तमभ्येति भास्करं दीप्ततेजसम् ॥ ३०.१३॥

Brahma Purana

अध्याय 30, Verse 14

योगिनश्चाप्यसंख्यातास्त्यक्त्वा गृहकलेवरम् ।

वायुर्भूत्वा विशन्त्यस्मिंस्तेजोराशौ दिवाकरे ॥ ३०.१४॥

Brahma Purana

अध्याय 30, Verse 15

अस्य रश्मिसहस्राणि शाखा इव विहंगमाः ।

वसन्त्याश्रित्य मुनयः संसिद्धा दैवतैः सह ॥ ३०.१५॥

Brahma Purana

अध्याय 30, Verse 16

गृहस्था जनकाद्याश्च राजानो योगधर्मिणः ।

वालखिल्यादयश्चैव ऋषयो ब्रह्मवादिनः ॥ ३०.१६॥

Brahma Purana

अध्याय 30, Verse 17

वानप्रस्थाश्च ये चान्ये व्यासाद्या भिक्षवस्तथा ।

योगमास्थाय सर्वे ते प्रविष्टाः सूर्यमण्डलम् ॥ ३०.१७॥

Brahma Purana

अध्याय 30, Verse 18

शुको व्याससुतः श्रीमान् योगधर्ममवाप्य सः ।

आदित्यकिरणान् गत्वा ह्यपुनर्भावमास्थितः ॥ ३०.१८॥

Brahma Purana

अध्याय 30, Verse 19

शब्दमात्रश्रुतिमुखा ब्रह्मविष्णुशिवादयः ।

प्रत्यक्षोऽयं परो देवः सूर्यस्तिमिरनाशनः ॥ ३०.१९॥

Brahma Purana

अध्याय 30, Verse 20

तस्माद् अन्यत्र भक्तिर्हि न कार्या शुभमिच्छता ।

यस्माद् दृष्टेरगम्यास्ते देवा विष्णुपुरोगमाः ॥ ३०.२०॥

Brahma Purana

अध्याय 30, Verse 21

अतो भवद्भिः सततमभ्यर्च्यो भगवान् रविः ।

स हि माता पिता चैव कृत्स्नस्य जगतो गुरुः ॥ ३०.२१॥

Brahma Purana

अध्याय 30, Verse 22

अनाद्यो लोकनाथोऽसौ रश्मिमाली जगत्पतिः ।

मित्रत्वे च स्थितो यस्मात् तपस्तेपे द्विजोत्तमाः ॥ ३०.२२॥

Brahma Purana

अध्याय 30, Verse 23

अनादिनिधनो ब्रह्मा नित्यश्चाक्षय एव च ।

सृष्ट्वा ससागरान् द्वीपान् भुवनानि चतुर्दश ॥ ३०.२३॥

Brahma Purana

अध्याय 30, Verse 24

लोकानां स हितार्थाय स्थितश्चन्द्रसरित्तटे ।

सृष्ट्वा प्रजापतीन् सर्वान् सृष्ट्वा च विविधाः प्रजाः ॥ ३०.२४॥

Brahma Purana

अध्याय 30, Verse 25

ततः शतसहस्रांशुरव्यक्तश्च पुनः स्वयम् ।

कृत्वा द्वादशधात्मानमादित्यमुपपद्यते ॥ ३०.२५॥

Brahma Purana

अध्याय 30, Verse 26

इन्द्रो धाताथ पर्जन्यस्त्वष्टा पूषार्यमा भगः ।

विवस्वान् विष्णुरंशश्च वरुणो मित्र एव च ॥ ३०.२६॥

Brahma Purana

अध्याय 30, Verse 27

आभिर्द्वादशभिस्तेन सूर्येण परमात्मना ।

कृत्स्नं जगद् इदं व्याप्तं मूर्तिभिश्च द्विजोत्तमाः ॥ ३०.२७॥

Brahma Purana

अध्याय 30, Verse 28

तस्य या प्रथमा मूर्तिरादित्यस्येन्द्रसंज्ञिता ।

स्थिता सा देवराजत्वे देवानां रिपुनाशिनी ॥ ३०.२८॥

Brahma Purana

अध्याय 30, Verse 29

द्वितीया तस्य या मूर्तिर्नाम्ना धातेति कीर्तिता ।

स्थिता प्रजापतित्वेन विविधाः सृजते प्रजाः ॥ ३०.२९॥

Brahma Purana

अध्याय 30, Verse 30

तृतीयार्कस्य या मूर्तिः पर्जन्य इति विश्रुता ।

मेघेष्वेव स्थिता सा तु वर्षते च गभस्तिभिः ॥ ३०.३०॥