अध्याय 242, Verse 1
वसिष्ठ उवाच ।
एवमप्रतिबुद्धत्वाद् अबुद्धमनुवर्तते ।
देहाद् देहसहस्राणि तथा च न स भिद्यते ॥ २४२.१॥
Containing 58 sacred Sanskrit shlokas with multi-author commentaries and translations.
वसिष्ठ उवाच ।
एवमप्रतिबुद्धत्वाद् अबुद्धमनुवर्तते ।
देहाद् देहसहस्राणि तथा च न स भिद्यते ॥ २४२.१॥
तिर्यग्योनिसहस्रेषु कदाचिद् देवतास्वपि ।
उत्पद्यति तपोयोगाद् गुणैः सह गुणक्षयात् ॥ २४२.२॥
मनुष्यत्वाद् दिवं याति देवो मानुष्यमेति च ।
मानुष्यान् निरयस्थानमालयं प्रतिपद्यते ॥ २४२.३॥
कोषकारो यथात्मानं कीटः समभिरुन्धति ।
सूत्रतन्तुगुणैर्नित्यं तथायमगुणो गुणैः ॥ २४२.४॥
द्वंद्वमेति च निर्द्वंद्वस्तासु तास्विह योनिषु ।
शीर्षरोगेऽक्षिरोगे च दन्तशूले गलग्रहे ॥ २४२.५॥
जलोदरेऽतिसारे च गण्डमालाविचर्चिके ।
श्वित्रकुष्ठेऽग्निदग्धे च सिध्मापस्मारयोरपि ॥ २४२.६॥
यानि चान्यानि द्वंद्वानि प्राकृतानि शरीरिणाम् ।
उत्पद्यन्ते विचित्राणि तान्येवात्माभिमन्यते ॥ २४२.७॥
अभिमानातिमानानां तथैव सुकृतान्यपि ।
एकवासाश्चतुर्वासाः शायी नित्यमधस्तथा ॥ २४२.८॥
मण्डूकशायी च तथा वीरासनगतस्तथा ।
वीरमासनमाकाशे तथा शयनमेव च ॥ २४२.९॥
इष्टकाप्रस्तरे चैव चक्रकप्रस्तरे तथा ।
भस्मप्रस्तरशायी च भूमिशय्यानुलेपनः ॥ २४२.१०॥
वीरस्थानाम्बुपाके च शयनं फलकेषु च ।
विविधासु च शय्यासु फलगृह्यान्वितासु च ॥ २४२.११॥
उद्याने खललग्ने तु क्षौमकृष्णाजिनान्वितः ।
मणिवालपरीधानो व्याघ्रचर्मपरिच्छदः ॥ २४२.१२॥
सिंहचर्मपरीधानः पट्टवासास्तथैव च ।
फलकं परिधानश्च तथा कटकवस्त्रधृक् ॥ २४२.१३॥
कटैकवसनश्चैव चीरवासास्तथैव च ।
वस्त्राणि चान्यानि बहून्यभिमत्य च बुद्धिमान् ॥ २४२.१४॥
भोजनानि विचित्राणि रत्नानि विविधानि च ।
एकरात्रान्तराशित्वमेककालिकभोजनम् ॥ २४२.१५॥
चतुर्थाष्टमकालं च षष्ठकालिकमेव च ।
षड्रात्रभोजनश्चैव तथा चाष्टाहभोजनः ॥ २४२.१६॥
मासोपवासी मूलाशी फलाहारस्तथैव च ।
वायुभक्षश्च पिण्याक+ ।
दधिगोमयभोजनः ॥ २४२.१७॥
गोमूत्रभोजनश्चैव काशपुष्पाशनस्तथा ।
शैवालभोजनश्चैव तथा चान्येन वर्तयन् ॥ २४२.१८॥
वर्तयञ् शीर्णपर्णैश्च प्रकीर्णफलभोजनः ।
विविधानि च कृच्छ्राणि सेवते सिद्धिकाङ्क्षया ॥ २४२.१९॥
चान्द्रायणानि विधिवल्लिङ्गानि विविधानि च ।
चातुराश्रम्ययुक्तानि धर्माधर्माश्रयाण्यपि ॥ २४२.२०॥
उपाश्रयान् अप्यपरान् पाखण्डान् विविधान् अपि ।
विविक्ताश्च शिलाछायास्तथा प्रस्रवणानि च ॥ २४२.२१॥
पुलिनानि विविक्तानि विविधानि वनानि च ।
काननेषु विविक्ताश्च शैलानां महतीर्गुहाः ॥ २४२.२२॥
नियमान् विविधांश्चापि विविधानि तपांसि च ।
यज्ञांश्च विविधाकारान् विद्याश्च विविधास्तथा ॥ २४२.२३॥
वणिक्पथं द्विजक्षत्र+ ।
वैश्यशूद्रांस्तथैव च ।
दानं च विविधाकारं दीनान्धकृपणादिषु ॥ २४२.२४॥
अभिमन्येत संधातुं तथैव विविधान् गुणान् ।
सत्त्वं रजस्तमश्चैव धर्मार्थौ काम एव च ॥ २४२.२५॥
प्रकृत्यात्मानमेवात्मा एवं प्रविभजत्युत ।
स्वाहाकारवषट्कारौ स्वधाकारनमस्क्रिये ॥ २४२.२६॥
यजनाध्ययने दानं तथैवाहुः प्रतिग्रहम् ।
याजनाध्यापने चैव तथान्यद् अपि किंचन ॥ २४२.२७॥
जन्ममृत्युविधानेन तथा विशसनेन च ।
शुभाशुभभयं सर्वमेतद् आहुः सनातनम् ॥ २४२.२८॥
प्रकृतिः कुरुते देवी भयं प्रलयमेव च ।
दिवसान्ते गुणान् एतान् अतीत्यैकोऽवतिष्ठते ॥ २४२.२९॥
रश्मिजालमिवादित्यस्तत्कालं संनियच्छति ।
एवमेवैष तत् सर्वं क्रीडार्थमभिमन्यते ॥ २४२.३०॥