अध्याय 244, Verse 1
वसिष्ठ उवाच ।
सांख्यदर्शनमेतावद् उक्तं ते नृपसत्तम ।
विद्याविद्ये त्विदानीं मे त्वं निबोधानुपूर्वशः ॥ २४४.१॥
Containing 48 sacred Sanskrit shlokas with multi-author commentaries and translations.
वसिष्ठ उवाच ।
सांख्यदर्शनमेतावद् उक्तं ते नृपसत्तम ।
विद्याविद्ये त्विदानीं मे त्वं निबोधानुपूर्वशः ॥ २४४.१॥
अभेद्यमाहुरव्यक्तं सर्गप्रलयधर्मिणः ।
सर्गप्रलय इत्युक्तं विद्याविद्ये च विंशकः ॥ २४४.२॥
परस्परस्य विद्या वै तन् निबोधानुपूर्वशः ।
यथोक्तम् ऋषिभिस्तात सांख्यस्यातिनिदर्शनम् ॥ २४४.३॥
कर्मेन्द्रियाणां सर्वेषां विद्या बुद्धीन्द्रियं स्मृतम् ।
बुद्धीन्द्रियाणां च तथा विशेषा इति नः श्रुतम् ॥ २४४.४॥
विषयाणां मनस्तेषां विद्यामाहुर्मनीषिणः ।
मनसः पञ्च भूतानि विद्या इत्यभिचक्षते ॥ २४४.५॥
अहंकारस्तु भूतानां पञ्चानां नात्र संशयः ।
अहंकारस्तथा विद्या बुद्धिर्विद्या नरेश्वर ॥ २४४.६॥
बुद्ध्या प्रकृतिरव्यक्तं तत्त्वानां परमेश्वरः ।
विद्या ज्ञेया नरश्रेष्ठ विधिश्च परमः स्मृतः ॥ २४४.७॥
अव्यक्तमपरं प्राहुर्विद्या वै पञ्चविंशकः ।
सर्वस्य सर्वमित्युक्तं ज्ञेयज्ञानस्य पारगः ॥ २४४.८॥
ज्ञानमव्यक्तमित्युक्तं ज्ञेयं वै पञ्चविंशकम् ।
तथैव ज्ञानमव्यक्तं विज्ञाता पञ्चविंशकः ॥ २४४.९॥
विद्याविद्ये तु तत्त्वेन मयोक्ते वै विशेषतः ।
अक्षरं च क्षरं चैव यद् उक्तं तन् निबोध मे ॥ २४४.१०॥
उभावेतौ क्षरावुक्तौ उभावेतावनक्षरौ ।
कारणं तु प्रवक्ष्यामि यथाज्ञानं तु ज्ञानतः ॥ २४४.११॥
अनादिनिधनावेतौ उभावेवेश्वरौ मतौ ।
तत्त्वसंज्ञावुभावेव प्रोच्येते ज्ञानचिन्तकैः ॥ २४४.१२॥
सर्गप्रलयधर्मित्वाद् अव्यक्तं प्राहुरव्ययम् ।
तद् एतद् गुणसर्गाय विकुर्वाणं पुनः पुनः ॥ २४४.१३॥
गुणानां महदादीनामुत्पद्यति परस्परम् ।
अधिष्ठानं क्षेत्रमाहुरेतद् वै पञ्चविंशकम् ॥ २४४.१४॥
यद् अन्तर्गुणजालं तु तद् व्यक्तात्मनि संक्षिपेत् ।
तद् अहं तद् गुणैस्तैस्तु पञ्चविंशे विलीयते ॥ २४४.१५॥
गुणा गुणेषु लीयन्ते तद् एका प्रकृतिर्भवेत् ।
क्षेत्रज्ञोऽपि तदा तावत् क्षेत्रज्ञः सम्प्रणीयते ॥ २४४.१६॥
यदाक्षरं प्रकृतिर्यं गच्छते गुणसंज्ञिता ।
निर्गुणत्वं च वै देहे गुणेषु परिवर्तनात् ॥ २४४.१७॥
एवमेव च क्षेत्रज्ञः क्षेत्रज्ञानपरिक्षयात् ।
प्रकृत्या निर्गुणस्त्वेष इत्येवमनुशुश्रुम ॥ २४४.१८॥
क्षरो भवत्येष यदा गुणवती गुणेष्वथ ।
प्रकृतिं त्वथ जानाति निर्गुणत्वं तथात्मनः ॥ २४४.१९॥
तथा विशुद्धो भवति प्रकृतेः परिवर्जनात् ।
अन्योऽहमन्येयमिति यदा बुध्यति बुद्धिमान् ॥ २४४.२०॥
तदैषोऽव्यथतामेति न च मिश्रत्वमाव्रजेत् ।
प्रकृत्या चैष राजेन्द्र मिश्रोऽन्योऽन्यस्य दृश्यते ॥ २४४.२१॥
यदा तु गुणजालं तत् प्राकृतं विजुगुप्सते ।
पश्यते च परं पश्यंस्तदा पश्यन् नु संसृजेत् ॥ २४४.२२॥
किं मया कृतमेतावद् योऽहं कालनिमज्जनः ।
यथा मत्स्यो ह्यभिज्ञानाद् अनुवर्तितवाञ् जलम् ॥ २४४.२३॥
अहमेव हि सम्मोहाद् अन्यमन्यं जनाज्जनम् ।
मत्स्यो यथोदकज्ञानाद् अनुवर्तितवान् इह ॥ २४४.२४॥
मत्स्योऽन्यत्वमथाज्ञानाद् उदकान् नाभिमन्यते ।
आत्मानं तद् अवज्ञानाद् अन्यं चैव न वेद्म्यहम् ॥ २४४.२५॥
ममास्तु धिक् कुबुद्धस्य योऽहं मग्न इमं पुनः ।
अनुवर्तितवान् मोहाद् अन्यमन्यं जनाज्जनम् ॥ २४४.२६॥
अयमनुभवेद् बन्धुरनेन सह मे क्षयम् ।
साम्यमेकत्वतां यातो यादृशस्तादृशस्त्वहम् ॥ २४४.२७॥
तुल्यतामिह पश्यामि सदृशोऽहमनेन वै ।
अयं हि विमलो व्यक्तमहमीदृशकस्तदा ॥ २४४.२८॥
योऽहमज्ञानसम्मोहाद् अज्ञया सम्प्रवृत्तवान् ।
संसर्गाद् अतिसंसर्गात् स्थितः कालमिमं त्वहम् ॥ २४४.२९॥
सोऽहमेवं वशीभूतः कालमेतं न बुद्धवान् ।
उत्तमाधममध्यानां तामहं कथमावसे ॥ २४४.३०॥