अध्याय 27, Verse 1
ब्रह्मोवाच ।
शृणुध्वं मुनयः सर्वे यद् वो वक्ष्यामि साम्प्रतम् ।
पुराणं वेदसम्बद्धं भुक्तिमुक्तिप्रदं शुभम् ॥ २७.१॥
Containing 80 sacred Sanskrit shlokas with multi-author commentaries and translations.
ब्रह्मोवाच ।
शृणुध्वं मुनयः सर्वे यद् वो वक्ष्यामि साम्प्रतम् ।
पुराणं वेदसम्बद्धं भुक्तिमुक्तिप्रदं शुभम् ॥ २७.१॥
पृथिव्यां भारतं वर्षं कर्मभूमिरुदाहृता ।
कर्मणः फलभूमिश्च स्वर्गं च नरकं तथा ॥ २७.२॥
तस्मिन् वर्षे नरः पापं कृत्वा धर्मं च भो द्विजाः ।
अवश्यं फलमाप्नोति अशुभस्य शुभस्य च ॥ २७.३॥
ब्राह्मणाद्याः स्वकं कर्म कृत्वा सम्यक् सुसंयताः ।
प्राप्नुवन्ति परां सिद्धिं तस्मिन् वर्षे न संशयः ॥ २७.४॥
धर्मं चार्थं च कामं च मोक्षं च द्विजसत्तमाः ।
प्राप्नोति पुरुषः सर्वं तस्मिन् वर्षे सुसंयतः ॥ २७.५॥
इन्द्राद्याश्च सुराः सर्वे तस्मिन् वर्षे द्विजोत्तमाः ।
कृत्वा सुशोभनं कर्म देवत्वं प्रतिपेदिरे ॥ २७.६॥
अन्येऽपि लेभिरे मोक्षं पुरुषाः संयतेन्द्रियाः ।
तस्मिन् वर्षे बुधाः शान्ता वीतरागा विमत्सराः ॥ २७.७॥
ये चापि स्वर्गे तिष्ठन्ति विमानेन गतज्वराः ।
तेऽपि कृत्वा शुभं कर्म तस्मिन् वर्षे दिवं गताः ॥ २७.८॥
निवासं भारते वर्ष आकाङ्क्षन्ति सदा सुराः ।
स्वर्गापवर्गफलदे तत् पश्यामः कदा वयम् ॥ २७.९॥
मुनय ऊचुः ।
यद् एतद् भवता प्रोक्तं कर्म नान्यत्र पुण्यदम् ।
पापाय वा सुरश्रेष्ठ वर्जयित्वा च भारतम् ॥ २७.१०॥
ततः स्वर्गश्च मोक्षश्च मध्यमं तच्च गम्यते ।
न खल्वन्यत्र मर्त्यानां भूमौ कर्म विधीयते ॥ २७.११॥
तस्माद् विस्तरतो ब्रह्मन्न् अस्माकं भारतं वद ।
यदि तेऽस्ति दयास्मासु यथावस्थितिरेव च ॥ २७.१२॥
तस्माद् वर्षमिदं नाथ ये वास्मिन् वर्षपर्वताः ।
भेदाश्च तस्य वर्षस्य ब्रूहि सर्वान् अशेषतः ॥ २७.१३॥
ब्रह्मोवाच ।
शृणुध्वं भारतं वर्षं नवभेदेन भो द्विजाः ।
समुद्रान्तरिता ज्ञेयास्ते समाश्च परस्परम् ॥ २७.१४॥
इन्द्रद्वीपः कशेरुश्च ताम्रवर्णो गभस्तिमान् ।
नागद्वीपस्तथा सौम्यो गान्धर्वो वारुणस्तथा ॥ २७.१५॥
अयं तु नवमस्तेषां द्वीपः सागरसंवृतः ।
योजनानां सहस्रं वै द्वीपोऽयं दक्षिणोत्तरः ॥ २७.१६॥
पूर्वे किराता यस्यासन् पश्चिमे यवनास्तथा ।
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चान्ते स्थिता द्विजाः ॥ २७.१७॥
इज्यायुद्धवणिज्याद्यैः कर्मभिः कृतपावनाः ।
तेषां संव्यवहारश्च एभिः कर्मभिरिष्यते ॥ २७.१८॥
स्वर्गापवर्गहेतुश्च पुण्यं पापं च वै तथा ।
महेन्द्रो मलयः सह्यः शुक्तिमान् ऋक्षपर्वतः ॥ २७.१९॥
विन्ध्यश्च पारियात्रश्च सप्तैवात्र कुलाचलाः ।
तेषां सहस्रशश्चान्ये भूधरा ये समीपगाः ॥ २७.२०॥
विस्तारोच्छ्रयिणो रम्या विपुलाश्चित्रसानवः ।
कोलाहलः स वैभ्राजो मन्दरो दर्दलाचलः ॥ २७.२१॥
वातंधयो वैद्युतश्च मैनाकः सुरसस्तथा ।
तुङ्गप्रस्थो नागगिरिर्गोधनः पाण्डराचलः ॥ २७.२२॥
पुष्पगिरिर्वैजयन्तो रैवतोऽर्बुद एव च ।
ऋष्यमूकः स गोमन्थः कृतशैलः कृताचलः ॥ २७.२३॥
श्रीपार्वतश्चकोरश्च शतशोऽन्ये च पर्वताः ।
तैर्विमिश्रा जनपदा म्लेच्छाद्याश्चैव भागशः ॥ २७.२४॥
तैः पीयन्ते सरिच्छ्रेष्ठास्ता बुध्यध्वं द्विजोत्तमाः ।
गङ्गा सरस्वती सिन्धुश्चन्द्रभागा तथापरा ॥ २७.२५॥
यमुना शतद्रुर्विपाशा वितस्तैरावती कुहूः ।
गोमती धूतपापा च बाहुदा च दृषद्वती ॥ २७.२६॥
विपाशा देविका चक्षुर्निष्ठीवा गण्डकी तथा ।
कौशिकी चापगा चैव हिमवत्पादनिःसृताः ॥ २७.२७॥
देवस्मृतिर्देववती वातघ्नी सिन्धुरेव च ।
वेण्या तु चन्दना चैव सदानीरा मही तथा ॥ २७.२८॥
चर्मण्वती वृषी चैव विदिशा वेदवत्यपि ।
सिप्रा ह्यवन्ती च तथा पारियात्रानुगाः स्मृताः ॥ २७.२९॥
शोणा महानदी चैव नर्मदा सुरथा क्रिया ।
मन्दाकिनी दशार्णा च चित्रकूटा तथापरा ॥ २७.३०॥