अध्याय 28, Verse 1
ब्रह्मोवाच ।
तत्रास्ते भारते वर्षे दक्षिणोदधिसंस्थितः ।
ओण्ड्रदेश इति ख्यातः स्वर्गमोक्षप्रदायकः ॥ २८.१॥
Containing 65 sacred Sanskrit shlokas with multi-author commentaries and translations.
ब्रह्मोवाच ।
तत्रास्ते भारते वर्षे दक्षिणोदधिसंस्थितः ।
ओण्ड्रदेश इति ख्यातः स्वर्गमोक्षप्रदायकः ॥ २८.१॥
समुद्राद् उत्तरं तावद् यावद् विरजमण्डलम् ।
देशोऽसौ पुण्यशीलानां गुणैः सर्वैरलंकृतः ॥ २८.२॥
तत्र देशप्रसूता ये ब्राह्मणाः संयतेन्द्रियाः ।
तपःस्वाध्यायनिरता वन्द्याः पूज्याश्च ते सदा ॥ २८.३॥
श्राद्धे दाने विवाहे च यज्ञे वाचार्यकर्मणि ।
प्रशस्ताः सर्वकार्येषु तत्रदेशोद्भवा द्विजाः ॥ २८.४॥
षट्कर्मनिरतास्तत्र ब्राह्मणा वेदपारगाः ।
इतिहासविदश्चैव पुराणार्थविशारदाः ॥ २८.५॥
सर्वशास्त्रार्थकुशला यज्वानो वीतमत्सराः ।
अग्निहोत्ररताः केचित् केचित् स्मार्ताग्नितत्पराः ॥ २८.६॥
पुत्रदारधनैर्युक्ता दातारः सत्यवादिनः ।
निवसन्त्युत्कले पुण्ये यज्ञोत्सवविभूषिते ॥ २८.७॥
इतरेऽपि त्रयो वर्णाः क्षत्रियाद्याः सुसंयताः ।
स्वकर्मनिरताः शान्तास्तत्र तिष्ठन्ति धार्मिकाः ॥ २८.८॥
कोणादित्य इति ख्यातस्तस्मिन् देशे व्यवस्थितः ।
यं दृष्ट्वा भास्करं मर्त्यः सर्वपापैः प्रमुच्यते ॥ २८.९॥
मुनय ऊचुः ।
श्रोतुमिच्छाम तद् ब्रूहि क्षेत्रं सूर्यस्य साम्प्रतम् ।
तस्मिन् देशे सुरश्रेष्ठ यत्रास्ते स दिवाकरः ॥ २८.१०॥
ब्रह्मोवाच ।
लवणस्योदधेस्तीरे पवित्रे सुमनोहरे ।
सर्वत्र वालुकाकीर्णे देशे सर्वगुणान्विते ॥ २८.११॥
चम्पकाशोकबकुलैः करवीरैः सपाटलैः ।
पुंनागैः कर्णिकारैश्च बकुलैर्नागकेसरैः ॥ २८.१२॥
तगरैर्धवबाणैश्च अतिमुक्तैः सकुब्जकैः ।
मालतीकुन्दपुष्पैश्च तथान्यैर्मल्लिकादिभिः ॥ २८.१३॥
केतकीवनखण्डैश्च सर्वर्तुकुसुमोज्ज्वलैः ।
कदम्बैर्लकुचैः शालैः पनसैर्देवदारुभिः ॥ २८.१४॥
सरलैर्मुचुकुन्दैश्च चन्दनैश्च सितेतरैः ।
अश्वत्थैः सप्तपर्णैश्च आम्रैराम्रातकैस्तथा ॥ २८.१५॥
तालैः पूगफलैश्चैव नारिकेरैः कपित्थकैः ।
अन्यैश्च विविधैर्वृक्षैः सर्वतः समलंकृतम् ॥ २८.१६॥
क्षेत्रं तत्र रवेः पुण्यमास्ते जगति विश्रुतम् ।
समन्ताद् योजनं साग्रं भुक्तिमुक्तिफलप्रदम् ॥ २८.१७॥
आस्ते तत्र स्वयं देवः सहस्रांशुर्दिवाकरः ।
कोणादित्य इति ख्यातो भुक्तिमुक्तिफलप्रदः ॥ २८.१८॥
माघे मासि सिते पक्षे सप्तम्यां संयतेन्द्रियः ।
कृतोपवासो यत्रेत्य स्नात्वा तु मकरालये ॥ २८.१९॥
कृतशौचो विशुद्धात्मा स्मरन् देवं दिवाकरम् ।
सागरे विधिवत् स्नात्वा शर्वर्यन्ते समाहितः ॥ २८.२०॥
देवान् ऋषीन् मनुष्यांश्च पितृन् संतर्प्य च द्विजाः ।
उत्तीर्य वाससी धौते परिधाय सुनिर्मले ॥ २८.२१॥
आचम्य प्रयतो भूत्वा तीरे तस्य महोदधेः ।
उपविश्योदये काले प्राङ्मुखः सवितुस्तदा ॥ २८.२२॥
विलिख्य पद्मं मेधावी रक्तचन्दनवारिणा ।
अष्टपत्त्रं केसराढ्यं वर्तुलं चोर्ध्वकर्णिकम् ॥ २८.२३॥
तिलतण्डुलतोयं च रक्तचन्दनसंयुतम् ।
रक्तपुष्पं सदर्भं च प्रक्षिपेत् ताम्रभाजने ॥ २८.२४॥
ताम्राभावेऽर्कपत्त्रस्य पुटे कृत्वा तिलादिकम् ।
पिधाय तन् मुनिश्रेष्ठाः पात्रं पात्रेण विन्यसेत् ॥ २८.२५॥
करन्यासाङ्गविन्यासं कृत्वाङ्गैर्हृदयादिभिः ।
आत्मानं भास्करं ध्यात्वा सम्यक् श्रद्धासमन्वितः ॥ २८.२६॥
मध्ये चाग्निदले धीमान् नैरृते श्वसने दले ।
कामारिगोचरे चैव पुनर्मध्ये च पूजयेत् ॥ २८.२७॥
प्रभूतं विमलं सारमाराध्यं परमं सुखम् ।
सम्पूज्य पद्ममावाह्य गगनात् तत्र भास्करम् ॥ २८.२८॥
कर्णिकोपरि संस्थाप्य ततो मुद्रां प्रदर्शयेत् ।
कृत्वा स्नानादिकं सर्वं ध्यात्वा तं सुसमाहितः ॥ २८.२९॥
सितपद्मोपरि रविं तेजोबिम्बे व्यवस्थितम् ।
पिङ्गाक्षं द्विभुजं रक्तं पद्मपत्त्रारुणाम्बरम् ॥ २८.३०॥