Brahma Purana

अध्याय 25

Containing 86 sacred Sanskrit shlokas with multi-author commentaries and translations.

Brahma Purana

अध्याय 25, Verse 1

मुनय ऊचुः ।

पृथिव्यां यानि तीर्थानि पुण्यान्यायतनानि च ।

वक्तुमर्हसि धर्मज्ञ श्रोतुं नो वर्तते मनः ॥ २५.१॥

Brahma Purana

अध्याय 25, Verse 2

लोमहर्षण उवाच ।

यस्य हस्तौ च पादौ च मनश्चैव सुसंयतम् ।

विद्या तपश्च कीर्तिश्च स तीर्थफलमश्नुते ॥ २५.२॥

Brahma Purana

अध्याय 25, Verse 3

मनो विशुद्धं पुरुषस्य तीर्थम् ।

वाचां तथा चेन्द्रियनिग्रहश्च ।

एतानि तीर्थानि शरीरजानि ।

स्वर्गस्य मार्गं प्रतिबोधयन्ति ॥ २५.३॥

Brahma Purana

अध्याय 25, Verse 4

चित्तमन्तर्गतं दुष्टं तीर्थस्नानैर्न शुध्यति ।

शतशोऽपि जलैर्धौतं सुराभाण्डमिवाशुचि ॥ २५.४॥

Brahma Purana

अध्याय 25, Verse 5

न तीर्थानि न दानानि न व्रतानि न चाश्रमाः ।

दुष्टाशयं दम्भरुचिं पुनन्ति व्युत्थितेन्द्रियम् ॥ २५.५॥

Brahma Purana

अध्याय 25, Verse 6

इन्द्रियाणि वशे कृत्वा यत्र यत्र वसेन् नरः ।

तत्र तत्र कुरुक्षेत्रं प्रयागं पुष्करं तथा ॥ २५.६॥

Brahma Purana

अध्याय 25, Verse 7

तस्माच्छृणुध्वं वक्ष्यामि तीर्थान्यायतनानि च ।

संक्षेपेण मुनिश्रेष्ठाः पृथिव्यां यानि कानि वै ॥ २५.७॥

Brahma Purana

अध्याय 25, Verse 8

विस्तरेण न शक्यन्ते वक्तुं वर्षशतैरपि ।

प्रथमं पुष्करं तीर्थं नैमिषारण्यमेव च ॥ २५.८॥

Brahma Purana

अध्याय 25, Verse 9

प्रयागं च प्रवक्ष्यामि धर्मारण्यं द्विजोत्तमाः ।

धेनुकं चम्पकारण्यं सैन्धवारण्यमेव च ॥ २५.९॥

Brahma Purana

अध्याय 25, Verse 10

पुण्यं च मगधारण्यं दण्डकारण्यमेव च ।

गया प्रभासं श्रीतीर्थं दिव्यं कनखलं तथा ॥ २५.१०॥

Brahma Purana

अध्याय 25, Verse 11

भृगुतुङ्गं हिरण्याक्षं भीमारण्यं कुशस्थलीम् ।

लोहाकुलं सकेदारं मन्दरारण्यमेव च ॥ २५.११॥

Brahma Purana

अध्याय 25, Verse 12

महाबलं कोटितीर्थं सर्वपापहरं तथा ।

रूपतीर्थं शूकरवं चक्रतीर्थं महाफलम् ॥ २५.१२॥

Brahma Purana

अध्याय 25, Verse 13

योगतीर्थं सोमतीर्थं तीर्थं साहोटकं तथा ।

तीर्थं कोकामुखं पुण्यं बदरीशैलमेव च ॥ २५.१३॥

Brahma Purana

अध्याय 25, Verse 14

सोमतीर्थं तुङ्गकूटं तीर्थं स्कन्दाश्रमं तथा ।

कोटितीर्थं चाग्निपदं तीर्थं पञ्चशिखं तथा ॥ २५.१४॥

Brahma Purana

अध्याय 25, Verse 15

धर्मोद्भवं कोटितीर्थं तीर्थं बाधप्रमोचनम् ।

गङ्गाद्वारं पञ्चकूटं मध्यकेसरमेव च ॥ २५.१५॥

Brahma Purana

अध्याय 25, Verse 16

चक्रप्रभं मतङ्गं च क्रुशदण्डं च विश्रुतम् ।

दंष्ट्राकुण्डं विष्णुतीर्थं सार्वकामिकमेव च ॥ २५.१६॥

Brahma Purana

अध्याय 25, Verse 17

तीर्थं मत्स्यतिलं चैव बदरी सुप्रभं तथा ।

ब्रह्मकुण्डं वह्निकुण्डं तीर्थं सत्यपदं तथा ॥ २५.१७॥

Brahma Purana

अध्याय 25, Verse 18

चतुःस्रोतश्चतुःश‍ृङ्गं शैलं द्वादशधारकम् ।

मानसं स्थूलश‍ृङ्गं च स्थूलदण्डं तथोर्वशी ॥ २५.१८॥

Brahma Purana

अध्याय 25, Verse 19

लोकपालं मनुवरं सोमाह्वशैलमेव च ।

सदाप्रभं मेरुकुण्डं तीर्थं सोमाभिषेचनम् ॥ २५.१९॥

Brahma Purana

अध्याय 25, Verse 20

महास्रोतं कोटरकं पञ्चधारं त्रिधारकम् ।

सप्तधारैकधारं च तीर्थं चामरकण्टकम् ॥ २५.२०॥

Brahma Purana

अध्याय 25, Verse 21

शालग्रामं चक्रतीर्थं कोटिद्रुममनुत्तमम् ।

बिल्वप्रभं देवह्रदं तीर्थं विष्णुह्रदं तथा ॥ २५.२१॥

Brahma Purana

अध्याय 25, Verse 22

शङ्खप्रभं देवकुण्डं तीर्थं वज्रायुधं तथा ।

अग्निप्रभं च पुंनागं देवप्रभमनुत्तमम् ॥ २५.२२॥

Brahma Purana

अध्याय 25, Verse 23

विद्याधरं सगान्धर्वं श्रीतीर्थं ब्रह्मणो ह्रदम् ।

सातीर्थं लोकपालाख्यं मणिपुरगिरिं तथा ॥ २५.२३॥

Brahma Purana

अध्याय 25, Verse 24

तीर्थं पञ्चह्रदं चैव पुण्यं पिण्डारकं तथा ।

मलव्यं गोप्रभावं च गोवरं वटमूलकम् ॥ २५.२४॥

Brahma Purana

अध्याय 25, Verse 25

स्नानदण्डं प्रयागं च गुह्यं विष्णुपदं तथा ।

कन्याश्रमं वायुकुण्डं जम्बूमार्गं तथोत्तमम् ॥ २५.२५॥

Brahma Purana

अध्याय 25, Verse 26

गभस्तितीर्थं च तथा ययातिपतनं शुचि ।

कोटितीर्थं भद्रवटं महाकालवनं तथा ॥ २५.२६॥

Brahma Purana

अध्याय 25, Verse 27

नर्मदातीर्थमपरं तीर्थवज्रं तथार्बुदम् ।

पिङ्गुतीर्थं सवासिष्ठं तीर्थं च पृथसंगमम् ॥ २५.२७॥

Brahma Purana

अध्याय 25, Verse 28

तीर्थं दौर्वासिकं नाम तथा पिञ्जरकं शुभम् ।

ऋषितीर्थं ब्रह्मतुङ्गं वसुतीर्थं कुमारिकम् ॥ २५.२८॥

Brahma Purana

अध्याय 25, Verse 29

शक्रतीर्थं पञ्चनदं रेणुकातीर्थमेव च ।

पैतामहं च विमलं रुद्रपादं तथोत्तमम् ॥ २५.२९॥

Brahma Purana

अध्याय 25, Verse 30

मणिमत्तं च कामाख्यं कृष्णतीर्थं कुशाविलम् ।

यजनं याजनं चैव तथैव ब्रह्मवालुकम् ॥ २५.३०॥