अध्याय 26, Verse 1
मुनय ऊचुः ।
पृथिव्यामुत्तमां भूमिं धर्मकामार्थमोक्षदाम् ।
तीर्थानामुत्तमं तीर्थं ब्रूहि नो वदतां वर ॥ २६.१॥
Containing 37 sacred Sanskrit shlokas with multi-author commentaries and translations.
मुनय ऊचुः ।
पृथिव्यामुत्तमां भूमिं धर्मकामार्थमोक्षदाम् ।
तीर्थानामुत्तमं तीर्थं ब्रूहि नो वदतां वर ॥ २६.१॥
लोमहर्षण उवाच ।
इमं प्रश्नं मम गुरुं पप्रच्छुर्मुनयः पुरा ।
तमहं सम्प्रवक्ष्यामि यत् पृच्छध्वं द्विजोत्तमाः ॥ २६.२॥
स्वाश्रमे सुमहापुण्ये नानापुष्पोपशोभिते ।
नानाद्रुमलताकीर्णे नानामृगगणैर्युते ॥ २६.३॥
पुंनागैः कर्णिकारैश्च सरलैर्देवदारुभिः ।
शालैस्तालैस्तमालैश्च पनसैर्धवखादिरैः ॥ २६.४॥
पाटलाशोकबकुलैः करवीरैः सचम्पकैः ।
अन्यैश्च विविधैर्वृक्षैर्नानापुष्पोपशोभितैः ॥ २६.५॥
कुरुक्षेत्रे समासीनं व्यासं मतिमतां वरम् ।
महाभारतकर्तारं सर्वशास्त्रविशारदम् ॥ २६.६॥
अध्यात्मनिष्ठं सर्वज्ञं सर्वभूतहिते रतम् ।
पुराणागमवक्तारं वेदवेदाङ्गपारगम् ॥ २६.७॥
पराशरसुतं शान्तं पद्मपत्त्रायतेक्षणम् ।
द्रष्टुमभ्याययुः प्रीत्या मुनयः संशितव्रताः ॥ २६.८॥
कश्यपो जमदग्निश्च भरद्वाजोऽथ गौतमः ।
वसिष्ठो जैमिनिर्धौम्यो मार्कण्डेयोऽथ वाल्मिकिः ॥ २६.९॥
विश्वामित्रः शतानन्दो वात्स्यो गार्ग्योऽथ आसुरिः ।
सुमन्तुर्भार्गवो नाम कण्वो मेधातिथिर्गुरुः ॥ २६.१०॥
माण्डव्यश्च्यवनो धूम्रो ह्यसितो देवलस्तथा ।
मौद्गल्यस्तृणयज्ञश्च पिप्पलादोऽकृतव्रणः ॥ २६.११॥
संवर्तः कौशिको रैभ्यो मैत्रेयो हरितस्तथा ।
शाण्डिल्यश्च विभाण्डश्च दुर्वासा लोमशस्तथा ॥ २६.१२॥
नारदः पर्वतश्चैव वैशम्पायनगालवौ ।
भास्करिः पूरणः सूतः पुलस्त्यः कपिलस्तथा ॥ २६.१३॥
उलूकः पुलहो वायुर्देवस्थानश्चतुर्भुजः ।
सनत्कुमारः पैलश्च कृष्णः कृष्णानुभौतिकः ॥ २६.१४॥
एतैर्मुनिवरैश्चान्यैर्वृतः सत्यवतीसुतः ।
रराज स मुनिः श्रीमान् नक्षत्रैरिव चन्द्रमाः ॥ २६.१५॥
तान् आगतान् मुनीन् सर्वान् पूजयामास वेदवित् ।
तेऽपि तं प्रतिपूज्यैव कथां चक्रुः परस्परम् ॥ २६.१६॥
कथान्ते ते मुनिश्रेष्ठाः कृष्णं सत्यवतीसुतम् ।
पप्रच्छुः संशयं सर्वे तपोवननिवासिनः ॥ २६.१७॥
मुनय ऊचुः ।
मुने वेदांश्च शास्त्राणि पुराणागमभारतम् ।
भूतं भव्यं भविष्यं च सर्वं जानासि वाङ्मयम् ॥ २६.१८॥
कष्टेऽस्मिन् दुःखबहुले निःसारे भवसागरे ।
रागग्राहाकुले रौद्रे विषयोदकसम्प्लवे ॥ २६.१९॥
इन्द्रियावर्तकलिले दृष्टोर्मिशतसंकुले ।
मोहपङ्काविले दुर्गे लोभगम्भीरदुस्तरे ॥ २६.२०॥
निमज्जज्जगद् आलोक्य निरालम्बमचेतनम् ।
पृच्छामस्त्वां महाभागं ब्रूहि नो मुनिसत्तम ॥ २६.२१॥
श्रेयः किमत्र संसारे भैरवे लोमहर्षणे ।
उपदेशप्रदानेन लोकान् उद्धर्तुमर्हसि ॥ २६.२२॥
दुर्लभं परमं क्षेत्रं वक्तुमर्हसि मोक्षदम् ।
पृथिव्यां कर्मभूमिं च श्रोतुमिच्छामहे वयम् ॥ २६.२३॥
कृत्वा किल नरः सम्यक् कर्म भूमौ यथोदितम् ।
प्राप्नोति परमां सिद्धिं नरकं च विकर्मतः ॥ २६.२४॥
मोक्षक्षेत्रे तथा मोक्षं प्राप्नोति पुरुषः सुधीः ।
तस्माद् ब्रूहि महाप्राज्ञ यत् पृष्टोऽसि द्विजोत्तम ॥ २६.२५॥
श्रुत्वा तु वचनं तेषां मुनीनां भावितात्मनाम् ।
व्यासः प्रोवाच भगवान् भूतभव्यभविष्यवित् ॥ २६.२६॥
व्यास उवाच ।
शृणुध्वं मुनयः सर्वे वक्ष्यामि यदि पृच्छथ ।
यः संवादोऽभवत् पूर्वम् ऋषीणां ब्रह्मणा सह ॥ २६.२७॥
मेरुपृष्ठे तु विस्तीर्णे नानारत्नविभूषिते ।
नानाद्रुमलताकीर्णे नानापुष्पोपशोभिते ॥ २६.२८॥
नानापक्षिरुते रम्ये नानाप्रसवनाकुले ।
नानासत्त्वसमाकीर्णे नानाश्चर्यसमन्विते ॥ २६.२९॥
नानावर्णशिलाकीर्णे नानाधातुविभूषिते ।
नानामुनिजनाकीर्णे नानाश्रमसमन्विते ॥ २६.३०॥