अध्याय 241, Verse 1
मुनय ऊचुः ।
किं तद् अक्षरमित्युक्तं यस्मान् नावर्तते पुनः ।
किंस्वित् तत् क्षरमित्युक्तं यस्माद् आवर्तते पुनः ॥ २४१.१॥
Containing 48 sacred Sanskrit shlokas with multi-author commentaries and translations.
मुनय ऊचुः ।
किं तद् अक्षरमित्युक्तं यस्मान् नावर्तते पुनः ।
किंस्वित् तत् क्षरमित्युक्तं यस्माद् आवर्तते पुनः ॥ २४१.१॥
अक्षराक्षरयोर्व्यक्तिं पृच्छामस्त्वां महामुने ।
उपलब्धुं मुनिश्रेष्ठ तत्त्वेन मुनिपुंगव ॥ २४१.२॥
त्वं हि ज्ञानविदां श्रेष्ठः प्रोच्यसे वेदपारगैः ।
ऋषिभिश्च महाभागैर्यतिभिश्च महात्मभिः ॥ २४१.३॥
तद् एतच्छ्रोतुमिच्छामस्त्वत्तः सर्वं महामते ।
न तृप्तिमधिगच्छामः शृण्वन्तोऽमृतमुत्तमम् ॥ २४१.४॥
व्यास उवाच ।
अत्र वो वर्णयिष्यामि इतिहासं पुरातनम् ।
वसिष्ठस्य च संवादं करालजनकस्य च ॥ २४१.५॥
वसिष्ठं श्रेष्ठमासीनम् ऋषीणां भास्करद्युतिम् ।
पप्रच्छ जनको राजा ज्ञानं नैःश्रेयसं परम् ॥ २४१.६॥
परमात्मनि कुशलमध्यात्मगतिनिश्चयम् ।
मैत्रावरुणिमासीनमभिवाद्य कृताञ्जलिः ॥ २४१.७॥
स्वच्छन्दं सुकृतं चैव मधुरं चाप्यनुल्बणम् ।
पप्रच्छर्षिवरं राजा करालजनकः पुरा ॥ २४१.८॥
करालजनक उवाच ।
भगवञ् श्रोतुमिच्छामि परं ब्रह्म सनातनम् ।
यस्मिन् न पुनरावृत्तिं प्राप्नुवन्ति मनीषिणः ॥ २४१.९॥
यच्च तत् क्षरमित्युक्तं यत्रेदं क्षरते जगत् ।
यच्चाक्षरमिति प्रोक्तं शिवं क्षेममनामयम् ॥ २४१.१०॥
वसिष्ठ उवाच ।
श्रूयतां पृथिवीपाल क्षरतीदं यथा जगत् ।
यत्र क्षरति पूर्वेण यावत्कालेन चाप्यथ ॥ २४१.११॥
युगं द्वादशसाहस्र्यं कल्पं विद्धि चतुर्युगम् ।
दशकल्पशतावर्तमहस्तद् ब्राह्ममुच्यते ॥ २४१.१२॥
रात्रिश्चैतावती राजन् यस्यान्ते प्रतिबुध्यते ।
सृजत्यनन्तकर्माणि महान्तं भूतमग्रजम् ॥ २४१.१३॥
मूर्तिमन्तममूर्तात्मा विश्वं शम्भुः स्वयम्भुवः ।
यत्रोत्पत्तिं प्रवक्ष्यामि मूलतो नृपसत्तम ॥ २४१.१४॥
अणिमा लघिमा प्राप्तिरीशानं ज्योतिरव्ययम् ।
सर्वतःपाणिपादान्तं सर्वतोक्षिशिरोमुखम् ॥ २४१.१५॥
सर्वतःश्रुतिमल्लोके सर्वमावृत्य तिष्ठति ।
हिरण्यगर्भो भगवान् एष बुद्धिरिति स्मृतिः ॥ २४१.१६॥
महान् इति च योगेषु विरिञ्चिरिति चाप्यथ ।
सांख्ये च पठ्यते शास्त्रे नामभिर्बहुधात्मकः ॥ २४१.१७॥
विचित्ररूपो विश्वात्मा एकाक्षर इति स्मृतः ।
धृतमेकात्मकं येन कृत्स्नं त्रैलोक्यमात्मना ॥ २४१.१८॥
तथैव बहुरूपत्वाद् विश्वरूप इति श्रुतः ।
एष वै विक्रियापन्नः सृजत्यात्मानमात्मना ॥ २४१.१९॥
प्रधानं तस्य संयोगाद् उत्पन्नं सुमहत् पुरम् ।
अहंकारं महातेजाः प्रजापतिनमस्कृतम् ॥ २४१.२०॥
अव्यक्ताद् व्यक्तिमापन्नं विद्यासर्गं वदन्ति तम् ।
महान्तं चाप्यहंकारमविद्यासर्ग एव च ॥ २४१.२१॥
अचरश्च चरश्चैव समुत्पन्नौ तथैकतः ।
विद्याविद्येति विख्याते श्रुतिशास्त्रानुचिन्तकैः ॥ २४१.२२॥
भूतसर्गमहंकारात् तृतीयं विद्धि पार्थिव ।
अहंकारेषु नृपते चतुर्थं विद्धि वैकृतम् ॥ २४१.२३॥
वायुर्ज्योतिरथाकाशमापोऽथ पृथिवी तथा ।
शब्दस्पर्शौ च रूपं च रसो गन्धस्तथैव च ॥ २४१.२४॥
एवं युगपद् उत्पन्नं दशवर्गमसंशयम् ।
पञ्चमं विद्धि राजेन्द्र भौतिकं सर्गमर्थकृत् ॥ २४१.२५॥
श्रोत्रं त्वक् चक्षुषी जिह्वा घ्राणमेव च पञ्चमम् ।
वाग् हस्तौ चैव पादौ च पायुर्मेढ्रं तथैव च ॥ २४१.२६॥
बुद्धीन्द्रियाणि चैतानि तथा कर्मेन्द्रियाणि च ।
सम्भूतानीह युगपन् मनसा सह पार्थिव ॥ २४१.२७॥
एषा तत्त्वचतुर्विंशा सर्वाकृतिः प्रवर्तते ।
यां ज्ञात्वा नाभिशोचन्ति ब्राह्मणास्तत्त्वदर्शिनः ॥ २४१.२८॥
एवमेतत् समुत्पन्नं त्रैलोक्यमिदमुत्तमम् ।
वेदितव्यं नरश्रेष्ठ सदैव नरकार्णवे ॥ २४१.२९॥
सयक्षभूतगन्धर्वे सकिंनरमहोरगे ।
सचारणपिशाचे वै सदेवर्षिनिशाचरे ॥ २४१.३०॥