अध्याय 29, Verse 1
मुनय ऊचुः ।
श्रुतोऽस्माभिः सुरश्रेष्ठ भवता यद् उदाहृतम् ।
भास्करस्य परं क्षेत्रं भुक्तिमुक्तिफलप्रदम् ॥ २९.१॥
Containing 61 sacred Sanskrit shlokas with multi-author commentaries and translations.
मुनय ऊचुः ।
श्रुतोऽस्माभिः सुरश्रेष्ठ भवता यद् उदाहृतम् ।
भास्करस्य परं क्षेत्रं भुक्तिमुक्तिफलप्रदम् ॥ २९.१॥
न तृप्तिमधिगच्छामः शृण्वन्तः सुखदां कथाम् ।
तव वक्त्रोद्भवां पुण्यामादित्यस्याघनाशिनीम् ॥ २९.२॥
अतः परं सुरश्रेष्ठ ब्रूहि नो वदतां वर ।
देवपूजाफलं यच्च यच्च दानफलं प्रभो ॥ २९.३॥
प्रणिपाते नमस्कारे तथा चैव प्रदक्षिणे ।
दीपधूपप्रदाने च सम्मार्जनविधौ च यत् ॥ २९.४॥
उपवासे च यत् पुण्यं यत् पुण्यं नक्तभोजने ।
अर्घश्च कीदृशः प्रोक्तः कुत्र वा सम्प्रदीयते ॥ २९.५॥
कथं च क्रियते भक्तिः कथं देवः प्रसीदति ।
एतत् सर्वं सुरश्रेष्ठ श्रोतुमिच्छामहे वयम् ॥ २९.६॥
ब्रह्मोवाच ।
अर्घ्यं पूजादिकं सर्वं भास्करस्य द्विजोत्तमाः ।
भक्तिं श्रद्धां समाधिं च कथ्यमानं निबोधत ॥ २९.७॥
मनसा भावना भक्तिरिष्टा श्रद्धा च कीर्त्यते ।
ध्यानं समाधिरित्युक्तं शृणुध्वं सुसमाहिताः ॥ २९.८॥
तत्कथां श्रावयेद् यस्तु तद्भक्तान् पूजयीत वा ।
अग्निशुश्रूषकश्चैव स वै भक्तः सनातनः ॥ २९.९॥
तच्चित्तस्तन्मनाश्चैव देवपूजारतः सदा ।
तत्कर्मकृद् भवेद् यस्तु स वै भक्तः सनातनः ॥ २९.१०॥
देवार्थे क्रियमाणानि यः कर्माण्यनुमन्यते ।
कीर्तनाद् वा परो विप्राः स वै भक्ततरो नरः ॥ २९.११॥
नाभ्यसूयेत तद्भक्तान् न निन्द्याच्चान्यदेवताम् ।
आदित्यव्रतचारी च स वै भक्ततरो नरः ॥ २९.१२॥
गच्छंस्तिष्ठन् स्वपञ् जिघ्रन्न् उन्मिषन् निमिषन्न् अपि ।
यः स्मरेद् भास्करं नित्यं स वै भक्ततरो नरः ॥ २९.१३॥
एवंविधा त्वियं भक्तिः सदा कार्या विजानता ।
भक्त्या समाधिना चैव स्तवेन मनसा तथा ॥ २९.१४॥
क्रियते नियमो यस्तु दानं विप्राय दीयते ।
प्रतिगृह्णन्ति तं देवा मनुष्याः पितरस्तथा ॥ २९.१५॥
पत्त्रं पुष्पं फलं तोयं यद् भक्त्या समुपाहृतम् ।
प्रतिगृह्णन्ति तद् देवा नास्तिकान् वर्जयन्ति च ॥ २९.१६॥
भावशुद्धिः प्रयोक्तव्या नियमाचारसंयुता ।
भावशुद्ध्या क्रियते यत् तत् सर्वं सफलं भवेत् ॥ २९.१७॥
स्तुतिजप्योपहारेण पूजयापि विवस्वतः ।
उपवासेन भक्त्या वै सर्वपापैः प्रमुच्यते ॥ २९.१८॥
प्रणिधाय शिरो भूम्यां नमस्कारं करोति यः ।
तत्क्षणात् सर्वपापेभ्यो मुच्यते नात्र संशयः ॥ २९.१९॥
भक्तियुक्तो नरो योऽसौ रवेः कुर्यात् प्रदक्षिणाम् ।
प्रदक्षिणीकृता तेन सप्तद्वीपा वसुंधरा ॥ २९.२०॥
सूर्यं मनसि यः कृत्वा कुर्याद् व्योमप्रदक्षिणाम् ।
प्रदक्षिणीकृतास्तेन सर्वे देवा भवन्ति हि ॥ २९.२१॥
एकाहारो नरो भूत्वा षष्ठ्यां योऽर्चयते रविम् ।
नियमव्रतचारी च भवेद् भक्तिसमन्वितः ॥ २९.२२॥
सप्तम्यां वा महाभागाः सोऽश्वमेधफलं लभेत् ।
अहोरात्रोपवासेन पूजयेद् यस्तु भास्करम् ॥ २९.२३॥
सप्तम्यामथवा षष्ठ्यां स याति परमां गतिम् ।
कृष्णपक्षस्य सप्तम्यां सोपवासो जितेन्द्रियः ॥ २९.२४॥
सर्वरत्नोपहारेण पूजयेद् यस्तु भास्करम् ।
पद्मप्रभेण यानेन सूर्यलोकं स गच्छति ॥ २९.२५॥
शुक्लपक्षस्य सप्तम्यामुपवासपरो नरः ।
सर्वशुक्लोपहारेण पूजयेद् यस्तु भास्करम् ॥ २९.२६॥
सर्वपापविनिर्मुक्तः सूर्यलोकं स गच्छति ।
अर्कसम्पुटसंयुक्तमुदकं प्रसृतं पिबेत् ॥ २९.२७॥
क्रमवृद्ध्या चतुर्विंशमेकैकं क्षपयेत् पुनः ।
द्वाभ्यां संवत्सराभ्यां तु समाप्तनियमो भवेत् ॥ २९.२८॥
सर्वकामप्रदा ह्येषा प्रशस्ता ह्यर्कसप्तमी ।
शुक्लपक्षस्य सप्तम्यां यदादित्यदिनं भवेत् ॥ २९.२९॥
सप्तमी विजया नाम तत्र दत्तं महत् फलम् ।
स्नानं दानं तपो होम उपवासस्तथैव च ॥ २९.३०॥