अध्याय 246, Verse 1
लोमहर्षण उवाच ।
एवं पुरा मुनीन् व्यासः पुराणं श्लक्ष्णया गिरा ।
दशाष्टदोषरहितैर्वाक्यैः सारतरैर्द्विजाः ॥ २४६.१॥
Containing 40 sacred Sanskrit shlokas with multi-author commentaries and translations.
लोमहर्षण उवाच ।
एवं पुरा मुनीन् व्यासः पुराणं श्लक्ष्णया गिरा ।
दशाष्टदोषरहितैर्वाक्यैः सारतरैर्द्विजाः ॥ २४६.१॥
पूर्णमस्तमलैः शुद्धैर् नानाशास्त्रसमुच्चयैः ।
जातिशुद्धसमायुक्तं साधुशब्दोपशोभितम् ॥ २४६.२॥
पूर्वपक्षोक्तिसिद्धान्त+ ।
परिनिष्ठासमन्वितम् ।
श्रावयित्वा यथान्यायं विरराम महामतिः ॥ २४६.३॥
तेऽपि श्रुत्वा मुनिश्रेष्ठाः पुराणं वेदसम्मितम् ।
आद्यं ब्राह्माभिधानं च सर्ववाञ्छाफलप्रदम् ॥ २४६.४॥
हृष्टा बभूवुः सुप्रीता विस्मिताश्च पुनः पुनः ।
प्रशशंसुस्तदा व्यासं कृष्णद्वैपायनं मुनिम् ॥ २४६.५॥
मुनय ऊचुः ।
अहो त्वया मुनिश्रेष्ठ पुराणं श्रुतिसम्मितम् ।
सर्वाभिप्रेतफलदं सर्वपापहरं परम् ॥ २४६.६॥
प्रोक्तं श्रुतं तथास्माभिर्विचित्रपदमक्षरम् ।
न तेऽस्त्यविदितं किंचित् त्रिषु लोकेषु वै प्रभो ॥ २४६.७॥
सर्वज्ञस्त्वं महाभाग देवेष्विव बृहस्पतिः ।
नमस्यामो महाप्राज्ञं ब्रह्मिष्ठं त्वां महामुनिम् ॥ २४६.८॥
येन त्वया तु वेदार्था भारते प्रकटीकृताः ।
कः शक्नोति गुणान् वक्तुं तव सर्वान् महामुने ॥ २४६.९॥
अधीत्य चतुरो वेदान् साङ्गान् व्याकरणानि च ।
कृतवान् भारतं शास्त्रं तस्मै ज्ञानात्मने नमः ॥ २४६.१०॥
नमोऽस्तु ते व्यास विशालबुद्धे ।
फुल्लारविन्दायतपत्त्रनेत्र ।
येन त्वया भारततैलपूर्णः ।
प्रज्वालितो ज्ञानमयः प्रदीपः ॥ २४६.११॥
अज्ञानतिमिरान्धानां भ्रामितानां कुदृष्टिभिः ।
ज्ञानाञ्जनशलाकेन त्वया चोन्मीलिता दृशः ॥ २४६.१२॥
एवमुक्त्वा समभ्यर्च्य व्यासं ते चैव पूजिताः ।
जग्मुर्यथागतं सर्वे कृतकृत्याः स्वमाश्रमम् ॥ २४६.१३॥
तथा मया मुनिश्रेष्ठा कथितं हि सनातनम् ।
पुराणं सुमहापुण्यं सर्वपापप्रणाशनम् ॥ २४६.१४॥
यथा भवद्भिः पृष्टोऽहं सम्प्रश्नं द्विजसत्तमाः ।
व्यासप्रसादात् तत् सर्वं मया सम्परिकीर्तितम् ॥ २४६.१५॥
इदं गृहस्थैः श्रोतव्यं यतिभिर्ब्रह्मचारिभिः ।
धनसौख्यप्रदं नृणां पवित्रं पापनाशनम् ॥ २४६.१६॥
तथा ब्रह्मपरैर्विप्रैर्ब्राह्मणाद्यैः सुसंयतैः ।
श्रोतव्यं सुप्रयत्नेन सम्यक् श्रेयोभिकाङ्क्षिभिः ॥ २४६.१७॥
प्राप्नोति ब्राह्मणो विद्यां क्षत्रियो विजयं रणे ।
वैश्यस्तु धनमक्षय्यं शूद्रः सुखमवाप्नुयात् ॥ २४६.१८॥
यं यं काममभिध्यायञ् शृणोति पुरुषः शुचिः ।
तं तं काममवाप्नोति नरो नास्त्यत्र संशयः ॥ २४६.१९॥
पुराणं वैष्णवं त्वेतत् सर्वकिल्बिषनाशनम् ।
विशिष्टं सर्वशास्त्रेभ्यः पुरुषार्थोपपादकम् ॥ २४६.२०॥
एतद् वो यन् मयाख्यातं पुराणं वेदसम्मितम् ।
श्रुतेऽस्मिन् सर्वदोषोत्थः पापराशिः प्रणश्यति ॥ २४६.२१॥
प्रयागे पुष्करे चैव कुरुक्षेत्रे तथार्बुदे ।
उपोष्य यद् अवाप्नोति तद् अस्य श्रवणान् नरः ॥ २४६.२२॥
यद् अग्निहोत्रे सुहुते वर्षे नाप्नोति वै फलम् ।
महापुण्यमयं विप्रास्तद् अस्य श्रवणात् सकृत् ॥ २४६.२३॥
यज्ज्येष्ठशुक्लद्वादश्यां स्नात्वा वै यमुनाजले ।
मथुरायां हरिं दृष्ट्वा प्राप्नोति पुरुषः फलम् ॥ २४६.२४॥
तद् आप्नोति फलं सम्यक् समाधानेन कीर्तनात् ।
पुराणेऽस्य हितो विप्राः केशवार्पितमानसः ॥ २४६.२५॥
यत् फलं क्रियमालोक्य पुरुषोऽथ लभेन् नरः ।
तत् फलं समवाप्नोति यः पठेच्छृणुयाद् अपि ॥ २४६.२६॥
इदं यः श्रद्धया नित्यं पुराणं वेदसम्मितम् ।
यः पठेच्छृणुयान् मर्त्यः स याति भुवनं हरेः ॥ २४६.२७॥
श्रावयेद् ब्राह्मणो यस्तु सदा पर्वसु संयतः ।
एकादश्यां द्वादश्यां च विष्णुलोकं स गच्छति ॥ २४६.२८॥
इदं यशस्यमायुष्यं सुखदं कीर्तिवर्धनम् ।
बलपुष्टिप्रदं नृणां धन्यं दुःस्वप्ननाशनम् ॥ २४६.२९॥
त्रिसंध्यं यः पठेद् विद्वाञ् श्रद्धया सुसमाहितः ।
इदं वरिष्ठमाख्यानं स सर्वमीप्सितं लभेत् ॥ २४६.३०॥