अध्याय 3, Verse 1
मुनय ऊचुः ।
देवानां दानवानां च गन्धर्वोरगरक्षसाम् ।
उत्पत्तिं विस्तरेणैव लोमहर्षण कीर्तय ॥ ३.१॥
Containing 126 sacred Sanskrit shlokas with multi-author commentaries and translations.
मुनय ऊचुः ।
देवानां दानवानां च गन्धर्वोरगरक्षसाम् ।
उत्पत्तिं विस्तरेणैव लोमहर्षण कीर्तय ॥ ३.१॥
लोमहर्षण उवाच ।
प्रजाः सृजेति व्यादिष्टः पूर्वं यथा ससर्ज भूतानि तथा शृणुत भो द्विजाः ॥ ३.२॥
मानसान्येव भूतानि पूर्वमेवासृजत् प्रभुः ।
ऋषीन् देवान् सगन्धर्वान् असुरान् यक्षराक्षसान् ॥ ३.३॥
यदास्य मानसी विप्रा न व्यवर्धत वै प्रजा ।
तदा संचिन्त्य धर्मात्मा प्रजाहेतोः प्रजापतिः ॥ ३.४॥
स मैथुनेन धर्मेण सिसृक्षुर्विविधाः प्रजाः ।
असिक्नीमावहत् पत्नीं वीरणस्य प्रजापतेः ॥ ३.५॥
सुतां सुतपसा युक्तां महतीं लोकधारिणीम् ।
अथ पुत्रसहस्राणि वैरण्यां पञ्च वीर्यवान् ॥ ३.६॥
असिक्न्यां जनयामास दक्ष एव प्रजापतिः ।
तांस्तु दृष्ट्वा महाभागान् संविवर्धयिषून् प्रजाः ॥ ३.७॥
देवर्षिः प्रियसंवादो नारदः प्राब्रवीद् इदम् ।
नाशाय वचनं तेषां शापायैवात्मनस्तथा ॥ ३.८॥
यं कश्यपः सुतवरं परमेष्ठी व्यजीजनत् ।
दक्षस्य वै दुहितरि दक्षशापभयान् मुनिः ॥ ३.९॥
पूर्वं स हि समुत्पन्नो नारदः परमेष्ठिनः ।
असिक्न्यामथ वैरण्यां भूयो देवर्षिसत्तमः ॥ ३.१०॥
तं भूयो जनयामास पितेव मुनिपुंगवम् ।
तेन दक्षस्य वै पुत्रा हर्यश्वा इति विश्रुताः ॥ ३.११॥
निर्मथ्य नाशिताः सर्वे विधिना च न संशयः ।
तस्योद्यतस्तदा दक्षो नाशायामितविक्रमः ॥ ३.१२॥
ब्रह्मर्षीन् पुरतः कृत्वा याचितः परमेष्ठिना ।
ततोऽभिसंधिश्चक्रे वै दक्षस्य परमेष्ठिना ॥ ३.१३॥
कन्यायां नारदो मह्यं तव पुत्रो भवेद् इति ।
ततो दक्षः सुतां प्रादात् प्रियां वै परमेष्ठिने ।
स तस्यां नारदो जज्ञे भूयः शापभयाद् ऋषिः ॥ ३.१४॥
मुनय ऊचुः ।
कथं प्रणाशिताः पुत्रा नारदेन महर्षिणा ।
प्रजापतेः सूतवर्य श्रोतुमिच्छाम तत्त्वतः ॥ ३.१५॥
लोमहर्षण उवाच ।
दक्षस्य पुत्रा हर्यश्वा समागता महावीर्या नारदस्तान् उवाच ह ॥ ३.१६॥
नारद उवाच ।
बालिशा बत यूयं वै नास्या जानीत वै भुवः ।
प्रमाणं स्रष्टुकामा वै प्रजाः प्राचेतसात्मजाः ॥ ३.१७॥
अन्तरूर्ध्वमधश्चैव कथं सृजथ वै प्रजाः ।
ते तु तद्वचनं श्रुत्वा प्रयाताः सर्वतो दिशः ॥ ३.१८॥
अद्यापि न निवर्तन्ते समुद्रेभ्य इवापगाः ।
हर्यश्वेष्वथ नष्टेषु दक्षः प्राचेतसः पुनः ॥ ३.१९॥
वैरण्यामथ पुत्राणां सहस्रमसृजत् प्रभुः ।
विवर्धयिषवस्ते तु शबलाश्वास्तथा प्रजाः ॥ ३.२०॥
पूर्वोक्तं वचनं ते तु नारदेन प्रचोदिताः ।
अन्योन्यमूचुस्ते सर्वे सम्यग् आह महान् ऋषिः ॥ ३.२१॥
भ्रातृणां पदवीं ज्ञातुं गन्तव्यं नात्र संशयः ।
ज्ञात्वा प्रमाणं पृथ्व्याश्च सुखं स्रक्ष्यामहे प्रजाः ॥ ३.२२॥
तेऽपि तेनैव मार्गेण प्रयाताः सर्वतो दिशम् ।
अद्यापि न निवर्तन्ते समुद्रेभ्य इवापगाः ॥ ३.२३॥
तदा प्रभृति वै भ्राता भ्रातुरन्वेषणे द्विजाः ।
प्रयातो नश्यति क्षिप्रं तन् न कार्यं विपश्चिता ॥ ३.२४॥
तांश्चैव नष्टान् विज्ञाय पुत्रान् दक्षः प्रजापतिः ।
षष्टिं ततोऽसृजत् कन्या वैरण्यामिति नः श्रुतम् ॥ ३.२५॥
तास्तदा प्रतिजग्राह भार्यार्थं कश्यपः प्रभुः ।
सोमो धर्मश्च भो विप्रास्तथैवान्ये महर्षयः ॥ ३.२६॥
ददौ स दश धर्माय कश्यपाय त्रयोदश ।
सप्तविंशति सोमाय चतस्रोऽरिष्टनेमिने ॥ ३.२७॥
द्वे चैव बहुपुत्राय द्वे चैवाङ्गिरसे तथा ।
द्वे कृशाश्वाय विदुषे तासां नामानि मे शृणु ॥ ३.२८॥
अरुन्धती वसुर्यामी लम्बा भानुर्मरुत्वती ।
संकल्पा च मुहूर्ता च साध्या विश्वा च भो द्विजाः ॥ ३.२९॥
धर्मपत्न्यो दश त्वेतास्तास्वपत्यानि बोधत ।
विश्वेदेवास्तु विश्वायाः साध्या साध्यान् व्यजायत ॥ ३.३०॥