अध्याय 243, Verse 1
जनक उवाच ।
अक्षरक्षरयोरेष द्वयोः सम्बन्ध इष्यते ।
स्त्रीपुंसयोर्वा सम्बन्धः स वै पुरुष उच्यते ॥ २४३.१॥
Containing 90 sacred Sanskrit shlokas with multi-author commentaries and translations.
जनक उवाच ।
अक्षरक्षरयोरेष द्वयोः सम्बन्ध इष्यते ।
स्त्रीपुंसयोर्वा सम्बन्धः स वै पुरुष उच्यते ॥ २४३.१॥
ऋते तु पुरुषं नेह स्त्री गर्भान् धारयत्युत ।
ऋते स्त्रियं न पुरुषो रूपं निर्वर्तते तथा ॥ २४३.२॥
अन्योन्यस्याभिसम्बन्धाद् अन्योन्यगुणसंश्रयात् ।
रूपं निर्वर्तयेद् एतद् एवं सर्वासु योनिषु ॥ २४३.३॥
रत्यर्थमतिसंयोगाद् अन्योन्यगुणसंश्रयात् ।
ऋतौ निर्वर्तते रूपं तद् वक्ष्यामि निदर्शनम् ॥ २४३.४॥
ये गुणाः पुरुषस्येह ये च मातुर्गुणास्तथा ।
अस्थि स्नायु च मज्जा च जानीमः पितृतो द्विज ॥ २४३.५॥
त्वङ्मांसशोणितं चेति मातृजान्यनुशुश्रुम ।
एवमेतद् द्विजश्रेष्ठ वेदशास्त्रेषु पठ्यते ॥ २४३.६॥
प्रमाणं यच्च वेदोक्तं शास्त्रोक्तं यच्च पठ्यते ।
वेदशास्त्रप्रमाणं च प्रमाणं तत् सनातनम् ॥ २४३.७॥
एवमेवाभिसम्बन्धौ नित्यं प्रकृतिपूरुषौ ।
यच्चापि भगवंस्तस्मान् मोक्षधर्मो न विद्यते ॥ २४३.८॥
अथवानन्तरकृतं किंचिद् एव निदर्शनम् ।
तन् ममाचक्ष्व तत्त्वेन प्रत्यक्षो ह्यसि सर्वदा ॥ २४३.९॥
मोक्षकामा वयं चापि काङ्क्षामो यद् अनामयम् ।
अजेयमजरं नित्यमतीन्द्रियमनीश्वरम् ॥ २४३.१०॥
वसिष्ठ उवाच ।
यद् एतद् उक्तं भवता वेदशास्त्रनिदर्शनम् ।
एवमेतद् यथा वक्ष्ये तत्त्वग्राही यथा भवान् ॥ २४३.११॥
धार्यते हि त्वया ग्रन्थ उभयोर्वेदशास्त्रयोः ।
न च ग्रन्थस्य तत्त्वज्ञो यथातत्त्वं नरेश्वर ॥ २४३.१२॥
यो हि वेदे च शास्त्रे च ग्रन्थधारणतत्परः ।
न च ग्रन्थार्थतत्त्वज्ञस्तस्य तद्धारणं वृथा ॥ २४३.१३॥
भारं स वहते तस्य ग्रन्थस्यार्थं न वेत्ति यः ।
यस्तु ग्रन्थार्थतत्त्वज्ञो नास्य ग्रन्थागमो वृथा ॥ २४३.१४॥
ग्रन्थस्यार्थं स पृष्टस्तु मादृशो वक्तुमर्हति ।
यथातत्त्वाभिगमनाद् अर्थं तस्य स विन्दति ॥ २४३.१५॥
न यः समुत्सुकः कश्चिद् ग्रन्थार्थं स्थूलबुद्धिमान् ।
स कथं मन्दविज्ञानो ग्रन्थं वक्ष्यति निर्णयात् ॥ २४३.१६॥
अज्ञात्वा ग्रन्थतत्त्वानि वादं यः कुरुते नरः ।
लोभाद् वाप्यथवा दम्भात् स पापी नरकं व्रजेत् ॥ २४३.१७॥
निर्णयं चापि च्छिद्रात्मा न तद् वक्ष्यति तत्त्वतः ।
सोऽपीहास्यार्थतत्त्वज्ञो यस्मान् नैवात्मवान् अपि ॥ २४३.१८॥
तस्मात् त्वं शृणु राजेन्द्र यथैतद् अनुदृश्यते ।
यथा तत्त्वेन सांख्येषु योगेषु च महात्मसु ॥ २४३.१९॥
यद् एव योगाः पश्यन्ति सांख्यं तद् अनुगम्यते ।
एकं सांख्यं च योगं च यः पश्यति स बुद्धिमान् ॥ २४३.२०॥
त्वङ् मांसं रुधिरं मेदः पित्तं मज्जास्थि स्नायु च ।
एतद् ऐन्द्रियकं तात यद् भवान् इत्थमात्थ माम् ॥ २४३.२१॥
द्रव्याद् द्रव्यस्य निर्वृत्तिरिन्द्रियाद् इन्द्रियं तथा ।
देहाद् देहमवाप्नोति बीजाद् बीजं तथैव च ॥ २४३.२२॥
निरिन्द्रियस्य बीजस्य निर्द्रव्यस्यापि देहिनः ।
कथं गुणा भविष्यन्ति निर्गुणत्वान् महात्मनः ॥ २४३.२३॥
गुणा गुणेषु जायन्ते तत्रैव विरमन्ति च ।
एवं गुणाः प्रकृतिजा जायन्ते न च यान्ति च ॥ २४३.२४॥
त्वङ् मांसं रुधिरं मेदः पित्तं मज्जास्थि स्नायु च ।
अष्टौ तान्यथ शुक्रेण जानीहि प्राकृतेन वै ॥ २४३.२५॥
पुमांश्चैवापुमांश्चैव स्त्रीलिङ्गं प्राकृतं स्मृतम् ।
वायुरेष पुमांश्चैव रस इत्यभिधीयते ॥ २४३.२६॥
अलिङ्गा प्रकृतिर्लिङ्गैरुपलभ्यति सात्मजैः ।
यथा पुष्पफलैर्नित्यं मूर्तं चामूर्तयस्तथा ॥ २४३.२७॥
एवमप्यनुमानेन स लिङ्गमुपलभ्यते ।
पञ्चविंशतिकस्तात लिङ्गेषु नियतात्मकः ॥ २४३.२८॥
अनादिनिधनोऽनन्तः सर्वदर्शनकेवलः ।
केवलं त्वभिमानित्वाद् गुणेषु गुण उच्यते ॥ २४३.२९॥
गुणा गुणवतः सन्ति निर्गुणस्य कुतो गुणाः ।
तस्माद् एवं विजानन्ति ये जना गुणदर्शिनः ॥ २४३.३०॥